तद्गच्छति पथिदूतयोः

4-3-85 तद् गच्छति पथिदूतयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तदिति द्वितीयासमर्थाद् गच्छतीत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत् स भवति दूतो वा। स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा। माथुरः। तत्स्थेषु गच्छत्सु पन्था गच्छतीत्युच्यते। अथ वा स्रुघ्नप्राप्तिः पथो गमनम्। पथिदूतयोरिति किम्? स्रुघ्नं गच्छति सार्थः॥

Siddhanta Kaumudi

Up

स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ॥

Laghu Siddhanta Kaumudi

Up

स्रुग्घ्नं गच्छति स्रौग्ध्नं पन्था दूतो वा॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तद्गच्छति पथिदूतयोः>> - तद्गच्छति पथिदूतयोः । गच्छतीत्यर्थे द्वितीयान्तात्प्रत्ययाः स्युः, स चेद्गन्ता पन्था दूतो वा इत्यर्थः ।

Padamanjari

Up

प्राप्तिफले परिस्पन्दे गमिर्वर्तते, न च पथः परिस्पन्दोऽस्ति तस्मात्पुरुषवर्ति गमनं पथ्युपचर्यत इत्याह - तत्स्थेष्विति । अथवेति । प्राप्तावपि गमिर्वर्वते, यथा देवभूयङ्गत इति ॥