इकोऽचि विभक्तौ

7-1-73 इकः अचि विभक्तौ इदितः नुम् नपुंसकस्य

Sampurna sutra

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इकः नपुंसकस्य अचि विभक्तौ नुम्

Neelesh Sanskrit Brief

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इगन्तस्य नपुंसकशब्दस्य अजादि-विभक्ति-प्रत्यये परे नुमागमः भवति ।

Neelesh English Brief

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


An इगन्त नपुंसकलिङ्ग word gets नुमागम when followed by an अजादि विभक्तिप्रत्यय.

Kashika

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इगन्तस्य नपुंसकस्य अङ्गस्य अजादौ विभक्तौ नुमागमो भवति। त्रपुणी। जतुनी। तुम्बुरुणी। त्रपुणे। जतुने। तुम्बुरुणे। इकः इति किम्? कुण्डे। पीठे। अचि इति किम्? उत्तरार्थम्। यद्येवम्, तत्र एव कर्तव्यम्? इह तु करणस्य एतत् प्रयोजनम्, हे त्रपो इत्यत्र नुम् मा भूत्, इति, न ङिसम्बुद्ध्योः 8.2.8 इति नलोपप्रतिषेधः स्यात्। ननु च न लुमताङ्गस्य 1.1.63 इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव न अस्ति? एतदेव अज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधोऽत्र न भवतीति। तथा च सम्बुद्धिगुणः क्रियते। विभक्तौ इति किं? तौम्बुरवं चूर्णम्। इकोऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम्। स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति। रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि। नुड् वाच्य उत्तरार्थं तु इह किञ्चित् त्रपो इति।

Siddhanta Kaumudi

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इगन्तस्य क्लीबस्य नुमागमः स्यादचि विभक्तौ । वारिणी । वारीणि । न लुमता <{SK263}> इति निषेधस्याऽनित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः । हे वारे! । हे वारि । आङो ना <{SK244}> ॥ वारिणा । घेर्ङिति <{SK245}> इति गुणे प्राप्ते ।<!वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम्पूर्वविप्रतिषेधेन !> (वार्तिकम्) ॥ वारिणे । वारिणः । वारिणोः । नुमचिरेति नुट् । नामी <{SK209}> इति दीर्घः । वारीणाम् । वारिणि । वारिणोः । हलादौ हरिवत् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन (वार्त्तिकम्)। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥

Neelesh Sanskrit Detailed

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इक्-प्रत्याहारे इ, उ, ऋ, ऌ एते वर्णाः आगच्छन्ति । नपुंसकलिङ्गशब्दानामन्ते स्थितानाम् एतेषामजादिविभक्तौ नुमागमः विधीयते ।

उदाहरणानि अधः दत्तानि सन्ति । परन्तु तस्मात् पूर्वम् द्वे वार्तिके ज्ञातव्ये, येषां प्रक्रियायाम् प्रयोगः भवति -

  1. <!वृद्धि-औत्व-तृज्वद्भाव-गुणेभ्यो नुम् पूर्वविप्रतिषेधेन !> । इत्युक्ते, 'वृद्धिः, 'औत्वम्', 'तृज्वद्भावः', 'गुणादेशः' - एतेभ्यः कस्यापि विधेः यदि नुमागमेन सह विप्रतिषेधः जायते, तर्हि नुमागमस्यैव प्रयोगः करणीयः ।

  2. <!नुमचिर्-तृज्वद्भावेभ्यो नुट् विप्रतिषेधेन !> । इत्युक्ते, यदि 'नुमागमः', 'अचि र ऋतः 7.2.100 इत्यनेन उक्तः रेफादेशः', तथा 'तृज्वद्भावः' - एतेभ्यः कस्यापि विधेः यदि नुडागमेन सह विप्रतिषेधः जायते, तर्हि नित्यम् नुडागमस्यैव प्रयोगः करणीयः ।

अधः उदाहरणानि दत्तानि सन्ति -

(अ) इकारान्त/उकारान्तशब्दानामुदाहरणानि 'वारि'शब्दमधिकृत्य दत्तानि सन्ति । मधुशब्दस्य विषये अपि एतादृशाः प्रक्रियाः एव ज्ञातव्याः) -

