अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च

3-1-138 अनुपसर्गात् लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् शः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययो भवति। लिम्पतीति लिम्पः। विन्दतीति विन्दः। धारयतीति धारयः। पारयतीति पारयः। वेदयतीति वेदयः। उदेजयतीत्युदेजयः। चेतयतीति चेतयः। सातिः सौत्रो धातुः। सातयः। साहयः। अनुपसर्गादिति किम्? प्रलिपः॥ नौ लिम्पेरिति वक्तव्यम्॥ निलिम्पा नाम देवाः॥ गवादिषु विन्देः संज्ञायाम्॥ गोविन्दः। अरविन्दः॥

Siddhanta Kaumudi

Up

शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातिः सुखार्थः । सौत्रो हेतुमण्ण्यन्तः । सातयः । वाऽसरूपन्यायेन क्विपि । सात् परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे चुरादिः । हेतुमण्ण्यन्तो वा । साहयः । अनुपसर्गात्किम् । प्रलिपः ।<!नौ लिम्पेर्वाच्यः !> (वार्तिकम्) ॥ निलिम्पा देवाः ।<!गवादिषु विदेः संज्ञायाम् !> (वार्तिकम्) ॥ गोविन्दः । अरविन्दम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेति- सातिसाहिभ्यश्च>> - अनुपसर्गात् । शः स्यादिति । शेषपूरणम् । लिम्पः विन्द इति ।लिप उपदेहे 'विद्लृ लाभे' इति तुदादौ, ताभ्यां शः ।शे मुचादीना॑मिति नुम् । सूत्रे कृतनुमौ लिम्पविन्दौ निर्दिष्टौ, अतस्तौदादकयोरेव ग्रहणम् । धारय इति । 'धृञ् धारणे' 'धृङ् अवस्थाने' आभ्यां हेतुमण्ण्यन्ताभ्यां शः शप्, गुणाऽयादेशौ । पारय इति । पृधातोण्र्यन्ताच्छः, शप्, गुणाऽयादेशौ । विद वेदनाख्यादिषु, चुरादिण्यन्ताच्छः, शप् गुणाऽयादेशौ । उदेजय इति । उत्पूर्वादेजधातोण्र्यन्ताच्छः, शप् गुणाऽयादेशौ । चेतय इति । 'चिती संज्ञाने' ण्यन्ताच्छः, शप्,गुणाऽयादेशौ । एवं सातयः । सादिति रूपं साधयितुमाह — वासरूपनयायेन क्विबिति । सातयति सुखयतीत्यर्थे क्विप् । णिलोपः । यद्यपि क्विप् सामान्यविहितः सातेः शप्रत्ययस्तु तदपवादः, तथापि वासरूपविधिना क्विबपि भवतीत्यर्थः । सात्परमात्मेति ।एष ह्रेवानन्दयती॑ति श्रूतेः तस्यसुखयितृत्वावगमादिति भावः । सात्वन्त इति । सात् = परमात् मा भजनीय एषामित्यर्थे मतुप् । 'मादुपधायाः' इति मस्य वः । 'तसौ मत्वर्थे' इति बत्वात्पदत्वाऽभावान्न जश्त्वम् । साहय इति । साहेः शः । शप् । गुणाऽयादेशौ । प्रलिप इति । इगुपधलक्षणः कः । नौ लिम्पेरिति । वार्तिकमिदम् ।नी॑त्युपसर्गे उपपदे लिम्पेः शो वाच्य #इत्यर्थ- । 'अनुपसर्गा' दित्युक्तेः पूर्वेणाऽप्राप्तौ वचनम् । गवादिष्विति । वार्तिकमिदम् । गवादिषु उपपदेषु विन्देः शो वाच्य इत्यर्थः ।संज्ञायामेवे॑ति नियमार्थमिदम् । गोविन्द इति । गाः = उपनिषद्वाचः प्रमाणतया विन्दतीत्यर्थः । अरविन्दिमिति । चक्रे नाभिनेम्योरन्तरालप्रोतानि काष्ठानि अराणि, तत्सदृशानि दलानि विन्दतीत्यर्थः । कर्मण्यणोऽपवादः शः ।

Padamanjari

Up

अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्यौदेजिचेतिसातिसाहिभ्यश्च॥ ठनुपसर्गात्ऽ इति व्यत्ययेनैकवचनमित्याह - अनुपसर्गेभ्य इति।'लिप उपदेहे' 'विद्लृ लाभे' आगामिना नुमा सनुम्कयोर्ग्रहणम्, तेन विध्यन्तराणामग्रहणम्।'धृञ् धारणे' 'धृञ् अवस्थाने' - ण्यन्तयोर्द्वयोरपि ग्रहणम्।'पार तीर कर्मसमाप्तौ' 'विद चेतनाख्यानादिषु' चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। ठेजृ कम्पनेऽण्यन्तः,'चिती संज्ञाने' चुरादिः, सातिर्हेतुमण्ण्यन्तः,'षह मर्षणे' चुरादिर्हेतुमण्ण्यन्तो वा। लिम्पः, विन्द इति।'तुदादिभ्यः शः' 'शे मुचादीनाम्' इति नुम्। धारयादिषु शब्गुणायादेशाः। नौ लिम्पेरिति। च्छन्दसि तु'च्छर्ता च विधर्ता च विधारय' इति द्दश्यते। अरविन्द इति। अराकाराणि दलान्यरशब्देनोच्यन्ते॥