तव्यत्तव्यानीयरः

3-1-96 तव्यत्तव्यानीयरः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

धातोरिति वर्तते। धातोस्तव्यत् तव्य अनीयर् इत्येते प्रत्यया भवन्ति। तकाररेफौ स्वरार्थौ। क॒र्त॒व्य॑म्। क॒र्तव्य॑म्। क॒र॒णीय॑म्॥ वसेस्तव्यत् कर्तरि णिच्च॥ वास्तव्यः॥ केलिमर उपसंख्यानम्॥ पचेलिमा माषाः। भिदेलिमानि काष्ठानि। कर्मकर्तरि चायमिष्यते॥

Siddhanta Kaumudi

Up

धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ।<!वसेस्तव्यत्कर्तरिणिच्च !> (वार्तिकम्) ॥ वसतीति वास्तव्यः ।<!केलिमर उपसंख्यानम् !> (वार्तिकम्) ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥

Laghu Siddhanta Kaumudi

Up

धातोरेते प्रत्ययाः स्युः । एधितव्यम्, एधनीयं त्वया । भावे औत्सत्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीया वा धर्मस्त्वया <<केलिमर उपसंख्यानम्>> (वार्त्तिकम्) । पचेलिमा माषाः । पक्तव्या इत्यर्थः । भिदेलिमाः सरलाः । भेत्तव्या इत्यर्थः । कर्मणि प्रत्ययः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तव्यत्तव्यानीयरः>> - तव्यत्तव्यानीयरः । तव्यत् तव्य अनीयर् एषां द्वन्द्वः । प्रत्ययाः स्युरिति । ते कृत्संज्ञकाः, कृत्यसंज्ञकाश्च इत्यपि ज्ञेयम् । स्वरार्थाविति ।तित्स्वरित॑मिति, 'उपोत्तमं रिति' इति च स्वरविशेषार्थावित्यर्थः । निरनुबन्धकस्य तु तव्यस्य प्रत्ययस्वरेण आद्युदात्तत्वमेवेति बोध्यम् । भावे उदाहरति — एधितव्यमिति । त्वत्कर्तृका एधनक्रियेत्यर्थः । ननुलः कर्मणि चे॑त्यत्र असत्त्वभूतस्यैव भावस्य ग्रहणम्, तिङ्वाच्यभावनाया असत्त्वरूपताया उक्तत्वात् । ततश्च तस्य भावस्य असत्त्वरूपस्याऽत्रतयोरेव कृत्ये॑ति तच्छब्देन परामर्शात्तव्यदादीनामसत्त्ववाचितया लिङ्गसङ्ख्यान्वयोऽनुपपन्न इत्यत आह — भावे औत्सर्गिकमेकवचनमिति ।एकवचनम्,द्विबहुषु द्विबहुवचने॑ इति सूत्रपाठमभ्युपगम्य द्वित्वबहुत्वाऽभावे एकवचनमिति भाष्यसिद्धान्तादिति भावः । क्लीबत्वं चेति ।एकश्रुतिः स्वरसर्वनाम, लिङ्गसर्वनाम नपुंसक॑मिति 'दाण्डिनायने' ति सूत्रस्थभाष्यादिति भावः । कर्मण्युदाहरति — चेतव्य इति ।वसेस्तव्यत्कर्तरि णिच्चेति वार्तिकम् । वास्तव्य इति । वस्तेत्यर्थः । णित्त्वादुपधावृद्धिः । केलिमर इति । धातोरित्येव । भावकर्णोरेवेदम् । केलिमरि ककाररेफावितौ । भिदेलिमा इति । कित्त्वान्नोपधागुणः । सरलाः = वृक्षविशेषाः । तद्भाष्येति । भाष्ये भिदेलिमा इत्युदाहृत्य 'भेत्तव्या' इत्येव विवरणादिति भावः ।

Padamanjari

Up

तव्यतव्यानीयरः॥ वसेरिति।'वस निवासे' इत्यस्य ग्रहणम्, न तु'वस आच्छादने' इत्यस्य लुग्विकरणस्य।'तयोरेव कृत्यक्तखलर्थाः' इति वचनात्कर्तरि न प्राप्नोतीति वचनम्, णिद्वद्भावार्थं च। वास्तव्य इति। तद्वितान्तो वा पुनरेषभविष्यति, वास्तुनि भावो वास्तव्यः, दिगादित्वाद्यत्। अवास्तव्य इत्यत्र स्वरभेदो नास्ति,'कृत्योकेष्णुच्' इति यदन्तोदातत्वं तदेव'ययतोश्चातदर्थे' इत्यनेन भविष्यति। केलिमर इति। ककारो गुणवृद्धिप्रतिषेधार्थः, रेफस्स्वरार्थः। कर्मकर्तरि चायमिष्यत इति। भाष्ये तु'पचेलिमा माषाः, पक्तव्याः; भिदेलिमास्सरलाः, भेतव्याः' इति शुद्धे कर्मणि प्रदर्शितम्॥