तस्य विकारः

4-3-134 तस्य विकारः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तस्येति षष्ठीसमर्थाद् विकार इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रकृतेरवस्थान्तरं विकारः। किमिहोदाहरणम्? अप्राण्याद्युदात्तमवृद्धम्, यस्य च नान्यत् प्रतिपदं विधानम्। अश्मनो विकार आश्मनः। आश्मः। <<अश्मनो विकारे>> (वा० ६.४.१४४) इति टिलोपः पाक्षिकः। भास्मनः। मार्त्तिकः। नित्स्वरेणाद्युदात्ता एते। तस्यप्रकरणे तस्येति पुनर्वचनं शैषिकनिवृत्त्यर्थम्। विकारावयवयोर्घादयो न भवन्ति। हालः। सैरः॥

Siddhanta Kaumudi

Up

<!अश्मनो विकारे टिलोपो वक्तव्यः !> (वार्तिकम्) ॥ अश्मने विकारः आश्मः । भास्मनः । मार्तिकः ॥

Laghu Siddhanta Kaumudi

Up

<<अश्मनो विकारे टिलोपो वक्तव्यः>> (वार्त्तिकम्) । अश्मनो विकारः आश्मः । भास्मनः । मार्त्तिकः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तस्य विकारः>> - अथ विकारार्थप्रत्यया निरूप्यते । तस्य विकारः । विक्रियते इति विकारः । कर्मणि घञ् । प्रकृतेकवस्थान्तरात्मिका विक्रियां प्राप्त इत्यर्थः । विकार इत्यर्थे षषथ्ठन्तादणादयः साधारणा, वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः । अश्मनो विकार इति । विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः ।अ॑निति प्रकृतिभावापवादः । आश्म इति । अणि टिलोपे रूपम् । एवं चर्मणो विकारः चार्मः कोशः । 'चर्मणः कोशे' इत्युपसह्ख्यानाट्टिलोपः । भास्मन इति । भस्मनो विकार इत्यर्थः । अणिअ॑निति प्रकृतिभावान्न टिलोपः । मार्त्तिक इति । मृत्तिकाया विकार इत्यर्थः । अत्रप्राणिरजतादिभ्योऽञ् 'ओरञ्'अनुदात्तादेश्चे॑त्यादिवक्ष्यमाणपवादविषयभिन्नमुदाहरणम् । तत्र अश्मन्, भस्मन्, चर्मन् इतित्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम् । मृत्तिकाशब्दोऽपिमृदस्तिक॑न्निति तिकन्नन्तो नित्स्वरेणाद्युदात्तः ।

