तदधीते तद्वेद

4-2-59 तत् अधीते तत् वेद प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तदिति द्वितीयासमर्थादधीते वेद इत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति। छन्दोऽधीते छान्दसः। वैयाकरणः। नैरुक्तः। निमित्तानि वेद नैमित्तः। मौहूर्तः। औत्पातः। द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थम्॥

Siddhanta Kaumudi

Up

व्याकरणमधीते वेद वा वैयाकरणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तदधीते तद्वेद>> - तदधीते । तदधीते इत्यर्थे, तद्वेत्तीत्यर्थे च द्वितीयान्तादणादयः स्युरित्यर्थः । गुरुमुखादक्षरानुपूर्वीग्रहणमध्ययनम् । शब्दार्थज्ञानं वेदनम् । एतेन अध्ययनविधिरर्थज्ञानपर्यन्त इति कतिपयमीमांसकोक्तिः परास्ता, पृथग्ग्रहणवैयथ्र्यात् । यताचैतत्तथा अध्वरमीमासाकुतूहलवृत्तौ प्रपञ्चितमस्माभिः । वैयाकरण इति । अणिन य्वाभ्यामि॑त्यैजागमः ।ऋतूक्थादि । 'तदधीते तद्वेदे' त्यर्थयोः — क्रतु, उक्थादि,सूत्रान्तः-एभ्यः ठक् स्यादित्यर्थः । क्रतुविशेषवाचिनामेवेति । न तु क्रतुशब्दस्यैवेत्यर्थः । अन्यथा उक्थादिगण एव क्रतुशब्दमपि पठेदिति भावः । ननु क्रतुविशेषाणां कथमद्ययनम्, अक्षरग्रहणात्मकत्वाऽभावादित्यत आहतेभ्य इति । अग्निष्टोमादिशब्दाः क्रतुविशेषेषु मुख्याः । तत्प्रतिपादकग्रन्थेषु तु गौणाः । तत्र क्रतुविशेषात्मकमुख्यार्थकेभ्योऽग्निष्टोमादिशब्देभ्यो वेदितरि प्रत्ययाः । अग्निष्टोमादिक्रतुप्रतिपादकग्रन्थेषु लक्षणया विद्यमानेभ्यस्तु तेभ्योऽध्येतरीत्यर्थः । आग्निष्टोमिक इति । अग्निष्टोमं क्रतुं वेत्ति, तत्प्रतिपादकग्रन्थमधीते इति वाऽर्थः । उक्थशब्दः सामसु मुख्यः । सामलक्षणग्रन्थे प्रातिशाख्ये तु गौणः । तत्र गौणार्थकादेव उक्थशब्दाट्ठगित्याह — उक्थं सामविशेष इति ।अग्निष्टोमस्तोत्रात्परं यत्साम गीयते॑ इति वृत्तिकृदुक्तेरिति भावः । भाष्ये तु सामशब्दपर्याय उक्थशब्द इति लक्ष्यते । मुख्यार्थादिति । सामवाचिन उक्थशब्दात्तु न ठक् । तस्मिन्निषिद्धे तदधीते इत्यण् च न भवतीत्यर्थः । भाष्ये तु मुख्यार्थकादुक्थशब्दाट्ठक् नेत्येव लक्ष्यते । उक्थादिगणपठितान्न्यायादिशब्दाट्ठकमुदाहरति — न्यायमिति ।अधीते वेत्ति वे॑ति शेषः । नैयायिक इति । ठकि ऐजागमः । वृत्तिमिति ।अधीते वेद वे॑ति शेषः । वार्त्तिक इति । ठकि आदिवृद्धौ रपरत्वम् । साङ्ग्रहसूत्रिक इति । संग्रहाख्यं सूत्रमधीते वेत्ति वेत्यर्थः । विद्यालक्षणेति । विद्या, लक्षण, कल्प-एतदन्तादपि उक्तेऽर्थे ठगित्यर्थः । अङ्गेति । अङ्ग, क्षत्र, धर्म, त्रि-एतत्पूर्वकाद्विद्यान्तात्समासाट्ठक् नेत्यर्थः । ततश्च अणेव । त्रिविद्या इति । शाकपार्थिवादित्वाद्विधाशब्दस्य लोप इति भावः । तिरुआओ विद्यास्त्रिविद्या इति न विग्रहः,दिक्सङ्ख्ये संज्ञाया॑मिति नियमात् । नापि तिरुआओ विद्या अधीते वेद वेति तद्धितार्थे द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोर्लुगनपत्ये' इति लुगापत्तेः । तिसृणां विद्यानां समाहर इति द्विगुरप्यत्र निर्बाध एव । आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण-एभ्यश्च उक्तेऽर्थे ठग्वक्तव्य इत्यर्थः । तत्र आख्यानशब्देन आक्यायिकाशब्देन च आख्यानविशेषवाचिन आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहास पुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः ।आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षण॑मित्यमरः ।इतिहासः पुरावृत्त॑मिति च ।सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षमम् । तत्र आख्यानादुदाहरति — यवक्रीतमिति । आख्यायिकाया उदाहरति — वासवदत्तामिति । लुग्वक्तव्य इति ।उक्तप्रत्ययस्ये॑ति शेषः । सर्ववेद इति । अणो लुकि आदिवृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्यधीते वेद वेत्यर्थः । सवार्तिंक इति । वार्तिकेन सह सवार्तिकम् ।तेन सहे॑ति बहुव्रीहि ।वौपसर्जनस्ये॑ति सभावः । सवार्तिकं सूत्रमधीते इत्यर्थः । द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वादणो लुकि आदिवृद्ध्यभावे 'द्वितन्त्र' इति रूपमित्यर्थः । इकन्पदोत्तरपदादिति । पदशब्द उत्तरपदं यस्य स पदोत्तरपदः, तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः षिकन्पथ इति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तस्मादुक्तेर्थे षिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः । शतपथिक इति । शतपथं नाम वाजसनेयिब्राआहृणं । तदधीते वेत्ति वेत्यर्थः । शतपथिकीति । षित्त्वान्ङीषिति भावः । एवं षष्ठिपथिकः । षष्टिपथिकीति ।

