यू स्त्र्याख्यौ नदी
1-4-3 यू स्त्र्याख्यौ नदी आ कडारात् एका सञ्ज्ञा
Sampurna sutra
Up
यू स्त्र्याख्यौ नदी
Neelesh Sanskrit Brief
Up
दीर्घ-ईकारान्ताः दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गवाचिनः शब्दाः नदीसंज्ञकाः भवन्ति । यथा - गौरी, वधू ।
Neelesh English Brief
Up
The दीर्घ-ईकारान्त and दीर्घ-ऊकारान्त words which are only used as स्त्रीलिङ्ग forms get the term 'नदी'.
Kashika
Up
ई च ऊ च यू। अविभक्तिकोऽय निर्देशः। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादिदर्शनात् (३.२.५ वा०) कप्रत्ययः। ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति। ईकारान्तम् — कुमारी। गौरी। लक्ष्मीः। शार्ङ्गरवी। ऊकारान्तम् — ब्रह्मबन्धूः। यवागूः। यू इति किम्? मात्रे। दुहित्रे। स्त्र्याख्याविति किम्? ग्रामणीः। सेनानीः। खलपूः। आख्याग्रहणं किम्? शब्दार्थे स्त्रीत्व एव यथा स्यात् पदान्तराख्ये मा भूत्। ग्रामण्ये स्त्रियै। खलप्वे स्त्रियै। नदीप्रदेशाः — <<आण् नद्याः>> ७.३.११२ इत्येवमादयः॥
Siddhanta Kaumudi
Up
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः ।<!प्रथमलिङ्गग्रहणं च !> (वार्तिकम्) ॥ पूर्व स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥
Laghu Siddhanta Kaumudi
Up
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। <<प्रथमलिङ्गग्रहणं च>> (वार्त्तिकम्)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा नदी इति संज्ञा अनेन सूत्रेण पाठ्यते । दीर्घ-ईकारान्ताः, दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गवाचिनः शब्दाः नदीसंज्ञकाः भवन्ति - इति अस्य सूत्रस्य अर्थः ।
नित्यस्त्रीलिङ्गवाचिनः शब्दाः - ये शब्दाः भाषायाम् केवलं स्त्रीलिङ्गे एव प्रयुज्यन्ते (पुंलिङ्गे उत नपुंसकलिङ्गे नैव प्रयुज्यन्ते इत्याशयः) ते नित्यस्त्रीलिङ्गवाचिनः शब्दाः इति नाम्ना ज्ञायन्ते । एते शब्दाः द्विप्रकारकाः सन्ति -
1. ते शब्दाः येषाम् अन्ते कश्चन स्त्रीप्रत्ययः (टाप्, डाप्, चाप्, ङीप्, ङीष्, ङीन्, ऊङ्, क्तिन्) विद्यते । यथा - माला, गौरी, नदी, स्त्री, ब्रह्मबन्धू - इत्यादयः।
2. ते शब्दाः ये स्त्रीप्रत्ययान्ताः न सन्ति परन्तु तथापि स्वभावतः केवलं स्त्रीलिङ्गे एव प्रयुक्ताः दृश्यन्ते । यथा - धी, लक्ष्मी, मातृ, चमू, वधू - इत्यादयः ।
एतादृशाः नित्यस्त्रीलिङ्गवाचिनः शब्दाः यदि दीर्घ-ईकारान्ताः उत दीर्घ-ऊकारान्ताः सन्ति, तर्हि तेषां प्रकृतसूत्रेण नदी इति संज्ञा भवति । यथा -
1. दीर्घ-ईकारान्ताः नित्यस्त्रीलिङ्गवाचिनः शब्दाः - कुमारी, गौरी, नदी, लक्ष्मी एतादृशानां दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दानां प्रकृतसूत्रेण नदी संज्ञा भवति ।
2. दीर्घ-ऊकारान्ताः नित्यस्त्रीलिङ्गवाचिनः शब्दाः - ब्रह्मबन्धू, वधू, यवागू, श्वश्रू एतादृशानां दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दानां प्रकृतसूत्रेण नदी संज्ञा भवति ।
सूत्रस्य प्रतिपदार्थः