Padamanjari

Up

प्रकृतेरिति । उपादानकारणस्य । अवस्थान्तरमिति अन्यथात्वम् । अपवादेनानाक्रान्तस्य विषयस्य दुर्लभत्वात्प्रश्नः । किमिहोदाहरणमिति । अप्राणीति । प्राणिभ्योऽञं वक्ष्यति । आद्यौदातमिति । अनुदातादेरप्यञं वक्ष्यति । अवृद्धमिति । वृद्धान्मयट्ंअ वक्ष्यति । यस्य च नान्यदिति । यथा'गोपयसोर्यत्' इति । नित्स्वरेणेति । अश्मभस्मशब्दौ मनिन्प्रत्ययान्तौ ।'मृदस्तिकन्' , मृतिका । तस्य प्रकरणे इति ।'तस्येदम्' इत्यस्मिन् । पुनर्वचन शैषिकनिवृत्यर्थमिति । प्रकृतं हि तस्यग्रहणं शैषिकैर्घादिभिः सम्बद्धम्, अतस्तदनुवृतौ तेऽप्यनुवर्तेरन्, इदं त्वपूर्वं तस्य ग्रहणं क्रियामाणं घादिसम्बद्धस्य तस्यग्रहणस्य निवर्तकं घादीनपि निवर्तयति । ननु च विधेयतया प्रधानभूता घादयः, न ते गुणभूते तस्यग्रहणे निवर्तमानेऽपि निवर्तितुमर्हन्ति, न हि गुणानुवर्ति प्रधानम्, किं तर्हि ? प्रधानानुवर्ती गुणः ? सत्यम् ; तस्य ग्रहणसामर्थ्यात्प्रधानभूतानामपि घादीनां निवृत्तिः, अणाअदयस्तु ननिवर्तन्ते,'प्राग्दीव्यतः' 'प्राग्भवानात्' इति च विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । विकारावयवयोरिति । परस्तातु प्राग्वहतेः'प्राग्घितात्' इति चाधिकारान्तरेणावष्टब्धत्वादेव घादीनां निवृत्तिः सिद्धेति भावः । स्यादेतत् -मा भूवन्ननेन घादयः, तस्य ग्रहणेन निवर्तितत्वात् ;'तस्येदम्' इत्यनेन तु प्राप्नुवन्ति, तस्येदंविशेषत्वाद्विकारावययवयोरिति ? तन्न;'तस्येदम्' इत्येव विकारावयवयोरणादिषु सिद्धेषु पनस्तेषां विधानं शैषिकाणां बाधनार्थमेव । किं तर्ह्युच्यते - तस्येति पुनर्वचनं शैषिकनिवृत्यर्थमिति, यावता सूत्रप्रकृतिरेव शैषिकनिवृत्यर्था ? सत्यम् ; तस्य ग्रहणे त्वसति सूत्रप्रवृत्तिः शैषिकानपि विषयीकुर्यादिति तस्यग्रहणस्यैवायं भारः यदुत वै शैषिका निवर्तन्ते । हालः सैर इति । हलशब्दः'नव्विषयस्यानिसन्तस्य' इत्याद्यौदातः । सीरशब्दः कन्प्रत्ययान्तत्वान्नित्स्वरेणाद्यौदातः, नात्र वक्ष्यमाणस्यापवादस्य कस्यचित्प्रसङ्ग इत्यण्भवति । इदं च योगविभागेनाणादिविधानस्य प्रयोजनं दर्शितम् । यदि हि'तस्य विकारः' 'बिल्वादिभ्यो' ण्ऽ इत्येवापवादविधानार्थमुच्येत, ततो हलस्य विकार इत्यत्र'तस्येदम्' इत्यनेन प्रत्ययो विधातव्यः, ततश्चाणं बाधित्वा'हलसीराट्ठक्' इति ठक् प्राप्नोति, तथान्यस्मिस्तस्येदंविशेषे; योगविभागेन त्वणादीनां विधानादणेव भवति, तस्यग्रहणे तु घादीनां निवृत्तिः प्रयोजनम् । वृजीनां विकारो वार्ज इति, वृजिशब्दस्य फिट्सूत्रेषु विकल्पेनान्तोदातत्वविधानात्पक्षे आद्यौदातत्वादण् । यदि त्वत्र'तस्येदम्' इत्यण्प्रत्ययः स्यात्; यदि वानेन घादयो विधीयेरन् ततो मद्रवृज्योः कन्निति कन्स्यात् । तथा त्रिगर्तानां विकारः त्रैगर्त इति, त्रिगर्तशब्दो बहुव्रीहिपूर्वपदप्रकृतिस्वरेणाद्यौदातः, अत्र प्रथमः'प्राग्दीव्यतो' ण्ऽ प्राप्तः, जनपदलक्षणो वुञ् द्वितीयः, गर्तोतरपदलक्षणश्च्छस्तृतीयः, तदवधिग्रहणेन विहितो वुञ् चतुर्थः; अनेन त्वणेव भवति । यथा रंकूणां विकारो राङ्कव इति - अत्र'प्राग्दीव्यतोण्' प्रथमः, तदपवादयोः ठवृद्धादपिऽ इति ठोर्देअशेठञ्ऽ इति वुञ्ठञोस्तुल्यकक्षयोरन्यतरो द्वितीयः,'कोपधादण्' इति वा कच्छादिपाठाद्वाऽण्तृतीयः,'मनुष्यतत्स्थयोर्वुञ्' चतुर्थः; अनेन त्वण् प्राप्त ओरञा बाधितः'कोपधाच्च' इति प्रतिप्रसूयते । यदि तर्हि विकारावयवयोर्घादयो न भवन्ति पाटलिपुत्रस्यावयवाः पाटलिपुत्रकाः प्रासादा दति,'तस्येदम्' इत्यत्रार्थे रोपधेतोः प्राचाम्ऽ इति वुञ्न प्राप्नोति ? नैष दोषः; प्राण्योषधिवृक्षेभ्यो हि घादीनामवयवे निवृत्तिः, तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्योऽवयवे निवृत्तिः स्यात् ! ॥