अधिकृत्य कृते ग्रन्थे

4-3-87 अधिकृत्य कृते ग्रन्थे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तद्

Kashika

Up

index: 4.3.87 sutra: अधिकृत्य कृते ग्रन्थे


तदित्येव। अधिकृत्य एतदपेक्ष्य द्वितीया। अधिकृत्य प्रस्तुत्य, आगूर्य इत्यर्थः। तदिति द्वितीयासमर्थादधिकृत्य कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत् तत् कृतं ग्रन्थश्चेत् स भवति। सुभद्रामधित्य कृतो ग्रन्थः सौभद्रः। गैरिमित्रः। यायातः। ग्रन्थे इति किम्? सुभ्द्रामधिकृत्य कृतः प्रासादः। लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलम्। वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता। सुमनोत्तरा। उर्वशी। न च भवति। भिमरथी।

Siddhanta Kaumudi

Up

index: 4.3.87 sutra: अधिकृत्य कृते ग्रन्थे


तदित्येव । शारीरकमधिकृत्य कृते ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.87 sutra: अधिकृत्य कृते ग्रन्थे


शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः॥

Balamanorama

Up

index: 4.3.87 sutra: अधिकृत्य कृते ग्रन्थे


अधिकृत्य कृते ग्रन्थे - अधिकृत्य । तदित्येवेति ।अदिकृत्य कृतो ग्रन्थः॑ इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारीरकमिति । शरीरस्यायं शारीरः=जीवात्मा, तमित्यर्थः । तस्येदमित्यणन्तात्स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः ।

Padamanjari

Up

index: 4.3.87 sutra: अधिकृत्य कृते ग्रन्थे


आख्यायिकाभ्य इति । तादर्थ्ये चतुर्थी, आख्यायिकाउगद्यग्रन्थप्रभेदः, तदभिधानाय यः प्रत्यय उत्पन्नस्तस्य बरुलं लुब् भवतीत्यर्थः । न चेदं वक्तव्यम्, अभेदोपचारेण ताच्छब्द्यलाभाद् अभिधानलक्षणत्वाच्च क्वचितद्धित उत्पद्यते, क्वचिन्न ॥