4-3-43 कालात् साधुपुष्प्यत्पच्यमानेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र सम्भूते
तत्रेत्येव। कालविशेषवाचिभ्यः सप्तमीसमर्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। हेमन्ते साधुर्हैमनः प्राकारः। शैशिरमनुलेपनम्। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। गै्रष्म्यः पाटलाः। शरदि पच्यन्ते शारदाः शालयः। गै्रष्मा यवाः॥
हेमन्ते साधुर्हैमन्तः प्राकारः । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः ॥
<<कालात् साधुपुष्प्यत्पच्यमानेषु>> - उप्ते च । तत्रेत्येव । कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः । उप्यन्त इति ।डु वप् बीजसन्ताने॑ । भूतकालस्त्वविवक्षित इति भावः ।
कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; उतरत्राश्वयुज्यादीनामनेन कालशब्देन विशेषणात् ॥