4-3-101 तेन प्रोक्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
तेनेति तृतीयासमर्थात् प्रोक्तमित्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। प्रकर्षेणोक्तं प्रोक्तमित्युच्यते, न तु कृतम्, <<कृते ग्रन्थे>> ४.३.११६ इत्यनेन गतार्थत्वात्। अन्येन कृता, माथुरेण प्रोक्ता माथुरी वृत्तिः। पाणिनीयम्। आपिशलम्। काशकृत्स्नम्॥
पाणिनिना प्रोक्तं पाणिनीयम् ॥
पाणिनिना प्रोक्तं पाणिनीयम्॥
<<तेन प्रोक्तम्>> - तेन प्रोक्तम् । अस्मिन्नर्थे तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पाणिनीयमिति ।व्याकरण॑मिति शेषः । वृद्धाच्छः । प्रथमं प्रकाशितं — प्रोक्तम् । नेह — ॒देवदत्तेनाद्यापितम् ।
प्रकर्षेणोक्तमिति । अध्यापनेनार्थव्याख्यानेन वा प्रकर्षेणाप्रकाशितमित्यर्थः । प्रकर्षेणेति वचनाद् ग्रामे ग्रामे यद्यपि काठकादिकं देवदतादिभिः प्रोच्यते, तथापि तेभ्यः प्रत्ययो न भवति । न तु कृतमिति । प्रपूर्वो वचिः करणेऽपि वर्तते इति भावः । मधुरायां भवो माधुरः, ततो वृद्धाच्छे प्राप्ते'कलापिनो' ण्ऽ इत्यण्ग्रहणादधिकविधानार्थादण्प्रत्ययः । पाणिनीयमिति । स्वयमन्येन वा कृतं यत्पाणिनिना प्रोक्तं तदुच्यते ॥