7-3-111 घेः ङिति गुणः
index: 7.3.111 sutra: घेर्ङिति
घेः अङ्गस्य ङिति सुपि गुणः
index: 7.3.111 sutra: घेर्ङिति
घि-संज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे गुणादेशः भवति ।
index: 7.3.111 sutra: घेर्ङिति
A घि-संज्ञक अङ्ग gets a गुणादेश in presence of a ङित्-प्रत्यय.
index: 7.3.111 sutra: घेर्ङिति
घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति। अग्नये। वायवे। अग्नेरागच्छति। वायोरागच्छति। अग्नेः स्वम्। वायोः स्वम्। घेः इति किम्? सख्ये। पत्ये। ङितीति किम्? अग्निभ्याम्। सुपि इत्येव, पट्वी। कुरुतः।
index: 7.3.111 sutra: घेर्ङिति
घिसंज्ञकस्य ङिति सुपि गुणः स्यात् । हरये । घेः किम् । सख्ये । ङिति किम् । हरिभ्याम् । सुपि किम् । पट्वी । घेर्ङिती <{SK245}>ति गुणे कृते ॥
index: 7.3.111 sutra: घेर्ङिति
घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥
index: 7.3.111 sutra: घेर्ङिति
ये ह्रस्व-इकारान्त-उकारान्तशब्दाः नदीसंज्ञां न प्राप्नुवन्ति, तेषां शेषो घ्यसखि 1.4.7 अनेन सूत्रेण घिसंज्ञा भवति । यथा - मुनि, साधु आदयः । ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दानाम् (यथा - मति), तथा ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दानाम् (यथा धेनु) अनेनैव सूत्रेण विकल्पेन घि-संज्ञा भवति ।
घिसंज्ञकस्य अङ्गस्य ङित्-प्रत्यये परे (इत्युक्ते ङे / ङसिँ / ङस् प्रत्यये परे) गुणादेशः भवति । इत्युक्ते, इकारस्य एकारः तथा उकारस्य ओकारः आदेशः भवति । यथा -
1) मुनि + ङे
→ मुने + ए [घेर्ङिति 7.3.111 इति गुणः]
→ मुनये [एचोऽयवायावः 6.1.78 इति अयादेशः]
2) साधु + ङसिँ
→ साधो + अस् [घेर्ङिति 7.3.111 इति गुणः]
→ साधोः [ङसिँङसोश्च 6.1.110 इति पूर्वरूप-एकादेशः । विसर्गनिर्माणम् ।]
ज्ञातव्यम् -
1) यद्यपि सप्तम्येकवचनस्य प्रत्ययः ङित्-अस्ति, तथापि तस्मिन् परे अस्य सूत्रस्य अपवादरूपेण अच्च घेः 7.3.119 इत्यस्य प्रसक्तिः भवति । अत्र इदम् सूत्रम् केवलं ङे / ङसिँ / ङस् -प्रत्ययानामुपस्थितौ एव प्रयुज्यते ।
2) ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च 1.4.6 इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति । अतः -
(अ) नदीसंज्ञापक्षे तेभ्यः परस्य ङित्-प्रत्ययस्य आण्नद्याः 7.3.112 इत्यनेन आट्-आगमः भवति । अतः मति + ङे = मत्यै इति रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य 'मत्याः' रूपमपि सिद्ध्यति ।