  1. जस्/शस्-प्रत्यययोः परयोः नपुंसकस्य झलचः 7.3.72 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन इकोऽचि विभक्तौ 7.1.73 इति नुमागमः करणीयः । यथा -

वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः]

→ वारि + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]

→ वारि + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]

→ वारि न् + इ [नपुंसकस्य झलचः 7.3.72 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन इकोऽचि विभक्तौ 7.1.73 इति नुमागमः]

→ वारी + नि [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]

→ वारीणि [अट्कुप्वाङ्नुम्वयवायेऽपि 8.4.2 इति णत्वम्]

  1. टा-प्रत्यये परे वर्तमानसूत्रेण इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन आङो नाऽस्त्रियाम् 7.3.120 इत्यनेन टा-प्रत्ययस्य 'ना' आदेशः करणीयः । यथा -

वारि + टा

→ वारि + ना [अत्र 'वारि' इति शेषो घ्यसखि 1.4.7 घिसंज्ञकमङ्गमस्ति । अतः इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन आङो नाऽस्त्रियाम् 7.3.120 इत्यनेन टा-प्रत्ययस्य 'ना' आदेशः विधीयते ।]

→ वारिणा [अट्कुप्वाङ्नुम्वयवायेऽपि 8.4.2 इति णत्वम्]

  1. ङे / ङसिँ / ङस् प्रत्ययेषु परेषु वर्तमानसूत्रेण नुमागमे प्राप्ते, विप्रतिषेधेन घेर्ङिति 7.3.111 इति घिसंज्ञकस्य अङ्गस्य गुणः अपि विधीयते । अस्याम् स्थितौ अनेन वार्तिकेन नुमागमः एव करणीयः । यथा -

वारि + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]

→ वारि न् अस् [अत्र 'वारि' इति शेषो घ्यसखि 1.4.7 घिसंज्ञकमङ्गमस्ति । अत्र इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमे प्राप्ते, विप्रतिषेधेन घेर्ङिति 7.3.111 इति घिसंज्ञकस्य अङ्गस्य गुणे प्राप्ते ; अनेन वार्तिकेन इकोऽचि विभक्तौ 7.3.73 इति नुमागमः]

→ वारिणः [अट्कुप्वाङ्नुम्व्यवायेऽपि इति नकारस्य णकारः]

  1. षष्ठीबहुवचनस्य आम्-प्रत्यये परे वर्तमानसूत्रेण अङ्गस्य नुमागमे प्राप्ते ; विप्रतिषेधेन ह्रस्वनद्यापो नुट् 7.1.54 इति नुडागमः अपि प्राप्यते । अस्यां स्थितौ अनेन वार्तिकेन नुडागमः करणीयः । यथा -

वारि + आम्

→ वारि + नुट् + आम् [ह्रस्वनद्यापो नुट् 7.1.54 इत्यनेन प्रत्ययस्य नुडागमे प्राप्ते, विप्रतिषेधेन इकोऽचि विभक्तौ 7.1.73 इत्यनेन अङ्गस्य नुमागमे प्राप्ते <! नुमचिर्-तृज्वद्भावेभ्यो नुट् विप्रतिषेधेन!> अनेन वार्त्तिकेन विप्रतिषेधेन ह्रस्वनद्यापो नुट् 7.1.54 इति नुडागमः भवति । ]

→ वारीनाम् [नामि 6.4.3 इत्यनेन अङ्गस्य दीर्घः]

→ वारीणाम् [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति नकारस्य णकारः]

  1. षष्ठी-सप्तमी-द्विवचनस्य ओस्-प्रत्यये परे इको यणचि 6.1.77 एतं वर्णकार्यम् बाधित्वा अङ्गकार्यस्य प्रधानत्वात् परत्वात् च इकोऽचि विभक्तौ 7.1.73 इति नुमागमः भवति ।

वारि + ओस् इति स्थिते

→ वारिन् ओस् [इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमः]

→ वारिणः [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति नकारस्य णकारः]

  1. सप्तमी-एकवचनस्य ङि-प्रत्यये परे अनेन सूत्रेण नुमागमे प्राप्ते , अच्च घेः 7.3.119 इत्यनेन ङि-प्रत्ययस्य औ-आदेशः विधीयते । अत्र अनेन वार्तिकेन 'औ' आदेशस्य अपेक्षया इकोऽचि विभक्तौ इति नुमागमः करणीयः । यथा -

