तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः

4-3-66 तस्य व्याख्याने इति च व्याख्यातव्यनाम्नः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र भवः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

व्याख्यायतेऽनेनेति व्याख्यानम्, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम। तस्येति षष्ठीसमर्थाद् व्याख्यातव्यनाम्नः प्रातिपदिकाद् व्याख्यानेऽभिधेये यथाविहितं प्रत्ययो भवति, तत्र भवे च। वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति <<तत्र भवः>> ४.३.५३ इति। सुपां व्याख्यानः सौपो ग्रन्थः। तैङः। कार्तः। सुप्सु भवं सौपम्। तैङम्। कार्तम्। व्याख्यातव्यनाम्न इति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोसला, पाटलिपुत्रं सुकोसलया व्याख्यायते, एवंसंनिवेशं पाटलिपुत्रमिति, न तु पाटलिपुत्रं व्याख्यातव्यनाम। भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः। कृतनिर्देशौ हि तौ ॥

Siddhanta Kaumudi

Up

सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः>> - तस्य व्याख्यान इति च । व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात्षष्ठन्तात्, भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । चकारः 'तत्र भवः' इत्यस्य समुच्चयार्थः । सौप इति । औत्सर्गिको ।ञण् । तैङ इति । तिङां व्याख्यानो ग्रन्थ इत्यर्थः । कार्त इति । कृता व्याख्यान इत्यर्थः । अणि आदिवृद्धौ रपरत्वम् । भवार्थे उदाहरति — सौपमिति । नच 'तस्येदं' 'तत्र भवः' इत्याभ्यामेव भाष्ये स्पष्टम् ।

Padamanjari

Up

तस्येति षष्ठीसमर्थादिति । ननु चाधिकारार्थोऽयमिति वक्ष्यति, भव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ हि ताविति, तत्किमित्यत्र यथाविहितविधानार्थत्वं व्याख्यायते ? उच्यते - तात्पर्यतोऽपवादविधानायाधिकारस्यानुषङ्गिकेऽणादिविधानार्थत्वे को दोष इति मन्यते, अगतिकगतिर्हि विशेषविवक्षायां सामान्याश्रयः प्रत्ययः । अत एव'कृतलब्धक्रीतकुशलाः' इत्यादीन्यनपवादान्यर्थादेशनानि भवन्ति । तत्र भवेचेति । अयमनुवादः; एतस्मिन्नेव विशेषे'तत्र भवः' इति विहितत्वात् । ननु च व्याख्यानस्य प्रत्ययार्थस्य समीपे श्रूयमाणश्चशब्दस्तत्समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति, न समर्थविभक्तेः; यथा'केदाराद्यञ्च' इति प्रत्ययसमीपवर्तिना प्रत्यय एव समुच्चीयते, न प्रकृतिः;'ठञ्कवचिनश्च' इति प्रकृतेरेव न प्रत्ययः; ततश्चेह तस्येत्युपादानाद्भवार्थेऽपि षष्ठीसमर्थादेव प्रत्ययो युक्तः, तत्राह - वाक्यार्थसमीपे इति । इहेतिकरणः क्रियते - प्रकृतं वाक्यार्थं प्रत्यवमर्शामीति । प्रत्यवमर्शस्य च प्रयोजनम् - नतुल्यजातीयस्यैव समुच्चयो यथा स्यादित्येतदेवेति भावः । एतमेव च न्यायं निरूपयितुं पूर्वम्'तत्र भवे च' इत्यनुवादः कृतः । व्याख्यातव्यनाग्न इति किमिति । व्याक्यानशब्दस्य सम्बन्धिशब्दत्वाद्यप्रतिव्याख्यानं तदेव तस्येत्यनेन निर्दिष्टमिति गम्यत इति मत्वा प्रश्नः । पाटलिपुत्रं सुकोशलया व्याख्यायत इति नेयं कर्तरि तृतीया, किं तर्हि ? करणे सुकोशलया करणभूतया पुरुषैर्व्याख्यायत इत्यर्थः । कथमित्याह - एवंसन्निवेशमिति । तादृशो हि पाटलिपुत्रे प्राकारादिसन्निवेशो यादृशः सुकोशलायाम्, तेन तया तद्व्याख्यायते । यद्येवम्, तस्य व्याख्यातव्यस्य पाटलिपुत्रशब्दो नामापि भवति, तत्कथं प्रत्युदाहरणम् ? अत आह - न त्विति । यदिह व्याख्यातव्यमभिप्रेतम्, न तस्य नाम भवतीत्यर्थः । किं पुनरिहाभिप्रेतम् ? यद्व्याख्यातव्यतया लोके प्रसिद्धं ग्रन्थात्मकम्, एतदर्थमेव हि व्याख्यातव्यनामग्रहणं कृतम्, व्याख्यातव्यमात्रस्य व्याख्यानशब्दस्य सम्बन्धिशब्दत्वेनैवाक्षेपसिद्धेः । ननु च भवार्थमेतत्स्यात्, न हि तत्राक्षेपतो व्याख्यातव्यस्य लाभः ? एवं तर्हि नामग्रहणं प्रसिद्ध्युपसंग्रहार्थं भविष्यति । भवव्याख्यानयोरिति । नात्रायमर्थः - योऽयं भवव्याख्यानयोर्युगपदधिकारः सोऽपवादविधानार्थ इति; पूर्वमधिकारत्वस्याव्याख्यातत्वात् । तस्माद्भवव्याख्यानयोर्युगपदधिकारोऽयं न त्वणादीनामर्थनिर्देश इत्यर्थः । किमर्थोऽधिकारस्तत्राह - अपवादविधानार्थ इति । अणादीनां चायमर्थनिर्देशः कस्मान्न भवति ? तत्राह - कृतनिर्देशौ हि ताविति । एकः'तत्र भवः' इति, अपरः'तस्येदम्' - इत्येवं कृतनिर्देशौ हि तावर्थौ । तस्मातदर्थमेतन्न भवति । पूर्वं त्वधिकारार्थतयावश्यकर्तव्यस्यानुषङ्गिकमर्थनिर्देशार्थमिदमिति व्याख्यातम् ॥