4-3-90 अभिजनः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य
सोऽस्येत्येव। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थमभिजनश्चेत् स भवति। अभिजनः पूर्वबान्धवः। तत्संबन्धाद् देशोऽप्यभिजन इत्युच्यते — यस्मिन् पूर्वबान्धवैरुषितम्। तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यः, निवासप्रत्यासत्तेः। स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः। माथुरः। राष्ट्रियः। निवासाभिजनयोः को विशेषः? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सोऽभिजनः। योगविभाग उत्तरार्थः॥
स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । यत्र स्वयं वसति स निवासः । यत्र पूर्वैरुषितं सोऽभिजन इति विवेकः ॥
<<अभिजनश्च>> - अभिजनश्च । स इत्यनुवर्तते । पूर्ववद्व्याख्येयम् ।यत्र पूर्वैरुषितं सोऽभिजन॑ इति भाष्यम् । यत्र स्वयमिति । उदाहृतभाष्यस्यायमर्थ इति भावः ।