बहुवचने झल्येत्

7-3-103 बहुवचने झलि एत् अतः दीर्घः सुपि

Sampurna sutra

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


अतः अङ्गस्य बहुवचने झलि एत्

Neelesh Sanskrit Brief

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


'बहुवचनस्य झलादि सुप्-प्रत्यये परे' अदन्तस्य अङ्गस्य एकारादेशः भवति ।

Neelesh English Brief

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


The last letter of an अदन्त अङ्ग gets an एकारादेश when followed by a सुप्-प्रत्यय which begins with a झल letter and which represents बहुवचन.

Kashika

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


बहुवचने झलादौ सुपि परतोऽकारान्तस्य अङ्गस्य एकारादेशो भवति। व्कृक्षेभ्यः। प्लक्षेभ्यः। वृक्षेषु। प्लक्षेषु। बहुवचने इति किम्? वृक्षाभ्याम्। प्लक्षाभ्याम्। झलि इति किम्? वृक्षाणाम्। सुपि इत्येव, यजध्वम्। पचध्वम्।

Siddhanta Kaumudi

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


झलादौ बहुवचने सुपि परेऽतोऽङ्गस्यैकारः स्यात् । रामेभ्यः । बहुवचने किम् । रामः । रामस्य । झलि किम् । रामाणाम् । सुपि किम् । पचध्वम् । जश्त्वम् ।

Laghu Siddhanta Kaumudi

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः। रामेभ्यः। सुपि किम्? पचध्वम्॥

Neelesh Sanskrit Detailed

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


सुप्-प्रत्ययाः इत्युक्ते स्वौजसमौट्.. 4.1.2 सूत्रेण उक्ताः एकविंशतिः प्रत्ययाः । एते प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति । एतेषु बहुवचनस्य झलादि-सुप्-प्रत्ययाः एते - भिस्, भ्यस्, सुप् । एतेषु परेषु अदन्तस्य अङ्गस्य अन्तिमवर्णस्य एकारादेशः भवति ।

यथा -

1) राम + भ्यस् → रामेभ्यः ।

2) राम + सुप् → रामेसु → [आदेशप्रत्यययोः 8.3.59 इति षत्वम् ] → रामेषु ।

Balamanorama

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


बहुवचने झल्येत् - भ्यसि न विभक्ताविति सस्य नेत्त्वम् । सुपि चेति दीर्घे प्राप्ते — बहुवचने झल्येत् ।अतो दीर्घो यञी॑त्यतःसुपि चे॑त्यतश्च 'अत' इतिसुपी॑ति चानुवर्तते ।झली॑त्यनेनसुपी॑ति विशेष्यते ।यस्मिन् विधि॑रिति तदादिविधिस्तदाह — झलादाविति । अतोऽङ्गस्येति । अदन्तस्याङ्गस्येत्यर्थः । एत्वे सति रुत्वविसर्गौ सिद्धवत्कृत्याह — रामेभ्य इति । राम इति । अयोगवाहानामकारोपरि शर्षु चोपसंख्यातत्वेन विसर्गस्य झल्त्वात्स्थानिवद्भावेन सुप्त्वाच्च तस्मिन् परत एत्वं प्राप्तं, रुत्वविसर्गयोरसिद्धत्वेऽपि राम — सिति दशायां झलादिसुप्परत्वात् । अतो बहुवचनग्रहणमित्यर्थः । रामस्येति । बहुवचनग्रहणस्य प्रयोजनान्तरम् । षष्ठएकवचनस्य ङसः स्यादेशे तस्य स्थानिवद्भावेन सुप्त्वात्स्वतो झलादित्वाच्च तस्मिन् परत एत्वे प्राप्ते तन्निवृत्त्यर्थं बहुवचनग्रहणमित्यर्थः । संनिपातपरिभाषा तुसर्वेषा॑मिति निर्देशादेत्वविधौ न प्रवर्तत इत्याहुः । झलि किमिति ।उतो वृद्धिर्लुकि हलीत्यतो हली॑त्यनुवर्त्त्य हलादौ बहुवचने सुपि एत्वमित्येव व्याख्यातु शक्यते । तावतैव 'रामा' इत्याद्यजादिबहुवचने एत्वनिरासादिति प्रश्नः । रामाणामिति ।हलादौ बह#उवचने सुपि एत्व॑मित्युक्तौ रामाणामित्यत्राप्येत्वं स्यात् । तन्निवृत्त्यर्थं झल्ग्रहणमित्यर्थः । यद्यप्यत्र संनिपातपरिभाषया ह्रस्वान्ताङ्गसंनिपातमुपजीव्य प्रवृत्त्स्य नुटस्तद्विघातकमेत्वं प्रति निमित्तत्वाऽसंभवादेव एत्वं न भविष्यति, तथापि झल्ग्रहणमेत्वे संनिपात परिभाषाया अप्रववृत्तिज्ञापनार्थम् । तेनहलि सर्वेषा॑मिति निर्देशात्सर्वशब्दे एत्वसिद्धावपि विओषामित्यादावेप्यत्वं भवति । पचध्वमिति । ध्वमो झलादिबहुवचनत्वेऽपि सुप्त्वाऽभावान्न तस्मिन् परत एत्वमित्यर्थः । नचबहुवचने झली॑गित्योवास्तु । कित्त्वादन्तावयवे आद्गुणे च 'रामेभ्य' इत्यादिसिद्धेरिति वाच्यम्, एवं सतिओसि चे॑त्युत्तरसूत्रेऽपि इगागमविधौ ज्ञानयोरित्यत्रइकोऽचि विभक्ता॑विति नुमापत्तेः । अथ पञ्चमीविभक्तिः । तत्रउपदेशेऽजनुनासिक इ॑दिति ङसेरिकार इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । ङकारस्तु लशक्विति इत् । तस्य लोपः । तदुभयोच्चारणं तु 'ङसिङ्योः'घेर्ङिती॑त्याद्यर्थम् ।टाङसिङसा॑मिति आत् । सवर्णदीर्घः । जश्त्वमिति । 'झलां जशो ।ञन्ते' इति नित्यतया जश्त्वं प्राप्तम् । तदपवादश्चर्त्वविकल्प आरभ्यत इत्यर्थः ।

Padamanjari

Up

index: 7.3.103 sutra: बहुवचने झल्येत्


वृक्षाणामिति ।'झलि' इत्यनुच्यमानेऽग्नीनामित्यादौ सावकाशम्'नामि' इति दीर्घत्वं बाधित्वेदमेत्वमकारान्तेषु स्यादिति भावः ॥