4-2-3 नक्षत्रेण युक्तः कालः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन
'तेन नक्षत्रेण युक्तः कालः' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः
नक्षत्रवाचिनः तृतीयासमर्थात् 'युक्तः कालः' अस्मिन् अर्थे अण् तद्धितप्रत्ययः विधीयते ।
To indicate the meaning of 'time occupied by a certain नक्षत्र', an appropriateतद्धित प्रत्यय can be attached to the word in तृतीया विभक्ति that indicates name of the नक्षत्र.
तृतीया समर्थविभक्तिरनुवर्तते। तेनेति तृतीयासमर्थाद् नक्षत्रविशेषवाचिनः शब्दाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ युक्तः, कालश्चेत् स भवति। कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते? पुष्यादिसमीपस्थे चन्द्रमसि वर्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति। पुष्येण युक्तः कालः। पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः। पौषी रात्रिः। पौषमहः। माघी रात्रिः। माघमहः। नक्षत्रेणेति किम्? चन्द्रमसा युक्ता रात्रिः। काल इति किम्? पुष्येण युक्तश्चन्द्रमाः॥
पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥
अण् स्यात्। <<तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्>>। पुष्येण युक्तं पौषमहः॥
यदि कस्यचन नक्षत्रस्य नाम्नः प्रयोगं कृत्वा कालस्य कस्यचन विभागस्य (यथा - प्रातः, दिनम्, सायम्, रात्रिः - एतेषाम्) निर्देशः क्रियते, तर्हि तस्मात् नक्षत्रनाम्नः अनेन सूत्रेण यथाविहितः तद्धितप्रत्ययः भवति । यथा - 1. पुष्येण युक्तं अहः = पुष्य + अण् = पौष । अत्र प्रक्रिया इयम् जायते - पुष्येण + अण् → पुष्य + टा + अण् [अलौकिकविग्रहः] → पुष्य + अण् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति प्रातिपदिके उपस्थितस्य सुप्-प्रत्ययस्य लोपः] → पुष्य + अ [इत्संज्ञालोपः] → पौष्य + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पौष्य् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः ] → पौष् + अ [<!तिष्यपुष्ययोर्नक्षत्राणि यलोपः इति वाच्यम् !> अनेन वार्त्तिकेन 'पुष्य्' इत्यस्य यकारस्य लोपः भवति ।] → पौष 2. मघानक्षत्रेण युक्ता रात्री = मघा + अण् + ङीप् → माघ + ङीप् → माघी । अत्र <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इत्यनेन ङीप्-प्रत्ययः विधीयते । ज्ञातव्यम् - 1. अस्य सूत्रस्य विषये काशिकाकारः वदति - ' पुष्यसमीपस्थेन चन्द्रमसा युक्तः इत्यर्थः' । इत्युक्ते चन्द्रमाः यस्मिन् नक्षत्रे वर्तते, तस्यैव नक्षत्रस्य विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - चन्द्रमाः यस्याम् रात्रौ मघानक्षत्रेण युक्तः अस्ति, सा रात्री 'माघी' । चन्द्रमाः एकस्मिन् नक्षत्रे प्रायः एकदिनं यावत् एव विराजति, अतः अस्मिन् सूत्रे प्रयुक्तः 'कालः' अयं शब्दः 'प्रातः, दिनम्, सायम्, रात्रिः' - एतेषामेव निर्देशं कर्तुमर्हति, पक्ष-मास-संवत्सरादीनाम् न । 2. अस्य सूत्रस्य प्रयोगार्थम् 'नक्षत्रम्', 'युक्त', तथा 'काल' - त्रयाणामपि उपस्थितिः भवेत् । यथा - अ) चन्द्रेण युक्तम् अहः - इत्यत्र 'नक्षत्रेण' इत्यत्र अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति । आ) पुष्येण समाप्तम् अहः - इत्यत्र 'युक्तः' इत्यस्य अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति । इ) पुष्येण युक्तः चन्द्रः - इत्यत्र 'कालः' इत्यत्र अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति ।
