4-2-68 तेन निर्वृत्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अस्मिन् अस्ति इति देशे तन्नाम्नि
index: 4.2.68 sutra: तेन निर्वृत्तम्
'तेन निर्वृत्तम् इति तन्नामा देशः' (इति) समर्थानाम् प्रथमात् परः तद्धितः प्रत्ययः अण् वा
index: 4.2.68 sutra: तेन निर्वृत्तम्
तृतीयासमर्थात् 'तेन निर्वृत्तम्' इत्यर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।
index: 4.2.68 sutra: तेन निर्वृत्तम्
To indicate the name of a country by referring to its creator, an appropriate तद्धित प्रत्यय gets attached to the word in तृतीयाविभक्ति representing the name of the creator.
index: 4.2.68 sutra: तेन निर्वृत्तम्
तेन इति तृतीयासमर्थात् निर्वृत्तम् इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। देशे तन्नम्नि इति चतुर्ष्वपि योगेषु सम्बध्यते। सहस्रेण निर्वृत्ता साहस्री परिखा। कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी। हेतौ कर्तरि च यथायोगं तृतीया समर्थविभक्तिः।
index: 4.2.68 sutra: तेन निर्वृत्तम्
कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥
index: 4.2.68 sutra: तेन निर्वृत्तम्
कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी॥
index: 4.2.68 sutra: तेन निर्वृत्तम्
'निर्वृत्तम्' इत्युक्ते निर्मितम् । देशस्य अभिधानम् तस्य निर्मातुः / हेतोः निर्देशं कृत्वा कर्तव्यमस्ति चेत् वर्तमानसूत्रस्य प्रयोगः भवति ।
यथा -
सहस्रैः निर्वृत्तम् नगरम् = सहस्र + अण् → साहस्रम् नगरम् । नगरस्य निर्माणे सहस्रजनानाम् साहाय्यमुपलब्धम् इत्यर्थः ।
कुशाम्बेन निर्वृत्ता नगरी = कुशाम्ब + अण् + ङीप् → कौशाम्बी नगरी। कुशाम्बनाम्ना राज्ञा निर्मिता नगरी इत्यर्थः ।
ज्ञातव्यम् -
'देश' इत्यनेन क्षेत्र/ग्राम/नगर/राज्य - एतेषां सर्वेषाम् निर्देशः भवति । अतः नगर्याः नाम्नः निर्देशं कर्तुमपि अस्य सूत्रस्य प्रयोगः अर्ह्यः ।
अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि 4.2.67, तेन निर्वृत्तम् 4.2.68, तस्य निवासः 4.2.69, तथा अदूरभवश्च 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।
अस्मिन् सूत्रे निर्दिष्टेन 'तेन' इत्यनेन शब्देन कर्तुः निर्देशः अपि भवितुमर्हति, साधनस्य च अपि भवितुमर्हति । यथा, 'साहस्रम्' इत्यत्र 'सहस्रजनानाम् साहाय्येन निर्वृत्तम्' इत्यस्मिन् अर्थे प्रत्ययः भवति, तथा च 'कौशाम्बी' इत्यत्र तु 'कुशाम्ब' इति कर्तुः नाम्नः प्रत्ययविधानं क्रियते ।
index: 4.2.68 sutra: तेन निर्वृत्तम्
निर्वृतमित्यन्तर्भावितण्यर्थाद् वृतेः कर्मणि क्तः ॥