4-2-67 तत् अस्मिन् अस्ति इति देशे तन्नाम्नि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
'तद् अस्मिन् देशे अस्तीति तन्नाम्नि' (इति) समर्थानाम् प्रथमात् परः तद्धितः प्रत्ययः अण् वा
प्रथमासमर्थात् 'तत् अस्मिन् देशे अस्ति' इत्यर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।
To indicate the name of a country by referring to the entities present in that country, an appropriate तद्धित प्रत्यय gets attached to the word in प्रथमाविभक्ति representing the name of that entity.
तदिति प्रथमासमर्थविभक्तिः। अस्मिन्निति प्रत्ययार्थः। अस्तीति प्रकृत्यर्थविशेषणम्। इतिकरणो विवक्षार्थः। देशे तन्नाम्नीति प्रत्ययार्थविशेषणम्। तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति, यदस्मिन्निति निर्दिष्टं देशश्चेत् स तन्नामा भवति, प्रत्ययान्तनामा। इतिकरणस्ततश्चेद् विवक्षा। उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरः। बाल्बजः। पार्वतः। मत्वर्थीयापवादो योगः॥
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरः ॥
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः ॥
प्रथमावाचिनः शब्दात् 'तत् यस्मिन् देशे अस्ति सः देशः' अनेन प्रकारेण देशस्य अभिधानम् करणीयम् अस्ति चेत् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - 1. उदुम्बराः सन्ति अस्मिन् देशे सः = उदुम्बर + अण् → औदुम्बरः देशः । 2. पलाशाः सन्ति अस्मिन् देशे सः = पलाश + अण् → पालाशः देशः । 3. पर्वताः सन्ति अस्मिन् देशे सः = पर्वत + अण् → पार्वतः देशः । 4. अरडवः अस्मिन् देशे सन्ति सः = अरडु + अञ् → आरडवः देशः । (अत्र <<ओरञ्>> 4.2.71 इत्यनेन अञ्-प्रत्ययः भवति ।) 5. सिकताः सन्ति अस्मिन् देशे सः = सिकता + अञ् → सैकतः देशः (अत्र <<सङ्कलादिभ्यश्च>> 4.2.75 इत्यनेन अञ्-प्रत्ययः भवति ।) स्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67, <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।
<<तेन निर्वृत्तम्>> - तेन निर्वृत्तं । देशे तन्नाम्नीत्यनुवर्तते । तेन निर्वृत्तमित्यर्थे तृतीयान्तादणादयः स्युस्तन्नाम्नि देशे इत्यर्थः ।
इतिकरणस्ततश्चेद्विवक्षेति । ननु तन्नामग्रहणादेवातिप्रसङ्गो न भविष्यति ? तन्न; द्विविधं नाम - कदाचित्केनचित्सङ्केतितम्, नित्यं व्यवहारानुपाति । तत्र द्वितीयस्य परिग्रहार्थमितिकरणः क्रियते, भूमादिविशेषपरिग्रहार्थं च ।'तन्नाम्नि' इत्येततु नामधेयताविरोधिनो बलीयसोऽपि प्रत्ययान् बाधितुम् , अन्यथा नाप्राप्ते मतुप्यारम्भातस्यायं बाधकः । तदपवादैस्त्विनिठनादिभिः सह सम्प्रधारणायामपवादविप्रतिषेधादिनिठनादय एव स्युः ॥