7-1-24 अतः अम् स्वमोः नपुंसकात्
index: 7.1.24 sutra: अतोऽम्
अतः नपुंसकात् अङ्गात् स्वमोः अम्
index: 7.1.24 sutra: अतोऽम्
अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ/अम्-प्रत्यययोः अम्-आदेशः भवति ।
index: 7.1.24 sutra: अतोऽम्
The सुँ and अम् attached to an अकारान्त नपुंसक अङ्ग are converted to अम्.
index: 7.1.24 sutra: अतोऽम्
अकारान्तान् नपुंसकादुत्तरयोः स्वमोः अम् इत्ययमादेशो भवति। कुण्डं तिष्ठति। कुण्डं पश्य। पीठम्। मकारः कस्मान् न क्रियते? धीर्घत्वं प्राप्नोति।
index: 7.1.24 sutra: अतोऽम्
॥ अथ अजन्तनपुंसकलिङ्गप्रकरणम् ॥
अतोऽङ्गात् क्लीबात्स्वमोरम् स्यात् । अमि पूर्वः <{SK194}> । ज्ञानम् । एङ्ह्रस्वात् <{SK193}> इति हल्मात्रलोपः । हे ज्ञान ॥
index: 7.1.24 sutra: अतोऽम्
अतोऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः। ज्ञानम्। एङ्ह्रस्वादिति हल्लोपः। हे ज्ञान॥
index: 7.1.24 sutra: अतोऽम्
अकारान्तनपुंसकात् अङ्गात् परस्य सु-अम्-प्रत्यययोः स्वमोर्नपुंसकात् 7.1.23 इत्यनेन लुक्-प्राप्ते अपवादत्वेन वर्तमानसूत्रेण तयोः अम्-आदेशः भवति । यथा -
फल + सुँ / अम् इति स्थिते -
→ फल + अम् [ स्वमोर्नपुंसकात् 7.1.23 इति लुक्-प्राप्ते अपवादत्वेन अतोऽम् 7.1.24 इति अम्-आदेशः]
→ फलम् [अकः सवर्णे दीर्घः 6.1.101 इत्यनेन सवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6.1.102 अनेन पूर्वसवर्णदीर्घे प्राप्ते ; विप्रतिषेधेन अमि पूर्वः 6.1.107 इति पूर्वसवर्ण-एकादेशः]
ज्ञातव्यम् -
1) अम्-इति अनेकाल्-आदेशः अस्ति, अतः अनेकाल् शित् सर्वस्य 1.1.55 इत्यनेन सर्वादेशः भवति ।
2) अस्मिन् सूत्रे 'अतः' इति तकारः केवलं उच्चारार्थः अस्ति । एतत् तपरकरणम् नास्ति, यतः ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इत्यनेन दीर्घ-आकारान्त नपुंसकलिङ्गशब्दाः भवितुम् न अर्हन्ति ।
प्रश्नः - अनेन सूत्रेण द्वितीया-एकवचनस्य अम्-प्रत्ययस्य पुनः अम्-इत्येव आदेशः दीयते । किमर्थम्?
उत्तरम् - यदि अनेन सूत्रेण अम्-प्रत्ययस्य अम्-आदेशः न अभविष्यत्, तर्हि औत्सर्गिकरूपेण स्वमोर्नपुंसकात् 7.1.23 अनेन सूत्रेण नपुंसकात् परस्य अम्-प्रत्ययस्य लुक् अभविष्यत् । एवं सति फल + अम् = फल इति अशुद्धं रूपं अजनिष्यत । तत् तथा मा भूत्, अतः अत्र अम्-प्रत्ययस्य पुनः अम्-आदेशः आवश्यकः ।
उपप्रश्नः - तर्हि अम्-इत्यस्य 'म्' इति एकाल्-आदेशः किमर्थम् न कृतः?