अस्मिन् सूत्रे विद्यमानयोः शब्दयोः अर्थौ एतादृशौ -
1. यू - प्रकृतसूत्रे प्रयुक्त: यू इति शब्दः ई + ऊ इत्यस्मात् प्रारभ्य ईकारस्य यणादेशं कृत्वा सिद्ध्यति । इत्युक्ते, यू इति शब्देन अत्र दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च निर्देशः भवति । <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यनेन अत्र तदन्तग्रहणम् अपि क्रियते, अतश्च यू इति शब्देन अत्र दीर्घ-ईकारान्तशब्दानाम् दीर्घ-ऊकारान्तशब्दानां च ग्रहणं भवति ।
2. स्त्र्याख्यौ - प्रकृतसूत्रे प्रयुक्तस्य स्त्र्याख्यः इति शब्दस्य विग्रहः स्त्रीः आख्या यस्य इति दीयते । आख्या इत्युक्ते संज्ञा । येषां शब्दानां नित्यम् स्त्री इति संज्ञा भवति, इत्युक्ते ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति, तेषाम् अनेन शब्देन निर्देशः क्रियते । एतादृशानां शब्दानाम् एव प्रकृतसूत्रेण नदीसंज्ञा विधीयते । ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि पुंलिङ्गवाचिनः सन्ति, अथ वा ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि समाने एव अर्थे स्त्रीलिङ्गे पुंलिङ्गे च प्रयुज्यन्ते, ते नित्यस्त्रीलिङ्गाः न, अतः तेषाम् प्रकृतसूत्रेण नदीसंज्ञा अपि नैव भवति । अतएव, प्रधी (प्रध्यायति सः / सा), सेनानी (= सेनां नयति सः / सा), खलपू (= खलं पुनीते सः / सा, one who cleans the floor) एतादृशानां शब्दानां स्त्रीलिङ्गप्रयोगे अपि प्रकृतसूत्रेण नदीसंज्ञा न भवति ।
विशेषः - ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि समाने एव अर्थे स्त्रीलिङ्गे पुंलिङ्गे च प्रयुज्यन्ते, तेषां स्त्रीलिङ्गप्रयोगे अपि नित्यस्त्रीलिङ्गत्वं न मन्यते, अतश्च नदीसंज्ञा अपि नैव भवति इति अस्माभिः अत्र यद् दृष्टम्, सः कैयटस्य पक्षः अस्ति । कशिकाकारस्य मतेन तु अत्र स्त्र्याख्यः इति शब्दस्य अर्थः किञ्चित् भिन्नः वर्तते । अमुम् एव अर्थं स्पष्टीकुर्वन् सिद्धान्तकौमुद्यां <<वाऽमि>> 1.4.5 इत्यस्मिन् सूत्रे कौमुदीकारः वदति - वृत्तिकारादीनां मते...पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् - इति । अस्य अर्थः अयम् - यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे अवश्यम् एव नित्यस्त्रीलिङ्गत्वं स्वीकरणीयम्, अतश्च तस्य नदीसंज्ञा अपि सम्भवति । यथा, प्रध्यायति इत्यस्मिन् अर्थे सिद्धः प्रधी इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च स्त्रीलिङ्गवाचिनः प्रधी-शब्दस्य नित्यस्त्रीलिङ्गत्वं मत्वा प्रकृतसूत्रेण तस्य अवश्यं हि नदीसंज्ञा भवति । परन्तु, ये शब्दाः लोके स्वभावतः पुंलिङ्गे एव दृश्यन्ते । इत्युक्ते एतेषां शब्दानां प्रयोगेण सामान्यतः पुंलिङ्गः अर्थः एव स्वीकरणीयः इति लोके व्यवहारः अस्ति; तथा च यदि स्त्रीलिङ्गः अर्थः वक्तव्यः तर्हि तत्र सा / एषा इति पदान्तरस्य आवश्यकता विद्यते, तादृशाः शब्दाः स्त्रीलिङ्गे प्रयुक्ताः अपि नित्यस्त्रीलिङ्गवाचिनः न सन्ति, अतश्च नदीसंज्ञकाः अपि न सन्ति । यथा, सेनां नयति इत्यस्मिन् अर्थे प्रयुक्तः सेनानी इति शब्दः यद्यपि पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यः, तथापि लोकव्यवहारे अयं शब्दः स्वभावतः पुंलिङ्गवाची एव अस्ति (सेनायाः नायकत्वं सामान्यरूपेण पुरुषे एव स्वीक्रियते इत्याशयः) । इत्युक्ते, यदि सेनानी इति शब्दः स्त्रीलिङ्गे प्रयोक्तव्यः, तर्हि तस्य लिङ्गस्य निर्देशार्थम् विशिष्टरूपेण सा सेनानी / एषा सेनानी इति रीत्या पदान्तरस्य (अन्यपदस्य) आधारः आवश्यकः भवति । एतादृशाः शब्दाः, स्त्रीलिङ्गे प्रयुक्ताः सन्तः अपि काशिकाकारस्य मतेन नित्यस्त्रीलिङ्गाः न, अतः ते नदीसंज्ञकाः अपि नैव मन्यन्ते । अनेनैव प्रकारेण खलं पुनाति अनेन वाक्येन निर्दिष्टः व्यवहारः अपि लोके सामान्यतः पुरुषवाचकः एव मन्यते, अतः तेन निर्दिष्टः खलपू इति शब्दः अपि लोके सामान्यतः पुंलिङ्गरूपेण एव व्यवह्रियते । इत्युक्ते, अस्य स्त्रीलिङ्गे निर्देशार्थम् अपि सा / एषा इति पदान्तरम् आवश्यकं भवति । एतं (इत्युक्ते, सा / एषा इति) पदान्तरं विना अस्य शब्दस्य स्त्रियां वर्तमानत्वम् (विद्यमानत्वम्) नास्ति इत्यर्थः । अतएव अस्य शब्दस्य स्त्रीलिङ्गे प्रयुक्ते सति अपि नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञा नैव भवति ।अयमेव सर्वः आशयः कौमुद्यां पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति वाक्येन निर्दिष्टः वर्तते । अनेन प्रकारेण काशिकाकार-कैयटयोर्मध्ये स्त्र्याख्यः इति शब्दम् अधिकृत्य मतान्तरम् अस्ति ।
नदीसंज्ञाविशिष्टानि कार्याणि
नदीसंज्ञायाः आधारेण अष्टाध्याय्याम् आहत्य चत्वारि कार्याणि उक्तानि सन्ति । तानि एतानि -
1. <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इति सूत्रेण सम्बोधनैकवचनस्य सुँ-प्रत्यये परे नदीसंज्ञक-अङ्गस्य ह्रस्वादेशः भवति । यथा -
गौरी + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
--> गौरि + स् [ <<अम्बार्थनद्योर्ह्रस्वः>> 7.3.107 इति नदीसंज्ञकस्य अङ्गस्य ह्रस्वादेशः]
--> गौरि [<<एङ्ह्रस्वात्सम्बुद्धेः>> 6.1.69 इति सम्बोधनैकवचनप्रत्ययस्य लोपः]
2. <<आण्नद्याः>> 7.3.112 इति सूत्रेण नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् इति आगमः भवति । यथा -
गौरी + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
--> गौरी + आट् + ए [ <<आण्नद्याः>> 7.3.112 नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् आगमः]
--> गौरी + ऐ [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> गौर्यै [<<इको यणचि>> 6.1.77 इति यणादेशः]
एवमेव, नदीसंज्ञकशब्दस्य पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रक्रियायाम् अपि अनेन सूत्रैण आट् आगमः भवति -
गौरी + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
--> गौरी + आट् + अस् [<<आण्नद्याः>> 7.3.112 नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् आगमः]
--> गौरी + आस् [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> गौर्यास् [<<इको यणचि>> 6.1.77 इति यणादेशः]
--> गौर्याः [रुत्वविसर्गौ]
