अधिकृत्य कृते ग्रन्थे

4-3-87 अधिकृत्य कृते ग्रन्थे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तद्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तदित्येव। अधिकृत्यैतदपेक्षया द्वितीया। अधिकृत्य, प्रस्तुत्य, आगूर्येत्यर्थः। तदिति द्वितीयासमर्थादधिकृत्य कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत् कृतं ग्रन्थश्चेत् स भवति। सुभद्रामधिकृत्य कृतो ग्रन्थः सौभद्रः। गैरिमित्रः। यायातः। ग्रन्थ इति किम् ? सुभद्रामधिकृत्य कृतः प्रासादः॥ लुबाख्यायिकाभ्यः प्रत्ययस्य बहुलम्॥ वासवदत्तामधिकृत्य कृताख्यायिका वासवदत्ता। सुमनोत्तरा। उर्वशी। न च भवति — भैमरथी॥

Siddhanta Kaumudi

Up

तदित्येव । शारीरकमधिकृत्य कृते ग्रन्थः शारीरकीयः । शारीरकं भाष्यमिति त्वभेदोपचारात् ॥

Laghu Siddhanta Kaumudi

Up

शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अधिकृत्य कृते ग्रन्थे>> - अधिकृत्य । तदित्येवेति ।अदिकृत्य कृतो ग्रन्थः॑ इत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युरित्यर्थः । शारीरकमिति । शरीरस्यायं शारीरः=जीवात्मा, तमित्यर्थः । तस्येदमित्यणन्तात्स्वार्थे कः । शारीरकीय इति । वृद्धत्वाच्छः ।

Padamanjari

Up

आख्यायिकाभ्य इति । तादर्थ्ये चतुर्थी, आख्यायिकाउगद्यग्रन्थप्रभेदः, तदभिधानाय यः प्रत्यय उत्पन्नस्तस्य बरुलं लुब् भवतीत्यर्थः । न चेदं वक्तव्यम्, अभेदोपचारेण ताच्छब्द्यलाभाद् अभिधानलक्षणत्वाच्च क्वचितद्धित उत्पद्यते, क्वचिन्न ॥