वारि + ङि

→ वारिन् + ङि [इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमे प्राप्ते, विप्रतिषेधेन अच्च घेः 7.3.119 इत्यनेन ङि-प्रत्ययस्य औ-आदेशे प्राप्ते अनेन वार्तिकेन इकोऽचि विभक्तौ 7.1.73 इति नुमागमः]

→ वारिणि [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति नकारस्य णकारः]

(आ) ऋकारान्तशब्दानामुदाहरणानि धातृ-शब्दमधिकृत्य दत्तानि सन्ति ।

  1. धातृ + जस् / शस् [प्रथमा/द्वितीययोः बहुवचनस्य प्रत्ययः]

→ धातृ + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]

→ धातृ + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]

→ धातृ न् + इ [नपुंसकस्य झलचः 7.3.72 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन इकोऽचि विभक्तौ 7.1.73 इति नुमागमः]

→ धातॄ + नि [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]

→ धातॄणि [ इति णत्वम्]

  1. धातृ + टा [तृतीयैकवचनस्य प्रत्ययः]

→ धातृना [इको यणचि 6.1.77 एतं बाधित्वा इकोऽचि विभक्तौ 7.1.73 इति नुमागमः]

→ धातृणा [ इति णत्वम्]

एवमेव धातृणे, धातृणः, धातृणोः आदीनि रूपाणि सिद्ध्यन्ति ।

  1. धातृ + ङि [सप्तम्येकवचनस्य प्रत्ययः]

→ धातृनि [ इकोऽचि विभक्तौ 7.1.73 इत्यनेन नुमागमे प्राप्ते विप्रतिषेधेन ऋतो ङिसर्वनामस्थानयोः 7.3.110 इत्यनेन अङ्गस्य गुणे प्राप्ते, अनेन वार्तिकेन इकोऽचि विभक्तौ 7.3.73 इति नुमागमः]

→ धातृणि [ इति णत्वम्]

