4-2-69 तस्य निवासः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अस्मिन् अस्ति इति देशे तन्नाम्नि
'तस्य निवासः इति तन्नामा देशः' (इति) समर्थानाम् प्रथमात् परः तद्धितः प्रत्ययः अण् वा
षष्ठीसमर्थात् 'तस्य निवासः' अस्मिन् अर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।
To indicate the name of a country by referring to its residents, an appropriate तद्धित प्रत्यय gets attached to the word in षष्ठीविभक्ति representing the name of the residents.
तस्येति षष्ठीसमर्थाद् निवास इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। निवसन्त्यस्मिन्निति निवासः। ऋजुनावां निवासो देश आर्जुनावो देशः। शैबः। औदिष्ठः॥
शिबीनां निवासो देशः शैबः ॥
शिबीनां निवासो देशः शैबः॥
कस्यचन देशस्य नाम्नः निर्देशं तस्मिन् देशे यस्य निवासः अस्ति तस्य आधारेण कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा - 1. शिबीनां निवासः देशः = शिबि + अण् → शैबः देशः । 2. उत्सानां निवासः देशः = उत्स + अण् → औत्सः देशः । 3. ऋजुनावां निवासः देशः = ऋजुनव + अण् → आर्जुनावः देशः । स्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67, <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।
<<तस्य निवासः>> - तस्य निवासः । 'तन्नाम्नि देशे' इत्येव । तस्य निवास इत्यर्थे षष्ठन्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः । स्वत्ववान्विषयः, निवासस्तु वसतिमात्रं, स्वत्वाऽस्वत्वसाधारणमित्याहुः ।
ऋजुनावामिति । ऋज्वी नौर्येषां तेषामित्यर्थः ॥