उत्तरम् - यदि अम्-इत्यस्य 'म्' अयम् एकालः आदेशः अभविष्यत्, तर्हि आदेः परस्य 1.1.54 इत्यनेन एषः आदेशः अम्-प्रत्ययस्य अकारस्य स्थाने अभविष्यत् । तदा 'फल + अम् → फल + म् म्' अस्यामवस्थायाम् सुपि च 7.3.102 इत्यनेन अङ्गस्य दीर्घः अभविष्यत् । ततः च संयोगान्तस्य लोपः 8.2.23 इत्यनेन मकारलोपं कृत्वा 'फलाम्' इति रूपमभविष्यत् । तत् तथा मा भूत्, अतः अम्-इति अनेकाल् आदेशः आवश्यकः ।
index: 7.1.24 sutra: अतोऽम्
अतोऽम् - ज्ञानशब्दात्सुःस्वमोर्नपुंसका॑दिति तस्य लुकि प्राप्ते — अतोऽम् । 'अत' इति पञ्चमी ।अङ्गस्ये॑त्यधिकृतं पञ्चम्या विपरिणम्यते, 'अत' इत्यनेन विशेष्यते । तेन तदन्तविधिः ।स्वमोर्नपुंसका॑दित्यनुवर्तते । तदाह — अतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । ज्ञानमिति । सोरमि कृते अमि पूर्वरूपमिति भावः । अमोऽम्विधानं तुस्वमोर्नपुंसका॑दिति लुङ्निवृत्त्यर्थम् । ननु 'अतो-म्' इत्येवच्छेदोऽस्तु । सोर्मकारादेशे ज्ञानमिति सिद्धेः । अमि चआदेः परस्ये॑त्यकारस्य मकारेऽन्त्यस्य मकारस्य संयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेत्, मैवम्-एवं सति ज्ञानमित्यत्रसुपि चे॑ति दीर्घापत्तेः । न च अदन्तसंनिपातमाश्रित्य प्रवृत्तस्य मादेशस्य तद्विघातकदीर्घनिमित्तत्वं न संभवति, संनिपातपरिभाषाविरोधादिति वाच्यं,सुपि चे॑ति दीर्घे कर्तव्ये संनिपातपरिभाषाया अप्रवृत्तेरित्युक्तत्वादित्यलम् ।हे ज्ञानेति । हे ज्ञानस् इति स्थिते सोरमि कृते पूर्वरूपेएङ्ह्रस्वा॑दिति मकारलोपे हे ज्ञानेति रूपम् । नन्वेङ्ह्रस्वादित्यत्र संबुद्ध्याक्षिप्तस्य संबुद्धयैवान्वय उचितः, ततश्च एङन्ताध्यस्वान्ताच्चाङ्गात् परा या संबुद्धिस्तदवयवस्य हलो लोप इति लभ्यते । ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयणे ज्ञानेत्यदन्तमङ्गम् । ततः परा संबुद्धिर्नास्ति, मकारमात्रस्याऽसंबुद्धित्वात्, सुस्थानिकस्याम एव संबुद्धित्वात्, अद्र्धविकारेण एकदेशविकृतन्यायानवताराच्च । न च पूर्वरूपात्प्राक्एङ्ह्रस्वा॑दित्यस्य प्रवृत्तिः किं न स्यादिति वाच्यं, परत्वात्पूर्वरूपस्यैव पूर्वं प्रवृत्तेः । न च पूर्वान्तत्वात्पूर्वरूपस्याऽङ्गन्तर्भावाज्ज्ञानेत्यदन्तमङ्गम्, परादित्वाच्च अम् इत्यस्य संबुद्धित्वं चेत्याश्रित्य तदवयवहलो मकारमात्रस्यएङ्ह्रस्वा॑दिति लोपो निर्बाध इति वाच्यम्,उभयत आश्रयणे नान्तादिव॑दिति निषेधादित्यत आह — एङ्ह्रस्वादिति हल्मात्रलोप इति । पूर्वरूपे कृते संबुद्धेर्मकारमात्रं यत् परिशिष्टं तस्यएङ्ह्रस्वा॑दिति लोप इत्यर्थः । लक्ष्यानुरोधात्संबुद्ध्याक्षिप्तमङ्गं संबुद्धौ नान्वेति, किंतु संब#उद्ध्यवयवहल्येवान्वेति । ततश्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परो यः संबुद्ध्यवयवहल् तस्य लोप इति लभ्यते । प्रकृते च पूर्वरूपे कृतेऽपि ह्रस्वान्तादङ्गात्परत्वं संबुद्ध्यवयवस्य मकारमात्रस्य अस्त्येवेति तस्यएह्ह्रस्वा॑दिति लोपो निर्बाध इत्यन्यत्र विस्तरः ।
index: 7.1.24 sutra: अतोऽम्
अत्रामिति पदच्छेदः, न तु मिति तथा हि सति लाघवाय मत तैत्येव ब्रूयात् । किमर्थं पुनरम्विधीयते न मकार एवोच्येत, द्वितीयैकवचनेऽपि आदेः परस्य इत्यकारस्य मकार कृतेऽन्यस्य मकारस्य संयोगान्तलोपेनैव सिद्धमिष्टम् दीर्घप्रसङ्गस्तु सुपि चेति दीर्घः प्राप्नोति । न च दीर्घविधौ सन्निपातपरिभाषा एप्रवर्तते वृत्रायेत्यादावपि प्रसङ्गात् । तस्मादमेव विधेयः । अपर आह - अम्विधानसामर्थ्यादतिजरसमित्यत्र जरसादेशो भवतीति, तच्चिन्त्यम् सन्निपातपरिभाषया जरसादेशस्याप्रसङ्गात् । अम्विधानं तु दीर्घबाधनेन चरितार्थमिति ॥