3. <<ह्रस्वनद्यापो नुट्>> 7.1.54 इति सूत्रेण नदीसंज्ञक-अङ्गात् विहितस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य नुट् इति आगमः भवति । यथा -
गौरी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
--> गौरी + नुट्+ आम् [ <<ह्रस्वनद्यापो नुट्>> 7.1.54 इति नदीसंज्ञक-अङ्गात् विहितस्य आम्-प्रत्ययस्य नुट् आगमः]
--> गौरीणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्]
4. <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इति सूत्रेण नदीसंज्ञक-अङ्गात् परस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य आम् इति आदेशः भवति । यथा -
गौरी + ङि [सप्तम्येकवचनस्य प्रत्ययः]
--> गौरी + आम् [ <<ङेराम्नद्याम्नीभ्यः>> 7.3.116 इति नदीसंज्ञक-अङ्गात् विहितस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य आम् आदेशः]
--> गौरी + आट् + आम् [<<आण्नद्याः>> 7.3.112 नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य आट् आगमः]
--> गौरी + आम् [<<आटश्च>> 6.1.90 इति वृद्ध्यैकादेशः]
--> गौर्याम् [<<इको यणचि>> 6.1.77 इति यणादेशः]
प्रधी (प्रध्यायति सा) इत्यादीनां केषाञ्चन शब्दानां केवलं काशिकाकारस्य मतेन एव नदीसंज्ञा भवति, कैयटस्य मतेन न, अतः एतादृशानां शब्दानां रूपाणि अपि पक्षद्वये भिद्यन्ते । यथा, काशिकामतेन प्रधीशब्दस्य नदीसंज्ञायां कृतायाम् प्रध्यै, प्रध्याः, प्रधीनाम्, प्रध्याम्, हे प्रधि इति रूपाणि भवन्ति । कैयटमतेन तु अस्य शब्दस्य नदीसंज्ञा एव नास्ति, अतः अस्य रूपाणि प्रध्ये, प्रध्यः, प्रध्याम्, प्रध्यि, हे प्रधीः इति भवन्ति ।
बाध्यबाधकभावः
श्री, धी, भ्रू - इत्यादयः शब्दाः, ये अजादिप्रत्ययेषु परेषु इयङ् उत उवङ् इति आदेशं प्राप्नुवन्ति, तेषां विषये प्रकृतसूत्रेण नदीसंज्ञायां प्राप्तायाम् <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इति अग्रिमसूत्रेण सा निषिध्यते, ततः षष्ठीबहुवचनस्य आम्-प्रत्यये परे <<वामि>> 1.4.5 इत्यनेन, तथा च ङित्-प्रत्ययेषु परे <<ङिति ह्रस्वश्च>> 1.4.6 इत्यनेन सा पुनः विकल्पेन विधीयते ।
वार्त्तिकम् -
य: दीर्घ-ईकारान्तः दीर्घ-ऊकारान्तः वा पुंलिङ्गशब्दः समासादिवृत्त्या सिद्ध्यति, तस्य अपि केषुचित् स्थलेषु नदीसंज्ञां विधातुम् वार्त्तिककारेण इदं वार्त्तिकम् पाठितम् अस्ति । कौमुदीकारः इदं वार्त्तिकं स्पष्टीकुर्वन् ब्रूते - पूर्वं स्त्र्याख्यस्य उपसर्जनेऽपि नदीत्वं वक्तव्यम् इति । पूर्वं स्त्र्याख्यस्य नदीत्वं वक्तव्यम् इत्युक्ते, वृत्तेः पूर्वम् यः शब्दः नित्यस्त्रीलिङ्गवाची अस्ति, तस्य शब्दस्य वृत्तेः अनन्तरम् अपि अवश्यं नदीसंज्ञा भवति - इति । कदा भवति ? उपसर्जने अपि भवति । इत्युक्ते, सः नित्यस्त्रीलिङ्गशब्दः वृत्तेः अनन्तरं पुंलिङ्गे प्रयुज्यते चेद् अपि भवति - इत्यर्थः । समासादिवृत्त्या सिद्धे दीर्घ-ईकारान्ते दीर्घ-ऊकारान्ते वा पुंलिङ्गशब्दे अवयवरूपेण विद्यमानः नित्यस्त्रीलिङ्गशब्दः तस्मिन् पुंलिङ्गशब्दे अपि नदीसंज्ञकः भवति, तदनुषङ्गेण च सम्पूर्णस्य पुंलिङ्गशब्दस्य अपि अवश्यं नदीसंज्ञा भवति - इति अस्य सर्वस्य आशयः । अस्य कानिचन उदाहरणानि एतानि -
