उप्ते च

4-3-44 उप्ते च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात्

Kashika

Up

index: 4.3.44 sutra: उप्ते च


तत्र इत्येव, कालादिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकातुप्तेऽर्थे यथाविहितं प्रत्ययो भवति। हेमन्ते उप्यन्ते हैमन्ता यवाः। ग्रैष्माः व्रीहयः। योगविभाग उत्तरार्थः।

Siddhanta Kaumudi

Up

index: 4.3.44 sutra: उप्ते च


हेमन्ते उप्यन्ते हैमन्ता यवाः ॥

Padamanjari

Up

index: 4.3.44 sutra: उप्ते च


सूत्रे भूतकालस्याविवक्षां दर्सयति । हेमन्ते उप्यन्ते इति । योगविभाग उतरार्थ इति । उतरयोगयोरुक्त एव प्रत्ययो यथा स्यात्, साध्वादिषु मा भूत् ॥