4-3-83 प्रभवति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः
तत इत्येव। पञ्चमीसमर्थाद् ङ्याप्प्रातिपदिकात् प्रभवतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रभवति प्रकाशते, प्रथमत उपलभ्यत इत्यर्थः। हिमवतः प्रभवति हैमवती गङ्गा। दारदी सिन्धुः॥
तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा ॥
हिमवतः प्रभवति हैमवती गङ्गा॥
<<प्रभवति>> - अभिनिष्क्रामति द्वारम् । कान्येति । कान्यकुब्जाख्यजनपदस्य द्वारमित्यर्थः ।
प्राकाशते इति । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते;'तत्र जातः' इत्यनेन गतत्वात्॥