ङेराम्नद्याम्नीभ्यः

7-3-116 ङेः आम् नद्याम्नीभ्यः

Sampurna sutra

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


नदी-आप्-नीभ्यः ङेः आम्

Neelesh Sanskrit Brief

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


नदीसंज्ञकात् परस्य, आबन्तात् परस्य, नीशब्दात् परस्य सप्तमीएकवचनस्य 'ङि'-प्रत्ययस्य आम्-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


The ङि-प्रत्यय gets आमादेश when it comes after - (a) a नदीसंज्ञक word, (b) an आबन्त word, and (c) a word that ends in 'नी'.

Kashika

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


नद्यन्ताताबन्तात् नी इत्येतस्माच् च उत्तरस्य ङेः आमादेशो भवति। कुमार्याम्। गौर्याम्। ब्रह्मबन्ध्वाम्। धीबन्ध्वाम्। आपः खट्वायाम्। बहुराजायाम्। कारीषगन्ध्यायाम्। नी राजन्याम्। सेनान्याम्।

Siddhanta Kaumudi

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


नद्यन्तादाबन्तान्नीशब्दाच्च ङेराम् स्यात् । इह परत्वादाटा नुड्बाध्यते । बहुश्रेयस्याम् । शेषमीप्रत्ययान्तवातप्रमीवत् । अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी । क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप् । हल्ङ्याब् <{SK252}> इति सुलोपः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


नद्यन्तादाबन्तान्नीशब्दाच्च परस्य डेराम् । बहुश्रेयस्याम् । शेषं पपीवत् ॥ अङ्यन्तत्वान्न सुलोपः । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् ॥ प्रधी: ॥

Neelesh Sanskrit Detailed

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


उदाहरणानि -

1) नदीसंज्ञकात् परस्य -

नदी + ङि [सप्तम्येकवचनस्य प्रत्ययः]

→ नदी + आम् [ङेराम्नद्याम्नीभ्यः 7.3.116 इति आम्-आदेशः ।]

→ नदी + आट् + आम् [आण्-नद्याः 7.3.112 इति आडागमः ।]

→ नदी + आम् [आटश्च 6.1.90 इति वृद्धि-एकादेशः ।]

→ नद्याम् [इको यणचि 6.1.77 इति यणादेशः ।]

2) आबन्तात् परस्य -

माला + ङि [सप्तम्येकवचनस्य प्रत्ययः]

→ माला + आम् [ङेराम्नद्याम्नीभ्यः 7.3.116 इति आम्-आदेशः ।]

→ माला + याट् + आम् [याडापः 7.3.113 इति याडागमः ।]

→ मालायाम् [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः ।]

3) नीशब्दात् परस्य -

राजनी + आम् [सप्तम्येकवचनस्य प्रत्ययः]

→ राजनी + आम् [ङेराम्नद्याम्नीभ्यः 7.3.116 इति आम्-आदेशः ।]

→ राजन्याम् [इको यणचि 6.1.77 इति यणादेशः।]

ज्ञातव्यम् -

1) नदीसंज्ञा - यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन दीर्घ-ईकारान्त-ऊकारान्तशब्दानां नदीसंज्ञा भवति - यथा नदी, घटी, वधू, चञ्चू आदयः ।

2) 'आबन्तशब्दाः' इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।

3) अनया परिभाषया 'नीभ्यः' इत्युक्ते नी-शब्दात् परस्य तथा नीशब्दान्तात् परस्य - उभौ अपि स्वीक्रियेते । अतः सेनानी, राजनी, ग्रामणी - एतादृशानां ईकारान्तपुंलिङ्गशब्दानाम् सप्तमी-एकवचनस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः भवति ।

4) यद्यपि 'आम्' इति 'मित्' अस्ति, तथाप्यत्र अयमादेशः एव अस्ति, आगमः न ।

5) यद्यपि ह्रस्व-इकारान्तस्त्रीलिङ्गशब्दाः ह्रस्व-उकारान्तस्त्रीलिङ्गशब्दाश्च ङिति ह्रस्वश्च 1.4.6 इत्यनेन ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञां प्राप्नुवन्ति, तथापि तेषां विषये अयमादेशः वर्तमानसूत्रेण न भवति, अपितु अच्च घेः 7.3.118 इति सूत्रेण भवति ।

Balamanorama

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


ङेराम्नद्याम्नीभ्यः - ङेराम्नद्याम्नीभ्यः । आङ्गत्वात्प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह — नद्यन्तादित्यादिना ।ङे॑रिति सप्तम्येकवचनं, व्याख्यानात् । नन्वामि कृते 'ह्रस्वनद्यापः' इति नुटि 'यदागमाः' इति न्यायेन नामोऽप्याङ्ग्रहणेन ग्रहणात् 'आण्नद्या' इति आडागमः स्यादित्याशङ्क्य आह — इह परत्वादिति । न च कृतेऽप्याडागमे नुट् किं न स्यादिति वाच्यं, विप्रतिषेधेन यद्बाधितं तद्बाधितमेवे॑ति न्यायादिति भावः । शेषमीप्रत्ययान्तेति । वातप्रमीशब्दस्यापि इवर्णान्तधातुत्वाऽभावेन अमि शसि ङौ च 'एरनेकाचः' इति यणः प्रात्प्यभावादिति भावः । लक्षेर्मुट् चे॑ति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः । लक्ष्मीमतिक्रान्त इति विग्रहेअत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्रस्वः । अङ्यन्तत्वादिति । औणादिकप्रत्ययान्तत्वादिति बावः । शेषं बहुश्रेयसीवदिति ।प्रथमलिङ्गग्रहणं चे॑ति नदीत्वादिति भावः । अथ धातुत्वमापन्ने कुमारीशब्दे पुंलिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाह-कुमारीमिच्छन्नित्यादिना । क्यजन्तादिति । कुमारीमात्मन इच्छतीत्यर्थेसुपः आत्मनः क्य॑जिति क्यच् । कचावितौ । 'सन#आद्यन्ता' इति क्यजन्तस्य धातुत्वात्तदवयवसुपोऽमःसुपो धातुप्रातिपदिकयो॑रिति लुक् । ततः क्विप् चे॑ति कर्तरि क्विप् । कपावितौ । इकार उच्चारणार्थः ।अतो लोपः,॒॑लोपो व्योः॑ इति यलोपः । वेरपृक्तस्ये॑ति वलोपः ।कुमारी॑ति रूपम् । आचारक्विबन्तादिति । कुमारीवाचरतीत्यर्थेसर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः॑ इति क्विप् । कपावितौ ।वेरपृक्तस्ये॑ति वलोपः । 'सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विप् । तस्य च पूर्वत्कृत्स्नलोपः ।कुमारीति॑रूपम् । नच क्विबर्थं प्रति कुमारीशब्दस्य उपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वः शङ्क्यः,गोस्त्रियो॑रित्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात्, कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात् । हल्ङ्याबिति सुलोप इति । नच क्यजन्ते कथं सोर्लोपः, पूर्वस्माद्विधावल्लोपस्यस्थानिवद्भावादिति वाच्यं,क्वौ लुप्तं न स्थानिव॑दिति निषेधादिति भावः ।

Padamanjari

Up

index: 7.3.116 sutra: ङेराम्नद्याम्नीभ्यः


'णेóः' इति सप्तम्येकवचनग्रहणम्; इच्छायाम्, स्त्रियामित्यादिनिर्देशात् । ग्रामण्यामिति ।'सत्सूद्विष' इत्यादिना क्विप्, ठग्रग्रामाभ्याम्ऽ इति णत्वम्, ठेरनेकाचःऽ इति यण् ॥