4-2-7 दृष्टं साम प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन
index: 4.2.7 sutra: दृष्टं साम
'तेन दृष्टं साम' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः
index: 4.2.7 sutra: दृष्टं साम
येन साम दृष्टम् तस्मात् तृतीयासमर्थात् 'साम' निर्देशयितुमण् प्रत्ययः भवति ।
index: 4.2.7 sutra: दृष्टं साम
To indicate the name of a साम using its visionary, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ name of the visionary.
index: 4.2.7 sutra: दृष्टं साम
तेन इति तृतीयासमर्थाद् दृष्टं साम इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् दृष्टं साम चेत् तद् भवति। क्रुञ्चेन दृष्टं कौञ्चं साम। वासिष्ठम्। वैश्वामित्रम्।
index: 4.2.7 sutra: दृष्टं साम
तेनेत्येव । वसिष्ठेन दृष्टं साम ।<!अस्मिन्नर्थेऽण् डिद्वा वक्तव्यः !> (वार्तिकम्) ॥ उशनसा दृष्टमौशनम् ॥ औशनसम् ॥
index: 4.2.7 sutra: दृष्टं साम
तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥
index: 4.2.7 sutra: दृष्टं साम
'साम' इति सामन्-शब्दस्य प्रथमैकवचनम् । 'वैदिकः मन्त्रः / पवित्रः श्लोकः' इति तस्य अर्थः । एतादृशस्य मन्त्रस्य निर्देशः तस्य द्रष्टारम् (= प्राप्तारम् / चिन्तितारम्) निर्दिश्य कर्तुमस्य सूत्रस्य प्रयोगः भवति । यथा -
वसिष्ठेन दृष्टं साम = वसिष्ठ + अण् → वासिष्ठम् ।
विश्वामित्रेण दृष्टं साम = विश्वामित्र + अण् → वैश्वामित्रम् ।
क्रुञ्चेन दृष्टं साम = क्रुञ्च + अण् → क्रौञ्च ।
अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!अस्मिन् अर्थे अण् डित् वा वक्तव्यः!> । इत्युक्ते, अण्-प्रत्ययः 'दृष्टं साम' अस्मिन् अर्थे विकल्पेन डित्वत् भवति । डित्वात् टेः 6.4.143 इत्यनेन टिलोपः विधीयते ।
यथा - उशनसा दृष्टं साम
= उशनस + अण्
→ औशनस + अण् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ औशन् + अण् [अण्-प्रत्ययस्य डित्त्वात् टेः 6.4.143 इत्यनेन टिलोपः]
→ औशन ।
इदं डित्वम् वैकल्पिकमस्ति, अतः पक्षे यस्येति च 6.4.148 इति अकारलोपं कृत्वा 'औशनस' इत्यपि रूपं सिद्ध्यति ।
ज्ञातव्यम् -
कलि-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन कलेर्ढक् 4.2.8 इत्यनेन ढक्-प्रत्ययः भवति । कलिना दृष्टं साम = कालेयम् ।
वामदेव-शब्दात् अण्-प्रत्ययस्य अपवादत्वेन वामदेवात् ड्यत्-ड्यौ 4.2.9 इत्यनेन ड्यत् / ड्य प्रत्ययौ भवतः । वामेदेवेन दृष्टं साम - वामदेव्य ।
index: 4.2.7 sutra: दृष्टं साम
दृष्टं साम (कलेर्ढक्) - कलेर्ढक् । वार्त्तिकमिदम् ।
index: 4.2.7 sutra: दृष्टं साम
यस्य साम्नो विशिष्टकार्यविषये विनियोगो येन ज्ञातस्तेन दृष्टमित्युच्यते ॥