संभूते

4-3-41 सम्भूते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तत्रेत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् संभूत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अवक्ऌप्तिः प्रमाणानतिरेकश्च संभवत्यर्थ इह गृह्यते, नोत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात् । स्रुघ्ने संभवति स्रौघ्नः। माथुरः। राष्ट्रियः॥

Siddhanta Kaumudi

Up

स्रुघ्ने संभवति स्रौघ्नः ॥

Laghu Siddhanta Kaumudi

Up

स्रुघ्ने संभवति स्रौघ्नः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<संभूते>> - संभूते । तत्रेत्येव । सप्तम्यात्सम्भूतेऽर्थेऽणादयो घादयश्च यथातं स्युरित्यर्थः । संभवः-संभावना ।

Padamanjari

Up

अवकॢप्तिः प्रमाणनतिरेकश्चेति । सकृत्प्रयुक्तस्याप्यनेकार्थत्वमविरुद्धम्, तन्त्राद्याश्रयणाअदिति भावः । तत्रावकॢप्तिः उ सम्भावना, इदमेवं भवेदिति बुद्धिः; प्रमाणानतिरेकः उ आधारपरिमाणादाधेयपरिमाणास्यानतिरेकता, यस्यां सत्यां सर्वमाधेयमाधारेऽनुप्रविशति । स्रौघ्न इति । देवदत इदानीं स्रुघ्ने सम्भाव्यत इत्यर्थः, स्रुघ्नप्रमाणाद्वाऽनतिरिच्यते सेनादिकोऽर्थ इत्यर्थः ॥