1. बह्व्यः श्रेयस्यः यस्य सः अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा बहुश्रेयसी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यन्ति । अस्मिन् शब्दे उपसर्जनरूपेण श्रेयसी इति शब्दः विद्यते । अयं शब्दः दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची च अस्ति । अतः यद्यपि अयं शब्दः बहुश्रेयसी इत्यत्र उपसर्जनरूपेण प्रयुक्तः अस्ति (इत्युक्ते, पुंलिङ्गरूपेण प्रयुक्तः अस्ति) तथापि अस्य शब्दस्य, तदनुषङ्गेण च बहुश्रेयसी-शब्दस्य अपि इति वार्त्तिकेन अवश्यम् नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि बहुश्रेयस्यै, बहुश्रेयस्याः, बहुश्रेयसीनाम्, बहुश्रेयस्याम्, हे बहुश्रेयसि - इति भवन्ति ।
2. प्रकृष्टा धीः यस्य सः अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा प्रधी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । अस्मिन् शब्दे उपसर्जनरूपेण धी इति शब्दः विद्यते । अयं शब्दः दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची च अस्ति । अतः यद्यपि अयं शब्दः प्रधी इत्यत्र उपसर्जनरूपेण प्रयुक्तः अस्ति (इत्युक्ते, पुंलिङ्गरूपेण प्रयुक्तः अस्ति) तथापि अस्य शब्दस्य, तदनुषङ्गेण च प्रधी-शब्दस्य अपि इति वार्त्तिकेन अवश्यम् नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि प्रध्यै, प्रध्याः, प्रधीनाम्, प्रध्याम्, हे प्रधि - इति भवन्ति ।
उपरि स्त्र्याख्यौ इति शब्दस्य विवरणसमये प्रध्यायति सः अस्मिन् अर्थे सिद्धस्य प्रधी शब्दस्य नदीसंज्ञा न भवति इति स्पष्टीकृतम् अस्ति । सः शब्दः भिन्नः, अत्र च प्रकृष्टा धीः यस्य सः अस्मिन् अर्थे सिद्धः प्रधी-शब्दः भिन्नः ।
3. कुमारीम् आत्मनः इच्छति अस्मिन् अर्थे कुमारी-शब्दात् क्यच् इति सनादिप्रत्यये कृते, ततः च तस्मात् क्विप्-प्रत्यये कृते कुमारी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । यः पुरुषः स्वस्य कृते कुमारीम् इच्छति, सः अपि कुमारी इति नाम्ना एव ज्ञायते इति अस्य आशयः । अस्मिन् शब्दे उपसर्जनरूपेण कुमारी इति दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची शब्दः विद्यते । अस्य शब्दस्य, तदनुषङ्गेण च पुंलिङ्गवाचिनः कुमारी-शब्दस्य अपि इति वार्त्तिकेन नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि कुमार्यै, कुमार्याः, कुमारीणाम्, कुमार्याम्, हे कुमारि - इति भवन्ति ।
4. कुमारी इव आचरति अस्मिन् अर्थे कुमारी-शब्दात् क्विप् इति सनादिप्रत्यये कृते, ततः च तस्मात् पुनः क्विप् इति कृत्प्रत्यये कृते कुमारी इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । यः पुरुषः कुमारीसदृशम् आचरणं करोति, सः अपि कुमारी इति नाम्ना एव ज्ञायते इति अस्य आशयः । अस्मिन् शब्दे अपि, पूर्वशब्दसदृशम् उपसर्जनरूपेण कुमारी इति दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची शब्दः विद्यते । अस्य शब्दस्य, तदनुषङ्गेण च पुंलिङ्गवाचिनः कुमारी-शब्दस्य अपि इति वार्त्तिकेन नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि कुमार्यै, कुमार्याः, कुमारीणाम्, कुमार्याम्, हे कुमारि - इत्येव भवन्ति ।