<<नक्षत्रेण युक्तः कालः>> - नक्षत्रेण । अस्मिन्नर्थे प्रथमोच्चारितान्नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमा-नक्षत्रशब्देन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः । पौषमहरिति । पुष्यशब्दादणितिष्यपुष्ययोर्नक्षत्राऽणि यलोपः॑ इति यलोपः । पौषी रात्रिरिति । पुष्ययुक्तचन्द्रमसा युक्तेत्यर्थः । अणि यलोपेटिड्ढे॑ति ङीप् । नक्षत्रेणेति किम् । चन्द्रेण युक्ता रात्रिः । कालः किम् । पुष्येणयुक्तश्चन्द्रमाः ।
इह पारमर्षाः कालं क्रियात्मानमिच्छन्ति, यथोक्तम् - आदित्य - ग्रह - नक्षत्र - परिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ इति । वैशेषिकास्तु द्रव्यमाकाशकल्पम्, उक्तं च - व्यापारव्यतिरेकेण कालमेके प्रचक्षते । नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ इति । द्वयोरपि दर्शनयोर्नक्षत्रेण कालस्य योगो न सम्भवति, किं कारणम् ? अप्राप्तिपूर्विका प्राप्तिःउयोगः, कालविशेषावधारणार्थो हि लोके पौषादिशब्दप्रयोगः, एवंविध एव च योगः कालविशेषावधारणहेतुर्भवति । द्रव्यपक्षे तावद् द्वयोरपि नक्षत्रकालयोर्नित्यत्वात्कालस्य च सर्वगतत्वान्न कदाचिदयोगः । क्रियापक्षेऽपि नक्षत्रगतायाः क्रियायाः कालख्यायाः समवायलक्षणो योगोऽव्यभिचारादविशेषणम् । सूर्यादिगतायास्त्वसम्भवादविशेषणम् । यदि तु यथाकथञ्चिद्योगः, तदा व्यभिचाराभावः । न हि सोऽस्त्यहोरात्रो यः पुष्येण न युक्तः । तस्मात्'नक्षत्रेण युक्तः कालः' इत्यनुपपन्नो निर्देशः । कथं तर्हि निर्देशः कर्तव्यः, नक्षत्रादेर्युक्तान्ताद्यौक्ते काले प्रत्ययविधानं युक्तलोपश्च, पुष्येण युक्तश्चन्द्रमां पुष्ययुक्तः, पुष्ययुक्तेन युक्तः काल इति पुष्ययुक्तशब्दाच्चन्द्रमसि वर्तमानात्प्रत्ययः, युक्तशब्दस्य च लोपः, पौषी रात्रिः, पौषमहः, एवं सर्वत्र । तत्र युक्तवद्भावे दोषः, मधायुक्तशब्दात्प्रत्यये क्रियमाणे तस्य लुपि मघा इति स्त्रीत्वबहुत्वे न सिद्ध्यतः, युक्तस्यैव तु चन्द्रमसो लिङ्गवचनप्रसङ्गः, अतो नक्षत्रवाचिन एव प्रत्यययोर्योगः सम्भवतीति मत्वा पृच्छति - कथं पुनरिति । न चन्द्रमसैव योगे पुष्यादीनां नक्षत्रता; ज्योतिर्मात्रवचनत्वान्नक्षत्र शब्दस्य । ये तु पुष्यादीनामावस्थिकी नक्षत्रता चन्द्रमसा योगे भवतीत्याहुः, तेषामयं प्रश्नोऽनुपपन्नः । पुष्यादिसमीपस्थ इति । मुख्यार्थासम्भवे गौणस्याश्रयणमिति भावः । तत्र मघादयः शब्दा अपरित्यक्तस्वलिङ्गसङ्ख्या एव चन्द्रमसि वर्तन्ते, यथा - मञ्चादयः, मञ्चान् स्त्रियः पश्येति । तेन युक्तवद्भावविषयेऽपि दोषाभावः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थ इति । यद्यपि चन्द्रमसा कालस्य योगो नित्यः, चन्द्रमसो नित्यत्वात्; पुष्यसमीपेन तु कादाचित्कः, पुष्यसमीपतायाः कादाचित्कत्वात् । पौषीति'सूर्यतिष्य' इत्यादिना यलोपः ॥