4-2-1 तेन रक्तं रागात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्
'तेन रक्तं रागात्' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः
तृतीयासमर्थात् रागवाचिनः सुबन्तात् 'रक्तम्' अस्मिन् अर्थे अण् प्रत्ययः भवति ।
To express the meaning of 'colored by', an appropriate प्रत्यय gets added to the तृतीयासमर्थ word representing the name of the color.
शुक्लस्य वर्णान्तरापादानमिह रञ्जेरर्थः। रज्यतेऽनेनेति रागः। तेनेति तृतीयासमर्थाद् रागविशेषवाचिनः प्रातिपदिकाद् रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। कषायेण रक्तं वस्त्रं काषायम्। माञ्जिष्ठम्। कौसुम्भम्। रागादिति किम्? देवदत्तेन रक्तं वस्त्रम्। कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पादाविति? उपमानाद् भविष्यति, काषायाविव काषायौ, हारिद्राविव हारिद्रौ। <<द्वैपवैयाघ्रादञ्>> ४.२.१२ इति यावत् तृतीयासमर्थविभक्तिरनुवर्तते॥
रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिकम् । रागात्किम् । देवदत्तेन रक्तं वस्त्रम् ॥
अण् स्यात् । रज्यतेऽनेनेति रागः । कषायेण रक्तं वस्त्रं काषायम् ॥
प्राग्दीव्यतीय-अर्थेषु विद्यमानेभ्यः 44 अर्थेभ्यः अयम् द्वितीयः अर्थः । रागवाचिनः शब्दात् (यथा - नील, धवल, पीत, कषाय - आदयः) 'रक्तम्' (इत्युक्ते 'वर्णान्तरं प्राप्तम्') अस्मिन् अर्थे यथायोग्यः तद्धिप्रत्ययः अनेन सूत्रेण विधीयते । यथा - 1. कषायेण रक्तम् (वस्त्रम्) = कषाय + अण् = काषायम् वस्त्रम् । 2. मञ्जिष्ठेन रक्तम् (वसनम्) = मञ्जिष्ठ + अण् = माञ्जिष्ठम् वसनम् । 3. कुसुम्भेन रक्तम् (अम्बरम्) = कुसुम्भ + अण् = कौसुम्भमम्बरम् । अस्मिन् अर्थे अण्-प्रत्ययस्य अपवादरूपेण एते अपवादाः विधीयन्ते - 1. <<लाक्षारोचनाशकलकर्दमात् ठक्>> 4.2.2 इत्यनेन लाक्षा, रोचना, कर्दमा - एतेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । लाक्षया रक्तम् लाक्षिकम् । रोचनया रक्तम् रोचनिकम् । कर्दमेन रक्तम् कार्दमिकम् । 2. <!पीतात् कन् वक्तव्यः!> - अनेन वार्त्तिकेन 'पीत' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे कन्-प्रत्ययः भवति । पीतेन रक्तम् पीतकम् । 3. <!नील्या अन् वक्तव्यः!> - अनेन वार्त्तिकेन 'नीली' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे अन्-प्रत्ययः भवति । नील्या रक्तम् नीलम् । 4. <!हरिद्रामहारजनाभ्यामञ् वक्तव्यः!> - अनेन वार्त्तिकेन 'हरिद्रा, महारजना' एताभ्याम् शब्दाभ्यामञ्-प्रत्ययः भवति । हरिद्रया रक्तम् हारिद्रम् । महारजनेन रक्तम् माहारजनम् । अत्र बिन्दुद्वयं स्मर्तव्यम् - 1. 'रक्तम्' इत्यर्थं विहाय अन्येषु अर्थेषु अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'कषायेन धूतम्' इत्यत्र अनेन सूत्रेण तद्धितप्रत्ययः न विधीयते । 2. 'रागवाचिनम् शब्दम्' विहाय अन्येषां शब्दानां विषये अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'देवदत्तेन रक्तम्' इत्यत्र अनेन सूत्रेण तद्धितप्रत्ययः न विधीयते । ज्ञातव्यम् - 1. 'राग' अयम् शब्दः 'रज्' धातोः करणे घञ्-प्रत्ययं कृत्वा सिद्ध्यति । रज्यते अनेन (इत्युक्ते, वर्णान्तरं प्राप्यते अनेन) सः रागः । यथा - नील, पीत, हरित - आदयः । 2. 'रक्त' अयम् शब्दः 'रज्' धातोः क्त-प्रत्ययं कृत्वा सिद्ध्यति । रक्तम् इत्युक्ते 'वर्णान्तरं प्राप्तम्' । 3. 'अण्' तथा 'अञ्' - द्वयोः प्रत्यययोः प्रयोगेण रूपं तु समानं जायते, परन्तु निर्मिते पदे स्वरभेदः दृश्यते । ञित्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्ताः भवन्ति ।
<<तेन रक्तं रागात्>> - तेन रक्तं रागात् । रज्यत इति । रज्यते वर्णान्तरं प्राप्यते अनेनेत्यर्थे रञ्जेः करणे घञि कृतेगञि च भावकरणयो॑रिति नलोपेचजोः कुघिण्ण्यतो॑रिति कुत्वे उपधावृद्धौ रागशब्द इत्यर्थः । तथाच रागशब्देन रञ्जनसाधनं द्रव्यमुक्तं भवति ।तेने॑ति सामान्यनिर्देशः । तथाच तेन रक्तं=वर्णान्तरं प्राप्तमित्यर्थे, रागात्=रञ्जनद्रव्यवाचकात्तृतीयान्तादण् स्यादित्यर्थः,प्राग्दीव्यतोऽणि॑त्यधिकारात् । कषायेणेति । कषायो धातुविशेषः, रञ्जनद्रव्यं, तेन रक्तं वर्णान्तरं प्राप्तं काषायमित्यर्थः । माञ्जिष्ठमिति । मञ्जिष्ठानाम रञ्जनद्रव्यविशेषः ।
रञ्जिरयमस्त्येवाभिष्वङ्गे - भोजने रक्त इति; अस्ति वर्णविशेषे - रक्ता गौः, लोहितेत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने - रक्तः पट इति । तत्राद्ययोरर्थयोर्ग्रहणे, रूपेण कान्तायां रक्तः, कोपेन रक्तं मुखमित्यत्रापि प्राप्नोतीति मन्यमानस्तृतीयमर्थमाश्रित्याह - शुक्लस्येत्यादि । एतच्चाभिधानस्वाभाव्याल्लभ्यते । रज्यतेऽनेन राग इति ।'घञी च भावकरणयोः' इति नलोपः । भावसाधनस्तु रागशब्दो न भवति, न हि रञ्जनक्रियैव रञ्जनक्रियायाः करणं भवति । रागविशेषवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरत्र लाक्षादीनां रागग्रहणेन विशेषणात् । रागादिति किमिति । अनभिधानादेव कर्तृवाचिनो न भविष्यति,'दैवदतं वस्त्रम्' इति ह्युक्ते स्वस्वामिभावस्यैव सम्प्रत्ययादिति प्रश्नः । लक्षणैकशरणो नैतत्प्रतिपतुमर्हतीत्युक्तम् । कथमिति । न ह्यत्र वर्णान्तरमाहितमिति प्रश्नः उपमानादिति । रूपसादृश्यनिमितात् ॥