Balamanorama

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इकोऽचि विभक्तौ - इकोऽचि । 'इदितो नुम् धातोः' इत्यतो नुमित्यनुवर्तते । 'नपुंसकस्य झलचः' इत्यतोनपुंसकस्ये॑त्यनुवर्तते,अङ्गस्ये॑त्यदिकृतमिका विशेष्यते, ततस्तदन्तविधिः, तदाह — इगन्तस्येत्यादिना । अचि विभक्ताविति । अजादौ विभक्तावित्यर्थः ।इकोऽचि सुपी॑त्येव सुवचम् । विभक्तौ किम् मधु=मद्यं, तस्येदं माधवम् । अणि परे नुमि टिलोपेमाध॑मिति स्यात् । वारिणी इति । वारि-औ इति स्थिते शीभावे नुमिअट्कुप्वाङिति णत्वे रूपम् । वारीणीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे णत्वे रूपम् । हे वारि सु इत्यत्र सोर्लुकि प्रक्रियां दर्शयति — पक्ष इति । 'ह्रस्वस्य गुण' इति सम्बुद्धिनिमित्तको गुणः कदाचिद्भवतीत्यर्थः । नन्विह सम्बुद्धेर्लुका लुप्तवान्न लुमतेति प्रत्ययलक्षणनिषेधात्कथं गुण इत्यत आह-न लुमतेतिनिषेधस्यानित्य्त्वादिति । अत्र च 'इकोऽचि विभाक्तौ' इत्यत्राज्ग्रहणं ज्ञापकम् । हलादिषु भ्यामादिषु सत्यपि नुमिन लोपः प्रातिपदिकान्तस्ये॑ति तस्य लोपसम्भवादचीति व्यर्थम् । न च सम्बुद्धिव्यावृत्त्यर्थमज्ग्रहणं, तुत्र नुमि सतिन ङिसम्बुद्धयो॑रिति निषेधे सति नकारश्रवणप्रसङ्गादिति वाच्यं, सम्बुद्धेर्लुका लुप्ततया प्रत्ययलक्षणाभावेन तत्र नुमः । प्राप्तेरेवाऽभावात् ।न लुमते॑ति निषेधस्याऽनित्यत्वे तु सम्बुद्धौ प्रत्ययलक्षणेन प्राप्तं नुमं वारयितुमज्ग्रहणमर्थवदिति भवत्यज्ग्रहणंन लुमते॑त्यस्यानित्यत्वे लिङ्गमित्याहुः । अत एवइकोऽची॑ति सूत्रे हे त्रपो इति, एङ्ह्रस्वादिति सूत्रे हे त्रपु इति च भाष्यं सङ्गच्छते । आङो नेति । रूपे विशेषाऽभावेऽपि नुमपेक्षया परत्वेन नाभावस्यैव न्याय्यत्वादिति भावः । ङसिङसोर्विशेषमाह-घेरिति । नुमं बाधित्वा परत्वाद्गुणे प्राप्त इत्यर्थः ।वृद्ध्यौत्त्वेति । वार्तिकम् । वृद्ध्यादीनां क्रमेण-गावौ हरौ क्रोष्ट्रा हरये इत्यवकाशः । नुमोऽवकाशो वारीणि इति । अतिसखीनीत्यत्र जश्शसोः 'सख्युरसम्बुद्धौ' इति णित्त्वाद्वृद्धिः परत्वान्नुमं बाधित्वा प्राप्ता । वारिणीत्यत्र ङौ तु 'अच्च घेः' इत्यौत्त्वं प्राप्तम् । प्रियक्रोष्टूनीत्यत्र जश्शसोस्तृज्वत्त्वं प्राप्तम् । वारिशब्दान्ङ्यादौ गुणः प्राप्तः । अत्र पूर्वविप्रतिषेधान्नुमेवेत्यर्थः । वारिणे इति । ङयि गुणं बाधित्वा नुमि णत्वे रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारिण इति । ङसिङसोर्गुणं बाधित्वा नुमि णत्वे रूपम् । वारिणोरिति । ओसि यणं बाधित्वा नुमि णत्वे रूपम् । वारि-आमित्यत्र परत्वान्नुटं बाधित्वा नुमि प्राप्त आह — नुमचिरेति । नुडिति । नुम्नुटोः को विशेष इत्यत आह-नामीति दीर्घ इति । नुमि तु सति तस्याङ्गभक्तत्वा॑न्नामी॑ति दीर्घो न स्यादिति भावः । वारिणीति । ङौ 'अच्च घेः' इत्यौत्त्वं परमपि बाधित्वावृद्ध्यौत्त्वे॑ति पूर्वविप्रतिषेधान्नुम् । न विद्यते आदिः= उत्पत्तिः यस्य सः अनादिः=ईआरः । अनादिः अविद्या । अनाद#इ ब्राहृ । त्रिलिङ्गोऽयं विशेष्यनिघ्नः । तस्य नपुंसकत्वे प्रथमाद्वितीययोर्वारिवद्रूपाणि ।

