तदस्य सोढम्

4-3-52 तदस्य सोढम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कालादित्येव। तदिति प्रथमासमर्थात् कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं सोढं चेत् तद् भवति। सोढं जितमभ्यस्तमित्यर्थः। निशासहचरितमध्ययनं निशा, तत् सोढमस्य छात्रस्य नैशः, नैशिकः। प्रादोषः, प्रादोषिकः॥

Siddhanta Kaumudi

Up

कालादित्येव । निशासहचरितमध्ययनं निशा तत्सोढमस्य नैशः । नैशिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तदस्य सोढम्>> - तदस्य सोढम् । अस्मिन्नर्थे प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युः । सोढमित्यस्य अभ्यस्तमित्यर्थः । नैशिकः नैश इति ।निशाप्रदोषाभ्यां चे॑त्यण्ठञौ ।

Padamanjari

Up

अस्येति । नेयं सोढापेक्षया कर्त्रि षष्ठी,'न लोकाव्यय' इति प्रतिषेधात्, किं तर्हि ? कर्तुरेव सम्बन्धित्वमात्रविवक्षया शेषलक्षणा षष्ठी । निशासहचरितमध्ययनमिति । कालस्य स्वरूपेणासोढत्वातत्सहचरितवृतेरत्र सूत्रे ग्रहणमिति दर्शयति ॥