4-3-44 उप्ते च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र कालात्
तत्रेत्येव, कालादिति च। सप्तमीसमर्थात् कालवाचिनः प्रातिपदिकादुप्तेऽर्थे यथा विहितं प्रत्ययो भवति। हेमन्त उप्यन्ते हैमन्ता यवाः। गै्रष्मा व्रीहयः। योगविभाग उत्तरार्थः॥
हेमन्ते उप्यन्ते हैमन्ता यवाः ॥
सूत्रे भूतकालस्याविवक्षां दर्सयति । हेमन्ते उप्यन्ते इति । योगविभाग उतरार्थ इति । उतरयोगयोरुक्त एव प्रत्ययो यथा स्यात्, साध्वादिषु मा भूत् ॥