तद्गच्छति पथिदूतयोः

4-3-85 तद् गच्छति पथिदूतयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.3.85 sutra: तद्गच्छति पथिदूतयोः


तदिति द्वितीयासमर्थाद् गच्छति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत् स भवति दूतो वा। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा। माथुरः। तत्स्थेषु गच्छत्सु पन्था गच्छति इत्युच्यते। अथ वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोः इति किम्? स्रुघ्नं गच्छति सार्थः।

Siddhanta Kaumudi

Up

index: 4.3.85 sutra: तद्गच्छति पथिदूतयोः


स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥

Laghu Siddhanta Kaumudi

Up

index: 4.3.85 sutra: तद्गच्छति पथिदूतयोः


स्रुग्घ्नं गच्छति स्रौग्ध्नं पन्था दूतो वा॥

Balamanorama

Up

index: 4.3.85 sutra: तद्गच्छति पथिदूतयोः


तद्गच्छति पथिदूतयोः - तद्गच्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्था दूतो वा इत्यर्थः ।

Padamanjari

Up

index: 4.3.85 sutra: तद्गच्छति पथिदूतयोः


प्राप्तिफले परिस्पन्दे गमिर्वर्तते, न च पथः परिस्पन्दोऽस्ति तस्मात्पुरुषवर्ति गमनं पथ्युपचर्यत इत्याह - तत्स्थेष्विति । अथवेति । प्राप्तावपि गमिर्वर्वते, यथा देवभूयङ्गत इति ॥