Padamanjari

Up

index: 7.1.73 sutra: इकोऽचि विभक्तौ


इक इति किमिति । पूर्वत्र यदज्ग्रहणं तदिहैव कर्तव्यम् - नपुंसकस्य झलः, अचोऽचीति तेन तु हलन्तस्य न भविष्यति, सन्ध्यक्षरन्तं तु नपुंसकं नास्त्येवेति प्रश्नः । अत एवादन्तं प्रत्युदाहरति, न हलन्तम् । अचीति किमिति । त्रपुभ्यामित्यादौ हलादौ सत्यपि नुमि स्वादिषु इति पदसंज्ञायां सत्याम् नलोपः प्रातिपदिकान्तस्य इति लोपेनैव सिद्धमिष्टमिति प्रश्नः । इतरोऽपि विदिताभिप्राय आह - उतरार्थमिति । अस्थिदधिसक्थ्यक्ष्णामनङ् अचि यथा स्यात्, हलादौ अस्थिभ्यामित्यादौ मा भूत् । पुनश्चोदयतियद्येवमिति । परिहरति - इह त्विति । हे त्रपो इति । अत्र प्रागेव गुणान्नुमः प्रसङ्गः , गुणे कृतेऽनिगन्तत्वादप्रसङ्गः । स्यादेतत् - अस्त्वत्र नुम्, स्वमोर्नपुंसकात् इति सोर्लुकि सुबन्तं पदमिति पदसंज्ञायां नलोपो भविष्यतीति तत्राहन ङसिम्बुद्ध्योरिति । ननु चेत्यादि । एवकारो भिन्नक्रमः प्रतिषेधेन सम्बद्ध्यमान औपचारिकमपि विभक्तेरस्तित्वं प्रतिषेधति । द्विविधं विभक्तेरस्तित्वम् - मुख्यम्, औपचारिकं च । तत्र मुख्यं श्रूयमाणायाः, इतरल्लुप्तायाः प्रत्ययलक्षणेन । तदिह लुप्तत्वान्मुख्यं तावन्नास्ति, प्रत्ययलक्षणप्रतिषेधेनौपचारिकमपि नास्त्येव, तत्र विभक्तौ इत्युच्यमानो नुम् कः प्रसङ्गे यत्सर्वथैवासत्यां विभक्तौ स्यात् नैष प्राप्नोति, नार्थोऽज्ग्रहणेन । एतदेवेत्यादि । अन्यथा ह्यज्ग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति - अत्रोगन्ते नपुंसके सम्बुद्धिविषये प्रत्ययलक्षणप्रतिषेधो न भवतीति । तथा चेत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति । सम्बुद्धौ चेति वर्तमाने ह्रस्वस्य गुणः इति वहितो गुणः सम्बुद्धिगुणः । लौम्बुरवमिति । विकारे ओरञ् । इकोऽचीत्यादि । इकः अचीत्युच्यते व्यञ्जनादौ मा भूत् - त्रपुभ्याम्, त्रपुभिः । अस्तु लोपः, अस्त्वत्र नुम् नलोपः प्रातिपदिकान्तस्य इति नलोपो भविष्यति स्वरः कथम् - पञ्चत्रपुभ्याम्, पञ्चत्रपुभिः इगन्ते उतरपदे द्विगौ पूर्वपदं प्रकृत्या भवतीत्येष स्वरो न प्राप्नोति नुमि सत्यनिगन्तत्वात् । नलोपेऽपि कृते स्वरविधौ एतस्यासिद्धत्वादनिगन्तत्वादनिगन्तत्वमेव । स्वरो वै श्रूयमाणेऽपि लुप्ते किन्न भविष्यतीति । वैशब्दः क्षमायाम् । श्रूयमाणेऽपि वै नकारे स्वरो भवति - पञ्चत्रपुणे, पञ्चत्रपुणः । स लुप्ते किं न भविष्यति, यत्र शास्त्रवशेन सम्भवो न प्रत्यक्षेण, तत्र किं न भविष्यति भविष्यत्येव । किं पुनः कारणं श्रूयमाणेऽपि नुमि स्वरो भवति सङ्घातभक्तोऽसौ नोत्सहते तदुतरपदेगन्ततां विहन्तुम् । यदि चान्तरङ्गः स्वराः, प्रागेव विभत्युत्पतेर्भविष्यति । अत्र तर्हि - अतिराभ्याम्, अतिराभिरिति - अतिरिभ्यामिति स्थिते नुमि कृते तेन व्यवधानाद् रायो हलि इत्याकारो न प्राप्नोति, नलोपेऽपि कृते सुब्विधौ तस्यासिद्धत्वाव्द्यवधानमेव, सङ्घातभक्तो नुम् तमेव न व्यावदध्यात्, रैशब्दं तु व्यवदधात्येव । अथाप्यत्र अङ्गाधिकारे तस्य च तदुतरपदस्य चेति