4-3-115 उपज्ञाते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन
तेनेत्येव। तृतीयासमर्थादुपज्ञात इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। विनोपदेशेन ज्ञातमुपज्ञातम्, स्वयमभिसंबुद्धमित्यर्थः। पाणिनिनोपज्ञातं पाणिनीयमकालकं व्याकरणम्। काशकृत्स्नं गुरुलाघवम्। आपिशलं दुष्करणम्॥
तेनेत्येव । पाणिनिना उपज्ञातं पाणिनीयम् ॥
<<उपज्ञाते>> - उपज्ञाते । तेनोपज्ञातमित्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः । उपज्ञातं-प्रथमज्ञातम् ।
विनोपदेशेन ज्ञातमुपज्ञातमिति । उपपूर्वो जानातिस्तत्र प्रसिद्ध इति भावः । अकालकमिति । आन्याय्यादुत्थानादित्यादिकालपरिभाषारहितमित्यर्थः । गुरुलाघवं नामार्थशास्त्रम्, यत्रोपायानां गौरवं लाघवं चिन्त्यते ।'दूषू' इत्ययं सङ्केतशब्दो यत्र क्रियते, यथा पाणिनीये'वृत्' इति, तद् दुष्करणं व्याकरणम्; कामशास्त्रमित्यन्ये ॥