अभिनिष्क्रामति द्वारम्

4-3-86 अभिनिष्क्रामति द्वारम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तद्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तदित्येव। तदिति द्वितीयासमर्थादभिनिष्क्रामतीत्येतस्मिन्नर्थे याथाविहितं प्रत्ययो भवति, यदभिनिष्क्रामति द्वारं चेत् तद् भवति। आभिमुख्येन निष्क्रामति, अभिनिष्क्रामति। स्रुघ्नमभिनिष्क्रामति कान्यकु ब्जद्वारं स्रौघ्नम्। माथुरम्। राष्ट्रियम्। द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धम्, तदिह स्वातन्त्र्येण विवक्ष्यते, तथा साध्वसिश्छिनत्तीति। द्वारमिति किम् ? स्रुघ्नमभिनिष्क्रामति पुरुषः॥

Siddhanta Kaumudi

Up

तदित्येव । स्रुघ्नमभिनिष्क्रामति स्रौघ्नं कान्यकुब्जद्वारम् ॥

Laghu Siddhanta Kaumudi

Up

स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

द्वारमभिनिष्कमणक्रियायामिति । अनेनैतदाह - तत्स्थेष्वभिनिष्क्रामत्सु करणभूते द्वारे तदारोपाद् द्वारमेवाभिनिष्क्रामतीत्युच्यत इति । अभिनिष्क्रमणं द्वारमिति नोक्तम् ; तदिति द्वितीयाधिकारात्, तदा हि कृद्योगलक्षणा षष्ठी प्राप्नोति ॥