रैशब्दान्तस्याङ्गत्वविधानान्नास्ति नुमाङ्गस्य व्यवधानमथापि निर्दिश्यमानस्यादेशा भवन्तीति रैशब्दस्य व्यवधानमेव । अथाप्यङ्गस्यात्वम्, एवमपि नुम एवात्वं प्राप्नोति, तत्र पूर्वस्य यणि सति अतिर्याभ्यामिति स्यात् । तथा प्रियतिसृभ्यां ब्राह्मणकुलाभ्यामित्यत्र प्रियत्रिभ्यामिति स्थिते तिसृभावो न स्यात् नुमा व्यवधानात् । नलोपेऽपि कृत इत्यादि पूर्ववत् । नैष दोषः, रायात्वं तिसृभावश्च व्यावधानान्नुमा अपि भवतः । व्यवधानादिति कर्मणि ल्यब्लोपे पञ्चमी, नुमा व्यवधानं प्राप्यापि भवत इत्यर्थः । विभक्तिविधानदशायां यदानन्तर्थं ततत्राश्रीयते, न त्वादेशविधानदशायामिति भावः । नुमा अपीत्यत्र संहिताया अविवक्षितत्वात्सवर्णदीर्घत्वं न कृतम् । अन्ये मध्ये हि शब्दं पठन्ति । अपिशब्देनैतत्सूचयति - प्रकारान्तरेणाप्यात्वतिसृभावौ सिद्ध्यत इति । तत्कथम् कातिरिभ्यामिति स्थिते नुभात्वयोरुभयोरप्यनित्ययोः परत्वादात्वमेवं तिसृभावः, तत्र सकृद्गतिन्यायाश्रयणेन नुमभावः, सत्यापि वा नुमि न कश्चिद्दोषः एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणं कृतम् । ह्रस्वनद्यापो नुट् इत्यसायावकाशः - अग्नीनां वायूनाम्, नुमोऽवकाशः - त्रपुणे, जतुने, त्रपूणाम्, जतूनामित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन नुडिष्यते । नामि इति दीर्घो यथा स्याद् इति । स च विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते द्वयोरप्यनित्यत्वेन तुल्यबलत्वात् । असति हि त्वज्ग्रहणे कृताकृतप्रसङ्गित्वान्नित्यत्वान्नुमेव स्यात् । एतदपि प्रयोजनं दूषयति -नुङ् वाच्य इति । क्रियमाणेऽप्यज्ग्रहणे नुट् तत्र वाच्यः - वचनेनैव साध्यः, अन्यथा परत्वान्नुमेव स्यात् । ततश्चाज्ग्रहणं कर्तव्यम्, पूर्वविप्रतिषेधश्च वक्तव्यः - इति यत्नद्वयमाश्रयणीयम् । तत्राज्ग्रहणमकृत्वा एक एव नुडर्थो यत्नः कर्तव्य इत्यर्थः । इदं तर्हि प्रयोजनम् - तेनैव यत्नेन नुटि तत्रैवानजादौ नुम् मा भूत् अस्तु, लोपो भविष्यति, नलोपस्यासिद्धत्वादनजन्तत्वात् नामि इति दीर्घत्वं न स्यात् । मा भूदेवम्, नोपधायाः इत्येवं भविष्यति इह तर्हि शुचीनाम् , इन्हन्पूषार्यम्णां शौ, सौ चेति नियमाद्दीर्घत्वं न स्यात्, प्रतिपदोक्तस्येनस्तत्र ग्रहणम्, लाक्षणिकश्चायम् । एवं प्रत्याख्यातेऽज्ग्रहणे प्रयोजनमाह - उतरार्थं त्विति । तुशब्दः तर्ह्यर्थे । यद्यौतरत्रास्य प्रयोजनं तर्हि तत्रैव कर्तव्यमा अत आह - इह किञ्चिदिति । तुशब्दस्य यण् न कृतः इकोऽसवर्णे शाकल्यस्य इति प्रकृतिभावविधानात् । त्रपो इति । अत्र तु सम्बुद्धौ शाकल्यस्येतावनार्षे इति प्रगृह्यत्वादवादेशाभावः । केचिदत्र हे त्रपो, हे त्रपु - इति द्वैरुप्यमिच्छन्ति, प्रत्ययलक्षणप्रतिषेधस्यानित्यत्वं ज्ञाप्यते, न त्वस्मिन्विषये सर्वथैवाभाव इति वदन्ति । तथा च भाष्ये हे त्रपु, हे त्रपो इति द्वयमप्युदाहृतम् । अन्ये तु हे त्रप्विति प्राप्ते हि त्रपो इति भवतीति भाष्यं व्याचक्षणाअ नित्यमेव गुणमिच्छन्ति । तथा च वृतौ गुण एवोदाहृतः ॥