तत्र जातः

4-3-25 तत्र जातः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अणादयो घादयश्च प्रत्ययाः प्रकृताः, तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्ते। तत्रेति सप्तमीसमर्थाद् जात इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। स्रुघ्ने जातः स्रौघ्नः। माथुरः। औत्सः। औदपानः। राष्ट्रियः। अवारपारीणः। शाकलिकः। माकलिकः। ग्राम्यः। ग्रामीणः। कात्रेयकः। औम्भेयकः॥

Siddhanta Kaumudi

Up

सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः । स्रुघ्ने जातः स्रौघ्नः । औत्सः । राष्ट्रियः । अवारपारीण इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

सप्तमीसमर्थाज्जात इत्यर्थेऽणादयो घादयश्च स्युः। स्रुग्घ्ने जातः स्रौग्घ्नः। उत्से जात औत्सः। राष्ट्रे जातो राष्ट्रियः। अवारपारे जातः अवारपारीणः, इत्यादि॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तत्र जातः>> - अथ तेषां प्रत्ययानामर्थविशेषान्, प्रकृतीनां च विभक्तिविशेषान् दर्शयितुमुपक्रमते — तत्र जातः सप्तमीसमर्थादिति । सप्तम्यन्तात्कृतसन्धेरित्यर्थः । तत्रेत्यनेन सप्तम्यन्तस्यैव प्रथमानिर्दिष्टत्वादिति भावः । अणादय इति । अपत्यादिविकारान्तार्थसाधारणा इत्यर्थः । घादय इति ।राष्ट्रावारपारे॑त्यादिभिर्विशेषविहिता इत्यर्थः ।

Padamanjari

Up

तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्त इति । तदिदमुभयमनिर्देश्यम्, कथम् ?'शेष इति लक्षणं चाधिकारश्च' इत्युक्तम्, तत्र लक्षणतया चाक्षुषं रूपमित्यादाविव जातादिष्वप्यर्थेष्वणादयः सिद्धाः, अधिकारतया च घादय इत्यर्थास्तावन्न निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देशोऽपि न कर्तव्य एव । नियमार्थमिति चेन्न; अनिष्टत्वात् । तत्रैतत्स्यात् - जातादिष्वेव तद्धिता यथा स्युः, तत्रास्ते तत्र शेत इत्यादौ मा भूवन्निति जातादयोऽर्था अनुक्रम्यन्त इति ? तच्च नैवम्; अनिष्टत्वात् । अन्यत्रापि हि तद्धिता इष्यन्ते - चाक्षुषं रूपम्, श्रावणः शब्दः, चातुर्दशं रक्षः, दार्षदाः सक्तव इति । यत्र तु नेष्यन्ते, तत्रास्त इत्यादौ - तत्रानभिधानान्न भविष्यन्ति, यथा - अङ्गुल्या खनतीत्यादौ । तस्मान्नार्थो जाताद्यनुक्रमणेन । अपवादविधानार्थं तु, प्रावृषष्ठबादीनपवादाÄस्तत्र तत्रासङ्करेण वक्ष्यामीति अवश्यानुक्रमितव्या अर्थाः, तेऽन्यार्थाः सन्तो योगविभागेनाणादीनामप्यर्था निर्दिश्यन्ते । विश्पष्टार्थम्, यानि पुनरनपवादान्यर्थादर्शनानि, यथा -'कृतलभ्धक्रीतकुशलाः' इति, तानि शक्यान्यवक्तुम् ॥