4-2-70 अदूरभवः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अस्मिन् अस्ति इति देशे तन्नाम्नि तस्य
'तस्य अदूरभवः इति देशः तन्नामा' (इति) समर्थानाम् प्रथमात् परः तद्धितः प्रत्ययः अण् वा
षष्ठीसमर्थात् 'अस्य निकटः देशः' अस्मिन् अर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।
To indicate the name of a country by referring to the another country that is near it, an appropriate तद्धित प्रत्यय gets attached to the word in षष्ठीविभक्ति representing the name of the country that is nearby.
पूर्वा समर्थविभक्तिरनुवर्तते। तस्येति षष्ठीसमर्थाददूरभव इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। विदिशाया अदूरभवं नगरं वैदिशम्। हैमवतम्। चकारः पूर्वेषां त्रयाणामर्थानामिह सन्निधानार्थः। तेनोत्तरेषु चत्वारोऽप्यर्थाः संबध्यन्ते॥
विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्त्रयोऽर्थाः संनिधाप्यन्ते । तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्यति ॥
विदिशाया अदूरभवं नगरं वैदिशम्॥
'अदूरभव' इत्युक्ते 'निकटे अस्ति तत्' । कस्यचन देशस्य निर्देशः 'तस्य निकटे यत्किमपि अस्ति तस्य आधारेण' कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - 1. विदिशायाः अदूरभवम् (= निकटम्) नगरम् = विदिशा + अण् → वैदिशम् नगरम् । 2. हिमवतः अदूरभवम् नगरम् = हिमवत् + अण् → हैमवतम् नगरम् । स्मर्तव्यम् - अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67, <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु 'देशे तन्नाम्नि' इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते ।
<<ओरञ्>> - ओरञ् ।तदस्मिन्नस्ती॑त्यादिषु चतुष्र्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्तादञ्स्यात् । अणोऽपवादः । अञधिकारःसुवास्त्वादिभ्योऽण् इति यावत् । काक्षतवमिति । कक्षतुरस्मिन्नस्तीत्यादि विग्रहः ।
अदूरमन्तिकं तत्र भवतीत्यदूरभवः, निपातनात्सप्तमीसमासः । विदिशाया इति ।'दूरान्तिकार्थैः षष्ठ।ल्न्यतरस्याम्' इति षष्ठी । चकार इत्यादि । असति तु तस्मिन्नानन्तर्यादयमेवार्थ उतरत्र सम्बध्येत ॥