प्रभवति

4-3-83 प्रभवति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः

Kashika

Up

index: 4.3.83 sutra: प्रभवति


ततः इत्येव। पञ्चमीसमर्थात् ङ्याप्प्रातिपदिकात् प्रभवति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रभवति प्रकाशते, प्रथमत उपलभ्यते इत्यर्थः। हिमवतः प्रभवति गैमवती गङ्गा। दारदी सिन्धुः।

Siddhanta Kaumudi

Up

index: 4.3.83 sutra: प्रभवति


तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.83 sutra: प्रभवति


हिमवतः प्रभवति हैमवती गङ्गा॥

Balamanorama

Up

index: 4.3.83 sutra: प्रभवति


प्रभवति - अभिनिष्क्रामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः ।

Padamanjari

Up

index: 4.3.83 sutra: प्रभवति


प्राकाशते इति । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते;'तत्र जातः' इत्यनेन गतत्वात्॥