4-1-84 अश्वपत्यादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
अश्वपत्यादिभ्यः च प्राग्दीव्यतः अण् तद्धितः प्रत्ययः समर्थानाम् प्रथमात् परः वा
अश्वपत्यादिगणस्य शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु अण्-प्रत्ययः एव विधीयते, नान्यत् ।
The words of the अश्वपत्यादि गण get the अण् प्रत्यय in the प्राग्दीव्यतीय meaning.
अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेष्वण् प्रत्ययो भवति। पत्युत्तरपदाद् ण्यं वक्ष्यति, तस्यापवादः। आश्वपतम्। शातपतम्॥ अश्वपति। शतपति। धनपति। गणपति। राष्ट्रपति। कुलपति। गृहपति। धान्यपति। पशुपति। धर्मपति। सभापति। प्राणपति। क्षेत्रपति॥
एभ्योण् स्यात् प्राग्दीव्यतीयेष्वर्थेषु । वक्ष्यमाणस्य ण्यस्याऽपवादः ॥
एभ्योऽण् स्यात्प्राग्दीव्यतीयेष्वर्थेषु। अश्वपतेरपत्यादि आश्वपतम्। गाणपतम्॥
<<प्राग्दीव्यतोऽण्>> 4.1.83 अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु यस्य शब्दस्य अन्ते 'पति' इति आगच्छति, तस्मात् शब्दात् <<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> 4.1.85 इत्यनेन अण्-प्रत्ययस्य अपवादरूपेण ण्य-प्रत्ययः भवति । यथा, प्रजापतेः अपत्यम् पुमान् = प्राजापत्य । परन्तु, ये शब्दाः अश्वपत्यादिगणे निर्दिष्टाः सन्ति, तेषां विषये ण्य-प्रत्ययस्यापि अपवादत्वेन पुनः अण्-प्रत्ययस्यैव विधानं भवति । यथा - अश्वपतेः अपत्यं पुमान् = अश्वपति + अण् = आश्वपत । अश्वपत्यादिगणस्य आवली इयम् - अश्वपति। ज्ञानपति । शतपति। धनपति। गणपति। स्थानपति । यज्ञपति । राष्ट्रपति। कुलपति। गृहपति। पशुपति । धान्यपति। धन्वपति । बन्धुपति । धर्मपति। सभापति। प्राणपति। क्षेत्रपति। उदाहरणानि - अश्वपतीनाम् समूहः = अश्वपति + अण् → आश्वपत । गणपतेः निवासः = गणपति + अण् → गाणपत । क्षेत्रपतेः अपत्यम् = क्षेत्रपति + अण् → क्षैत्रपत । कुलपतेः इदम् = कुलपति + अण् = कौलपत । प्रक्रिया - अश्वपतीनाम् + अण् → अश्वपति + आम् + अण् [अलौकिकविग्रहः] → अश्वपति + अण् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति आम्-प्रत्ययस्य लुक्] → आश्वपति + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आश्वपत् + अ [<<यस्येति च>> 6.4.148 इति इकारस्य लोपः] → आश्वपत
<<अश्वपत्यादिभ्यश्च>> - अआपत्यादिभ्यश्च । चकारात्प्राग्दीव्यतोऽ॑णित्यनुकृष्यते । तदाह — एभ्योऽण् स्यादिति । दीव्यतः प्राक् — प्राग्दीव्यत् ।अपपरिबहिरञ्चवः पञ्चम्या॑ इत्यव्ययीभावः । 'झयः' इति टच् तु न, तस्य पाक्षिकत्वात् । प्राग्दीव्यति भवाः-प्राग्दीव्यतीयाः ।वृद्धाच्छः॑ ।अव्ययात्त्यबि॑ति तु न, अव्ययीभावस्याव्ययत्वेलुहृउखस्वरोपचाराः प्रयोजन॑मिति परिगणनात् । अत एवअव्ययानां भमात्रे टिलोपः॑ इत्यपि न भवति । ननुप्राग्दीव्यतोऽ॑णित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह — वक्ष्यमाणस्येति ।दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः॑ इति वक्ष्यमाणस्य पत्युत्तरपदत्वप्रयुक्तण्यप्रत्ययस्य बाधनार्थमित्यर्थः ।
प्राग्दीव्यतीयेष्विति । ठपपरिबरिरञ्चवः पञ्चम्याऽ इत्यव्ययीभावाद्भवार्थे'वृद्धाच्छः' । ठव्ययानां भमात्रेऽ इति टिलोपो न भवति;'लुङ्मुखस्वरोपचाराः' इति परिगणनात् । अत एवाव्ययातयबपि न भवति, ठमेहक्वतसित्रेभ्यःऽ इति परिगणनाद्वा । गणपतिशब्दस्यात्र पाठाद्गाणपत्यो मन्त्र इत्यपशब्दः । एतेन क्षैत्रपत्यं व्याक्यातम् ।'क्षैत्रपत्यं चरु निर्वपेत्' इति तु छान्दसम् । क्षैत्रपत्यं प्राश्नन्तीति, छन्दोवदृषयः कुर्वन्ति ॥