तस्य समूहः

4-2-37 तस्य समूहः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

'तस्य समूहः' (इति) समर्थानां प्रथमात् परः अण् प्रत्ययः

Neelesh Sanskrit Brief

Up

षष्ठीसमर्थात् शब्दात् समूहस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate the meaning of 'collection / group', a षष्ठीसमर्थ word gets an appropriate तद्धितप्रत्यय.

Kashika

Up

तस्येति षष्ठीसमर्थात् समूह इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। किमिहोदाहरणम्? चित्तवदाद्युदात्तमगोत्रम् यस्य च नान्यत् प्रतिपदं ग्रहणम्। अचित्ताट् ठकं ४.२.४७ वक्ष्यति, <<अनुदात्तादेरञ्>> ४.२.४४ गोत्राद् वुञ् ४.२.३९ प्रतिपदं च <<केदाराद् यञ् च>>४.२.४० इत्येवमादि, तत्परिहारेणात्रोदाहरणं द्रष्टव्यम्। काकानां समूहः काकम्। बाकम्। <<इनित्रकट्यचश्च>> ४.२.५१ इति यावत् समूहाधिकारः॥ गुणादिभ्यो ग्रामज् वक्तव्यः॥ गुणग्रामः। करणग्रामः॥ गुण। करण। तत्त्व। शब्द। इन्द्रिय। आकृतिगणः॥

Siddhanta Kaumudi

Up

काकानां समूहः काकम् । बाकम् ॥

Laghu Siddhanta Kaumudi

Up

काकानां समूहः काकम् ॥

Neelesh Sanskrit Detailed

Up

'समूह' इत्युक्ते 'समुच्चयः' । षष्ठीसमर्थात् समूहस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः विधीयते । यथा - 1. काकानाम् समूहः = काक + अण् → काक । 2. बकानाम् समूहः = बक + अण् → बाक । समूहवाचिनः शब्दाः प्रयोगवशात् नित्यम् नपुंसकलिङ्गे भवन्ति । यथा - काकानां समूहः काकम्, बकानां समूहः बाकम् । अस्मिन् अर्थे अण्-प्रत्ययस्य भिन्नाः अपवादाः एतादृशाः उक्ताः सन्ति - 1. भिक्षादिगणे विद्यमानानाम् शब्दानाम् विषये सर्वान् अपवादान् बाधित्वा <<भिक्षादिभ्यः अण्>> 4.2.38 इत्यनेन अण्-प्रत्ययः एव भवति । 2. अचित्तवाचिनः शब्दात्, तथा 'हस्तिन्' / 'धेनु' एताभ्याम् शब्दाभ्याम् <<अचित्तहस्तिधेनोः ठक्>> 4.2.47 अनेन सूत्रेण अण्-प्रत्ययस्य अपवादरूपेण ठक्-प्रत्ययः भवति । 3. ये शब्दाः अनुदात्तादयः सन्ति, तेषां विषये <<अनुदात्तादेः अञ्>> 4.2.44 इत्यनेन अञ्-प्रत्ययः विधीयते । 4. भिन्नानां गणानां विषये अण्-प्रत्ययस्य अपवादरूपेण केचन अन्ये भिन्नाः अपवादाः अपि प्रोक्ताः सन्ति । एतेषां सर्वेषामपवादानाम् सङ्कलनम् अत्र दृश्यताम्

Balamanorama

Up

<<तस्य समूहः>> - तस्य समूहः । इनित्रकठचस्चे॑ति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात्षष्ठन्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः ।अचित्तहस्तिधेनोष्ठ॑गित्याद्यपवादविषयं परिह्मत्योदाहरति — काकं बाकमिति.समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् ।

Padamanjari

Up

सर्वस्यैव विषयस्यापवादैरवष्टब्धत्वात्पृच्छति - किमिहोदाहरणमिति । काकशुकवकशब्दा आद्यौदाताः'प्राणिनां कुपूर्वाणाम्' इत्यनेन, अस्यार्थः - व्यधिकरणे षष्ठयौ, अथादिः प्राक् शकटेरित्यत आदिरित्यनुवृतं षष्ठीबहुवचनान्तं विपरिणम्यते, प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे अचस्तेषामुदातो भवतीति । तत्र शौकमित्यनुदाहरणम् ; खण्डिकादिषु पाठात् । वकशब्दस्तूदाहार्यः ॥