सोऽस्यादिरिति च्छन्दसः प्रगाथेषु

4-2-55 सः अस्य आदिः इति छन्दसः प्रगाथेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

'सः अस्य आदिः इति च्छन्दसः प्रगाथेषु' (इति) समर्थानां प्रथमात् परः तद्धितः प्रत्ययः अण् वा

Neelesh Sanskrit Brief

Up

प्रथमासमर्थ-छन्दवाचिभ्यः प्रातिपदिकेभ्यः 'प्रगाथस्य आदिः' अस्मिन् अर्थे यथाविहितः प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate a प्रगाथ using the छन्द of the first stanza of that प्रगाथ, an appropriate तद्धितप्रत्यय can be attached to the प्रथमासमर्थ representing the name of the छन्द.

Kashika

Up

स इति समर्थविभक्तिः। अस्येति प्रत्ययार्थः। आदिरिति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। छन्दस इति प्रकृतिनिर्देशः। प्रगाथेष्विति प्रत्ययार्थविशेषणम्। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं छन्दश्चेत् तदादिर्भवति, यत् तदस्येति निर्दिष्टं प्रगाथाश्चेत् ते भवन्ति। इतिकरणस्ततश्चेद् विवक्षा। पङ्क्तिरादिरस्य पाङ्क्तः प्रगाथः। आनुष्टुभः। जागतः। आदिरिति किम्? अनुष्टुब् मध्यम् अस्य प्रगाथस्य। छन्दस इति किम्? उदुत्यशब्द आदिरस्य प्रगाथस्य। प्रगाथेष्विति किम्? पङ्क्तिरादिरस्यानुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथ इत्युच्यते॥ छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्॥ त्रिष्टुबेव त्रैष्टुभम्। जागतम्॥

Siddhanta Kaumudi

Up

अण् । पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः ।<!स्वार्थ उपसंख्यानम् !> (वार्तिकम्) ॥ त्रिष्टुबेव त्रैष्टुभम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

किम् नाम प्रगाथः ? काशिकाकारः वदति - 'यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथः इत्युच्यते' । इत्युक्ते, श्लोकानाम् काचन विशिष्टा गानपद्धतिः, यस्याम् द्वयोः पङ्क्त्योः सन्धानेन / संयोजनेन तिस्रः पङ्क्त्यः जायन्ते, सा 'प्रगाथः' नाम्ना प्रसिद्धा अस्ति । एतादृशस्य प्रगाथस्य या प्रथमा ऋक् तस्याः यत् गानवृत्तम्, तस्य साहाय्येन यदि प्रगाथस्य निर्देशः करणीयः अस्ति, तर्हि अस्य सूत्रस्य प्रयोगः भवति । यथा - 1. यदि कस्यचन प्रगाथस्य प्रथमा ऋक् 'जगती' नाम्नी छन्दे गीयते, तर्हि तस्य प्रगाथस्य वर्णनम् (जगती + अञ् →) 'जागतः प्रगाथः' अनेन प्रकारेण भवति । जगतीछन्दस्का ऋक् अस्य प्रगाथस्य आदिः सः प्रगाथः जागतः प्रगाथः । 2. यदि कस्यचन प्रगाथस्य प्रथमा ऋक् 'पङ्क्ति' नाम्नी छन्दे गीयते, तर्हि तस्य प्रगाथस्य वर्णनम् (पङ्क्ति + अञ् →) 'पाङ्क्तः प्रगाथः' अनेन प्रकारेण भवति । पङ्क्तिच्छन्दस्का ऋक् अस्य प्रगाथस्य आदिः सः प्रगाथः पाङ्क्तः प्रगाथः । ज्ञातव्यम् - पङ्क्ति, जगती, अनुष्टुप्, त्रिष्टुप् एते शब्दाः <<उत्सादिभ्योऽञ्>> 4.1.86 इत्यत्र उत्सादिगणे समाविश्यन्ते । अतः एतेषां विषये <<सोऽस्यादिरिति च्छन्दसः प्रगाथेषु>> 4.2.55 अस्मिन् अर्थे अञ्-प्रत्ययः एव कर्तव्यः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!छन्दसः प्रत्ययविधाने नपुंसके स्वार्थे उपसङ्ख्यानम्!> । इत्युक्ते, छन्दोवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थे अपि (प्रगाथस्य सन्दर्भं विना अपि) अण्-प्रत्ययः भवति । यथा = जगती छन्दः = (जगती + अण् →) जागतम् छन्दः । त्रिष्टुब् छन्दः = (त्रिष्टुभ् + अण् →) त्रैष्टुभम् छन्दः ।

Balamanorama

Up

<<सोऽस्यादिरिति च्छन्दसः प्रगाथेषु>> - सोऽस्यादिः । ऋग्द्वयमाम्नातं पादावृत्त्या ऋक्त्रयं संपद्यते । स च 'संप्रगाथ' इति छन्दोगसूत्रे बह्वचसूत्रे च प्रसिद्धम् । षष्ठएकवचनस्थाने सप्तमीबहुवचनमार्षम् । सोऽस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्ताच्छन्दोविशेषवाचकदणादिप्रत्ययाः स्युरित्यर्थः । अक्षरेयत्ताविशेषो गायत्र्यादिश्छन्दः । पङ्क्तिरादिरिति । पङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रघाथस्य स पाङ्क्तः प्रगाथ इत्युच्यते इत्यर्थः । स्वार्थ इति । छन्दोवाचिभ्यः स्वार्थेऽणादिप्रत्ययस्योपसह्ख्यानमित्यर्थः । त्रैष्टुभमिति । क्लीबत्वं लोकात् ।

Padamanjari

Up

च्छन्दस इति न स्वरूपग्रहणम्, नापि मन्त्रब्राह्मणयोः, कस्य तर्हि ? अक्षराणामियतावचनश्च्छन्दः शब्दोऽस्ति, यस्य जगत्यादयो विशेषास्तस्य ग्रहणम् ; प्रागाथानामादौ तस्यैव सम्भवात्, तेन पङ्क्त्यादिशब्देभ्यः प्रत्ययः । यत्र द्वे ऋचौ तिस्रः क्रियन्त इति चतुर्थषष्ठौ पादौ बार्हतो प्रगाये पुनरभ्यसित्वोतरयोरवस्येदित्येवमादिना प्रकारेण । तद्यथा - यज्ञायज्ञा वः प्रियं मित्रं न शंसिषाआ प्रियं मित्रं न शंसिषमूजे निपातमिति । तत्र योऽयमुच्चारणप्रकारस्तद्ग्रथनम् । प्रग्रथनादिति । प्रगाथशब्दप्रवृत्तिनिमितं दर्शयति, प्रग्रथ्यत इति प्रगाथः, ठकर्तरि च कारकेऽ इति कर्मणि घञ्, पृषोदरादित्वाद्रेफनकारयोर्लोपः । प्रागाणाद्वेति ।'कृत्यचः' इति णत्वम्,'कौ गौ शब्दे' , प्रगीयत इति प्रगाथः, ठुषिकुषिगर्तिभ्यस्थन्ऽ । त्रैष्टुअभमिति । कुटीर इति स्वार्थिकस्यापि रप्रत्ययस्य यथा भिन्नलिङ्गता, तथेहापि नपुंसकत्वं द्रष्टव्यम् ॥