तस्य समूहः

4-2-37 तस्य समूहः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

index: 4.2.37 sutra: तस्य समूहः


'तस्य समूहः' (इति) समर्थानां प्रथमात् परः अण् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.2.37 sutra: तस्य समूहः


षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.37 sutra: तस्य समूहः


To indicate the meaning of 'collection / group', a षष्ठीसमर्थ word gets an appropriate तद्धितप्रत्यय.

Kashika

Up

index: 4.2.37 sutra: तस्य समूहः


तस्य इति षष्ठीसमर्थात् समूहः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। किम् इह उदाहरणम्? चित्तवदद्युदात्तमगोत्रं यस्य च न अन्यत् प्रतिपदं ग्रहणम्। अचित्तात् ठकं वक्ष्यति, अनुदात्तादेरञ् 4.2.44, गोत्राद् वुञ्, प्रतिपदं च केदाराद्यञ् च 4.2.40 इत्येवमादि, तत्परिहारेण अत्र उदाहरणं द्रष्टव्यम्। काकानां समूहः काकम्। बाकम्। इनित्रकट्यचश्च 4.2.51 इति यावत् समूहाधिकारः। गुणादिभ्यो ग्रामज् वक्तव्यः। गुणग्रामः। करणग्रामः। गुण। करण। तत्त्व। शब्द। इन्द्रिय। आकृतिगनः।

Siddhanta Kaumudi

Up

index: 4.2.37 sutra: तस्य समूहः


काकानां समूहः काकम् । बाकम् ।

Laghu Siddhanta Kaumudi

Up

index: 4.2.37 sutra: तस्य समूहः


काकानां समूहः काकम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.37 sutra: तस्य समूहः


'समूह' इत्युक्ते 'समुच्चयः' । षष्ठीसमर्थात् समूहस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः विधीयते । यथा -

  1. काकानाम् समूहः = काक + अण् → काक ।

  2. बकानाम् समूहः = बक + अण् → बाक ।

समूहवाचिनः शब्दाः प्रयोगवशात् नित्यम् नपुंसकलिङ्गे भवन्ति । यथा - काकानां समूहः काकम्, बकानां समूहः बाकम् ।

अस्मिन् अर्थे अण्-प्रत्ययस्य भिन्नाः अपवादाः एतादृशाः उक्ताः सन्ति -

  1. भिक्षादिगणे विद्यमानानाम् शब्दानाम् विषये सर्वान् अपवादान् बाधित्वा भिक्षादिभ्यः अण् 4.2.38 इत्यनेन अण्-प्रत्ययः एव भवति ।

  2. अचित्तवाचिनः शब्दात्, तथा 'हस्तिन्' / 'धेनु' एताभ्याम् शब्दाभ्याम् अचित्तहस्तिधेनोः ठक् 4.2.47 अनेन सूत्रेण अण्-प्रत्ययस्य अपवादरूपेण ठक्-प्रत्ययः भवति ।

  3. ये शब्दाः अनुदात्तादयः सन्ति, तेषां विषये अनुदात्तादेः अञ् 4.2.44 इत्यनेन अञ्-प्रत्ययः विधीयते ।

  4. भिन्नानां गणानां विषये अण्-प्रत्ययस्य अपवादरूपेण केचन अन्ये भिन्नाः अपवादाः अपि प्रोक्ताः सन्ति । एतेषां सर्वेषामपवादानाम् सङ्कलनम् अत्र दृश्यताम्

Balamanorama

Up

index: 4.2.37 sutra: तस्य समूहः


तस्य समूहः - तस्य समूहः । इनित्रकठचस्चे॑ति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात्षष्ठन्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः ।अचित्तहस्तिधेनोष्ठ॑गित्याद्यपवादविषयं परिह्मत्योदाहरति — काकं बाकमिति.समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् ।

Padamanjari

Up

index: 4.2.37 sutra: तस्य समूहः


सर्वस्यैव विषयस्यापवादैरवष्टब्धत्वात्पृच्छति - किमिहोदाहरणमिति । काकशुकवकशब्दा आद्यौदाताः'प्राणिनां कुपूर्वाणाम्' इत्यनेन, अस्यार्थः - व्यधिकरणे षष्ठयौ, अथादिः प्राक् शकटेरित्यत आदिरित्यनुवृतं षष्ठीबहुवचनान्तं विपरिणम्यते, प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे अचस्तेषामुदातो भवतीति । तत्र शौकमित्यनुदाहरणम् ; खण्डिकादिषु पाठात् । वकशब्दस्तूदाहार्यः ॥