दृष्टं साम

4-2-7 दृष्टं साम प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन

Sampurna sutra

Up

'तेन दृष्टं साम' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः

Neelesh Sanskrit Brief

Up

येन साम दृष्टम् तस्मात् तृतीयासमर्थात् 'साम' निर्देशयितुमण् प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate the name of a साम using its visionary, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ name of the visionary.

Kashika

Up

तेनेति तृतीयासमर्थाद् दृष्टम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् दृष्टं साम चेत् तद् भवति। क्रुञ्चेन दृष्टं क्रौञ्चं साम। वासिष्ठ्म। वैश्वामित्रम्॥

Siddhanta Kaumudi

Up

तेनेत्येव । वसिष्ठेन दृष्टं साम ।<!अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः !> (वार्तिकम्) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥

Laghu Siddhanta Kaumudi

Up

तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥

Neelesh Sanskrit Detailed

Up

'साम' इति सामन्-शब्दस्य प्रथमैकवचनम् । 'वैदिकः मन्त्रः / पवित्रः श्लोकः' इति तस्य अर्थः । एतादृशस्य मन्त्रस्य निर्देशः तस्य द्रष्टारम् (= प्राप्तारम् / चिन्तितारम्) निर्दिश्य कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा - 1. वसिष्ठेन दृष्टं साम = वसिष्ठ + अण् → वासिष्ठम् । 2. विश्वामित्रेण दृष्टं साम = विश्वामित्र + अण् → वैश्वामित्रम् । 3. क्रुञ्चेन दृष्टं साम = क्रुञ्च + अण् → क्रौञ्च । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अस्मिन् अर्थे अण् डित् वा वक्तव्यः!> । इत्युक्ते, अण्-प्रत्ययः 'दृष्टं साम' अस्मिन् अर्थे विकल्पेन डित्वत् भवति । डित्वात् <<टेः>> 6.4.143 इत्यनेन टिलोपः विधीयते । यथा - उशनसा दृष्टं साम = उशनस + अण् → औशनस + अण् [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औशन् + अण् [अण्-प्रत्ययस्य डित्त्वात् <<टेः>> 6.4.143 इत्यनेन टिलोपः] → औशन । इदं डित्वम् वैकल्पिकमस्ति, अतः पक्षे <<यस्येति च>> 6.4.148 इति अकारलोपं कृत्वा 'औशनस' इत्यपि रूपं सिद्ध्यति । ज्ञातव्यम् - 1. कलि-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन <<कलेर्ढक्>> 4.2.8 इत्यनेन ढक्-प्रत्ययः भवति । कलिना दृष्टं साम = कालेयम् । 2. वामदेव-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन <<वामदेवात् ड्यत्-ड्यौ>> 4.2.9 इत्यनेन ड्यत् / ड्य प्रत्ययौ भवतः । वामेदेवेन दृष्टं साम - वामदेव्य ।

Balamanorama

Up

<<दृष्टं साम (कलेर्ढक्)>> - कलेर्ढक् । वार्त्तिकमिदम् ।

Padamanjari

Up

यस्य साम्नो विशिष्टकार्यविषये विनियोगो येन ज्ञातस्तेन दृष्टमित्युच्यते ॥