4-3-51 व्याहरति मृगः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र
तत्रेत्येव, कालादिति च। कालवाचिनः सप्तमीसमर्थात् प्रातिपदिकाद् व्याहरति मृग इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। निशायां व्याहरति मृगो नैशः, नैशिकः। प्रादोषः, प्रादोषिकः। मृग इति किम् ? निशायां व्याहरत्युलूकः॥
कालवाचिनः सप्तम्यन्ताच्छब्दायत इत्यर्थे अणादयः स्युः यो व्याहरति स मृगश्चेत् । निशायां व्याहरति नैशो मृगः । नैशिकः ॥
<<व्याहरति मृगः>> - व्याहरति मृगः । तत्र कालादित्येव । 'देयमृणे' इति निवृत्तम् ।
व्याहरति उ शब्दायते ॥