4-3-74 ततः आगतः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
तत इति पञ्चमीसमर्थादागत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। स्रुघ्नादागतः स्रौघ्नः। माथुरः। राष्ट्रियः। तत इति मुख्यमपादानं विवक्षितं यत् तदिह गृह्यते, न नान्तरीयकम्। स्रुघ्नादागच्छन् वृक्षमूलादागत इति॥
स्रुघ्नादागतः स्रौघ्नः ॥
स्रुग्घ्नादागतः स्रौग्घ्नः॥
<<तत आगतः>> - तत आगतः । अस्मिन्नर्थे पञ्चम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । स्नौघ्न इति । औतद्सर्गिकोऽण् ।
तत इति मुख्यं यदपादानं विवक्षितं तदिह गृह्यत इति । मुख्यत्वादेव । अपादानसंज्ञा तु नान्तरीयकस्यापि भवति, कारकप्रकरणे हि गौणमुख्यविबागो नाश्रीयते ॥