7-1-23 स्वमोः नपुंसकात् लुक्
नपुंसकात् अङ्गात् स्वमोः लुक्
नपुंसकात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ/अम्-प्रत्यययोः लुक् भवति ।
The सुँ and अम् attached to a नपुंसक अङ्ग are removed.
सु अम् इत्येतयोर्नपुंसकादुत्तरयोर्लुग् भवति। दधि तिष्ठति। दधि पश्य। मधु तिष्ठति। मधु पश्य। त्रपु। जतु। तद् ब्राह्मणकुलमित्यत्र लुका त्यदाद्यत्वं ७.२.१०२ बाध्यते पूर्वविप्रतिषेधेन,नित्यत्वाद् वा। लुको हि निमित्तम् <<अतोऽम्>>७.१.२४ इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेनैव। <<यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति>>॥
क्लीबादङ्गात्स्वमोर्लुक् स्यात् । वारि ॥
लुक् स्यात्। वारि॥
यथा, मधु-शब्दस्य प्रथमैकवचनस्य / द्वितीयैकवचनस्य रूपसिद्धौ 'मधु + सुँ / अम्' इत्यत्र अनेन सूत्रेण एतयोः प्रत्यययोः लुक् (लोपः) भवति, अतः 'मधु' इत्येव रूपं सिद्ध्यति । तथैव, वारि + सुँ → वारि । धातृ + सुँ → धातृ ।
<<स्वमोर्नपुंसकात्>> - अथ वारिशब्दप्रक्रियां दर्शियितुमाह — स्वमोर्नपुंसकात् । 'षड्भ्यो लुक्' इत्यतो लुगित्यनुवर्तते । इत्याह — क्लीवादित्यादिना । वारीति । सोरमश्च लुकि रूपम् । नचआदेः परस्ये॑त्यमोऽकारस्यैव लुक् स्यान्न तु मकारस्यापीति शङ्क्यं, प्रत्ययस्य लोप एव हि लुगित्युच्यते । अम् इति समुदाय एवेह प्रत्ययो नतु तदेकदेशभूतमकारमात्रम् । अतो लुगमः सर्वादेश एव भवति ।
सु इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य अमा एकवचनेन साहचर्यात् । तद्भाह्मणकुलमित्यत्र परत्वात्यदाद्यत्वे कृते लुग्न प्राप्नोति अतोऽम् इत्यम्भावेन बाधितत्वात्, तस्मात्यदादिभ्यश्चेति वक्तव्यमत आह - तद् ब्राह्मणकुलमित्यत्रेति । नित्यत्वाद्वेति । लुका त्यादाद्यत्वं बाध्यत इत्यनुषङ्गः । कथं पुनर्लुको नित्यत्वम्, यावता त्यदाद्यत्वे कृते अतोऽमित्यपवादविधानात सोऽप्यनित्य एव अत आह - लुको हीति । यदि ह्यतोऽमित्येतन्न स्यादकारान्तमप्यङ्गं लुको निमितं स्यादेव, ततः किम् इत्यत आह - यस्य चेति । त्यदाद्यत्वं तु लुकि कृते नैव प्राप्नोति न लुमताङ्गस्य इति निषेधात् । यद्येवम्, तदपि लक्षणान्तरेणैव बाध्यते नासावत्वस्य प्रतिषेधः, कस्य तर्हि प्रत्ययलक्षणस्य, प्राप्तिर्हि प्रत्ययलक्षणेन ॥