7-1-54 ह्रस्वनद्यापः नुट् आमि
ह्रस्व-नदी-आपः अङ्गात् आमि नुट्
ह्रस्वन्तात्, नदीसंज्ञकात्, आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः भवति ।
The आम्-प्रत्यय that follows a ह्रस्व word, a नदीसंज्ञक word, or an आबन्त word gets a नुट्-आगम.
ह्रस्वान्ताद् नद्यन्तादाबन्ताच्चोत्तरस्यामो नुडागमो भवति। ह्रस्वान्तात् तावत् — वक्षाणाम्। प्लक्षाणाम्। अग्नीनाम्। वायूनाम्। कर्तृणाम्। नद्यन्तात् — कुमारीणाम्। किशोरीणाम्। गौरीणाम्। शार्ङ्गरवीणाम्। लक्ष्मीणाम्। ब्रह्मबन्धूनाम्। वीरबन्धूनाम्। आबन्तात् — खट्वानाम्। मालानाम्। बहुराजानाम्। कारीषगन्ध्यानाम्॥
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः स्यात् ॥
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥
अनेन सूत्रेण त्रिविधानाम् शब्दानाम् विषये षष्ठीबहुवचनस्य 'आम्'-प्रत्ययस्य नुट्-आगमः विधीयते । ते एतादृशाः - 1. ह्रस्व-स्वरान्तशब्दाः - यथा - बाल, फल, मुनि, मति, वारि, साधु, धेनु, मधु, मातृ, पितृ, धातृ । 2. नदीसंज्ञकशब्दाः - एते द्वयोः सूत्रयोः विधीयन्ते - अ) <<यू स्त्र्याख्यो नदी>> 1.4.3 इत्यनेन इत्यतः दीर्घ-ईकारान्त/ऊकारान्तानाम् नित्यस्त्रीलिङ्गशब्दानाम् नदीसंज्ञा भवति । यथा - नदी, गौरी, चञ्चू, वधू । आ) <<वाऽमि>> 1.4.5 इत्यनेन स्त्री-शब्दं वर्जयित्वा अन्येषाम् इयङ्-स्थानिनाम् / उवङ्स्थानिनाम् नित्यस्त्रीलिङ्गशब्दानामाम्-प्रत्यये परे विकल्पेन नदीसंज्ञा भवति । यथा - श्री, धी, भ्रू आदयः । 3. आबन्तशब्दाः - आप्-येषामन्ते ते आबन्ताः । अत्र 'आप्' इत्यनेन 'टाप्', 'चाप्' तथा 'डाप्' - एते त्रयः प्रत्ययाः गृह्यन्ते । अतः एते प्रत्ययान्ताः येषामन्ते, ते शब्दाः आबन्ताः नाम्ना ज्ञायन्ते । यथा, शाला, लता, अजा, सूर्या - आदयः । सर्वे आकारान्त-स्त्रीलिङ्गशब्दाः अनेन गृह्यन्ते । एतेषाम् सर्वेषाम् परस्य षष्ठीबहुवचनस्य 'आम्'-प्रत्ययस्य नुट्-आगमः भवति । अयम् टित्-आगमः, अतः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । उदाहरणानि एतानि - 1. बाल + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → बाल + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन ह्रस्वात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → बाल + न् + आम् [इत्संज्ञालोपः] → बाला नाम् [<<नामि>> 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → बालानाम् 2. गौरी + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → गौरी + नुट् + आम् [<<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → गौरी + न् + आम् [इत्संज्ञालोपः] → गौरी नाम् [<<नामि>> 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → गौरीणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यनेन णत्वम्] 3. भ्रू + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → भ्रू + नुट् + आम् [<<वाऽमि>> 1.4.5 इत्यनेन आम्-प्रत्यये परे भ्रू-शब्दस्य विकल्पेन नदीसंज्ञा । नदीसंज्ञायाम् सत्याम् <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नद्यन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → भ्रू + न् + आम् [इत्संज्ञालोपः] → भ्रू नाम् [<<नामि>> 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → भ्रूणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इत्यनेन णत्वम्] 4. माला + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → माला + नुट् + आम् [ <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन आबन्तात् परस्य आम्-प्रत्ययस्य नुट्-आगमः ] → माला + न् + आम् [इत्संज्ञालोपः] → माला + नाम् [<<नामि>> 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → मालानाम् 5. बहुश्रेयसी + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीबहुवचनस्य आम्-प्रत्ययः] → बहुश्रेयसी + नुट् + आम् [ अनेन वात्तिकेन नदीसंज्ञायाम् प्राप्तायाम् <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन नुट्-आगमः] → बहुश्रेयसी + न् + आम् [इत्संज्ञालोपः] → बहुश्रेयसी + नाम् [<<नामि>> 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घः] → बहुश्रेयसीनाम् ज्ञातव्यम् - 1. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति, अतः <<उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्>> अनया परिभाषया सप्तम्या निर्दिष्टम् पदम् स्थानिनम् दर्शयति । 2. अस्मिन् सूत्रे निर्दिष्टः 'आम्' शब्दः षष्ठीबहुवचनस्य प्रत्ययः अस्ति, सप्तमी-एकवचनस्य <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इत्यनेन निर्दिष्टः आम्-आगमः नास्तीति भाष्ये स्पष्टीकृतमस्ति । 3. अयम् नुट्-आगमः आकारान्त/ईकारान्त/ऊकारान्त-पुँल्लिङशब्दानाम् विषये न भवति । यथा - हाहा + आम् → हाहाम् । सेनानी + आम् → सेनान्याम् । खलपू + आम् → खलप्वाम् ।
<<ह्रस्वनद्यापो नुट्>> - तदाह — ह्रस्वान्तादित्यादिना 'आम्' अत्र षष्ठीबहुवचनमेव, नतुङेरा॑मित्यादिविहितमिति भाष्ये स्पष्टम् । नुटि टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः ।
ह्रस्वनद्याप इति पञ्चमी, नामि इति लिङ्गेन अन्यथाऽङ्गनिमितस्य नामो न ह्यस्ति सम्भवः ॥