Padamanjari

Up

इह योऽयं ग्रन्थमधीते स तं स्वरूपता वेति, यश्च वेति सोऽवश्यमधीते - इत्यन्यतरोपादानेन सिद्धम्, किमर्थमिमावर्थावुपदिश्येते, नैतयोरावश्यकः समावेशः, अध्ययनमु शब्दपाठः, अर्थावबोधः उ वेदनम्, भवति च - कश्चित्संपाठ्ंअ पठति नार्थं वेति, कश्चिच्चार्थं वेति न संपाठ्ंअ पठति । द्विस्तद्ग्रहणमित्यादि ।'तदधीते वेद' इत्युच्यमाने समुच्चयो विज्ञायेत, ततश्च यस्तदधीते वेद च तत्रैव स्यात्, यस्तु केवलमधीते वेद वा न तत्र स्यात्; द्विस्तद्ग्रहणे तु वाक्यभेदेनाधीयानविदुषोः पृथक्प्रत्ययविधानं सिध्यति । ननु च'तदस्य तदस्मिन्स्यात्' इत्यत्र नानार्थनिर्देशे प्रत्येकं समर्थविभक्तिः सम्बन्धनीयेति द्विस्तद्ग्रहणेन न्यायो व्युत्पादयिष्यते, अत एव'तेन दीव्यति' इत्यत्र प्रत्यर्थं प्रत्ययो भवति ? न ब्रूमः - इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति, किं तर्हि ? उतरत्र'क्रतूक्थादिसूत्रान्ताठठक्' ,'वसन्तादिभ्यष्टक्' इत्यत्रापि, किं च कारणं न स्यात् ? क्रतुशब्दः कर्मनामदेयं वसन्तादयोऽप्यर्थाः, न तेषामध्ययनं सम्भवति, तस्य शब्दविषयत्वात्, तत्सहचरिते तु ग्रन्थे सम्भवति, गौणत्वातु न गृह्यते, मुख्य एव त्वर्थे वेदनं सम्भवतीति तेभ्यो विदुष्येव स्याद्, नाध्येतरि । पुनस्तद्ग्रहणातु यत्नाद् गौणस्यापि ग्रहणातत्रापि भवति ॥