(आ) नदीसंज्ञायाः अभावपक्षे तेषाम् शेषो घ्यसखि 1.4.7 इत्यनेन घि-संज्ञा भवति, अतः तेषामङ्गस्य ङित्-प्रत्यये परे घेर्ङिति 7.3.111 इत्यनेन गुणादेश भवति । अतः मति + ङे = मयते इति अपि रूपं सिद्ध्यति । एवमेव पञ्चमी-षष्ठी-एकवचनस्य 'मतेः' रूपमपि सिद्ध्यति ।
index: 7.3.111 sutra: घेर्ङिति
घेर्ङिति - घेर्ङिति ।सुपि चे॑त्यतःसुपी॑तिह्रस्वस्ये॑त्यतो 'गुण' इति चानुवर्तते । तदाह-घिसंज्ञकस्येत्यादिना । यणोऽपवादः । हरये इति । गुणे यादेशः । सुपि किं पट्वीति ।वोतो गुणवचना॑दिति ङीष् । तस्य ङित्त्वेऽपि सुप्त्वाऽभावात्तस्मिन् परतो न गुण इत्यर्थः । नचघेङी॑त्येव सूत्र्यताम्, इद्ग्रहणं न कर्तव्यम्,यस्मिन् विधि॑रिति परिभाषया ङकारादौ सुपीत्यर्थलाभादिति वाच्यम्, एवं सति 'आण्नद्याः' इत्यत्रापि ङीत्येवानुवृत्तौ ङकारादेराम आङ्विधीयेत । ततश्चमत्या॑मित्यत्र आण्न स्यात् । आमो ङादित्वाऽभावात् । नच स्थानिवद्भावेन ङादित्वं शङ्क्यम् । अल्विधित्वात् । स्थानिनो ङेर्ङकारस्य इत्संज्ञालोपाभ्यामपह्मतत्वेन आम्स्थान्यल्त्वाऽभावात्, अनुबन्धानामनेकान्तत्वात् । एकान्तत्वपक्षे ।ञपि अल्ग्रहणेन अनुबन्धस्य ग्रहणं न भवति,अनेकाल्शित्सर्वस्ये॑त्यत्र शिद्ग्रहणाज्ज्ञापकात् । अन्यथा 'इदम इ' शित्यादिशितां शकारेणानुबन्धेन सहानेकाल्त्वादेव सिद्धे किं तेन । अतएव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एव तिबाद्यादेशेषु पित्त्वादि सिध्यति । अत एवसेह्र्रपिच्चे॑त्यत्र अपिदित्यर्थवत् । अन्यथा पित्कार्यस्याऽल्विध#इत्वात्तत्र स्थानिवद्भावस्यैवाऽप्रसक्त्या हेः पित्त्वस्यैवाऽप्रसक्तौ किं तन्निषेधेन । तदिदं स्थानिवत्सूत्रे शब्देन्दुशेखरे प्रपञ्चितम् । गुणे कृते इति ।ङसिङसो॑रिति शेषः । हरे-अस् इति स्थितेऽपदान्तत्वात्एङः पदान्ता॑दिति पूर्वरूपे अप्राप्ते, अयादेशे प्राप्ते — ।
index: 7.3.111 sutra: घेर्ङिति
ध्यन्तस्याङ्गस्येति ।'वर्णमात्रस्य घिसंज्ञा' इत्याश्रित्येदमुक्तम् ।'तदन्तस्य संज्ञा' इत्यत्र तु पक्षे घ्येकदेशे वर्णे घिशब्दो द्रष्टव्यः । एतेन नद्यन्तादिति व्याख्यातम् । सुपीत्येवेति ।'सुपि च' इत्यतः । पट्वीति ।'वातो गुणवचनात्' इति । कुरुत इति । यस्य नदीसंज्ञा नास्ति स सर्वोऽपि घिसंज्ञः, न लिङ्गवदेवेति । कुरुशब्दस्य घिसंज्ञा, तस्य तसि ङिति गुणो न भवति । एतच्च ङ्च्छिब्दे बहुव्रीहिमाश्रित्योच्यते । यदि तु ङ्श्चासाविच्चेति कर्मारयस्तदा नैवात्र प्रसङ्गः,'सार्वधातुकमपित्' इत्यनेन हि बहुव्रीहौ ङितो यित्कार्यं तदतिदिश्यते, न चैतावता तसेण्Çóकार आदिर्भवति ॥