1. इति वार्त्तिकस्य प्रयोगः केवलम् पुंलिङ्गवाचिशब्दानां कृते एव भवति, स्त्रीलिङ्गवाचिशब्दानां कृते न । अतः, प्रकृष्टा धीः यस्या साः इत्यस्मिन् अर्थे स्त्रीलिङ्गे प्रयुक्तः प्रधी-शब्दः अनेन वार्त्तिकेन नदीसंज्ञकः न भवति । अस्यां स्थितौ अस्य (स्त्रीलिङ्गे प्रयुक्तस्य प्रधी-शब्दस्य) नदीसंज्ञा भवति वा - इति प्रश्ने कृते, अस्मिन् विषये काशिका-कैयटयोर्मध्ये मतान्तरम् वर्तते । अयं विषयः उपरि विस्तरेण प्रतिपादितः अस्ति । संक्षेपेण, काशिकाकारस्य मतेन एतादृशस्य स्त्रीलिङ्गे प्रयुक्तस्य प्रधी-शब्दस्य नदीसंज्ञा भवति । परन्तु कैयटस्य मतेन स्त्रीलिङ्गे प्रयुक्तस्य प्रधी-शब्दस्य नदीसंज्ञा न भवति ।
2. ये शब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति (इत्युक्ते, पुंलिङ्गे नपुंसकलिङ्गे वा नैव प्रयोक्तुं शक्याः) तेषां विषये समस्तपदत्वे अपि <<यू स्त्र्याख्यौ नदी>> 1.4.3 इति प्रकृतसूत्रेणैव नदीसंज्ञा भवति । यथा, प्रकृष्टा च असौ धीः इत्यस्मिन् अर्थे सिद्धम् प्रधी इति प्रातिपदिकम् नित्यस्त्रीलिङ्गवाचि सत् सूत्रसामर्थ्यात् एव नदीसंज्ञकम् भवति ।
इयं शब्दस्य संज्ञा, न हि वर्णस्य
प्रकृतसूत्रे विद्यमानः यू इति शब्दः दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च ग्रहणं करोति । एतयोः वर्णयोः सन्दर्भेण अस्माभिः तदन्तविधिः स्वीकृतः अस्ति, येन दीर्घ-ईकारान्तशब्दस्य, दीर्घ-ऊकारान्तशब्दस्य च नदीसंज्ञा भवति इति अर्थः सिद्ध्यति । परन्तु एतादृशं तदन्तग्रहणं नैव करणीयम्, अपितु केवलम् दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च नदीसंज्ञा करणीया - इति केचन वैयाकरणाः मन्यन्ते । एते वैयाकरणाः स्वस्य पक्षस्य पुष्ट्यर्थम् <<आच्छीनद्योर्नुम्>> 7.1.80 इति सूत्रम् अपि प्रमाणरूपेण निर्दिशन्ति । अस्मिन् सूत्रे विद्यमानः नदी इति शब्द: केवलम् दीर्घ-ईकारस्यैव निर्देशं करोति (दीर्घ-ईकारान्त-शब्दस्य न), अतश्च नदीसंज्ञा अपि केवलं दीर्घ-वर्णस्य एव करणीया - इति तेषाम् आशयः । परन्तु एतादृशं क्रियते चेत् अनेके दोषाः उद्भवन्ति । यथा, लक्ष्मी इति शब्दे विद्यमानः ईकारः न हि स्त्र्याख्यः अस्ति, अतः अस्य शब्दस्य नदीसंज्ञा नैव सम्भवति । किञ्च, दीर्घ-ईकारमात्रम् / दीर्घ-ऊकारमात्रम् केनापि सूत्रेण इयङ्-स्थानी / उवङ्-स्थानी नैव विधीयते, अतः केवलं दीर्घ-ईकारस्य दीर्घ-ऊकारस्य वा नदीसंज्ञायां कृतायाम् <<नेयङुवङ्स्थानावस्त्री>> 1.4.4 इति अग्रिमसूत्रेण निर्दिष्टः निषेधः अपि व्यर्थः जायते । एतादृशान् दोषान् दृष्ट्वा एव प्रकृतसूत्रे तदन्तग्रहणं कृत्वा शब्दस्यैव नदीसंज्ञा कृता वर्तते ।
##Balamanorama
<<यू स्त्र्याख्यौ नदी>> - हे बहुश्रेयसी सिति स्थिते नदीकार्यं वक्ष्यन्नदीसंज्ञामाह — यूस्त्र्याख्यौ नदी । ईश्चौउश्च यू । पूर्वसवर्णदीर्घः ।दीर्घाज्जसि चे॑ति निषेधाऽभावश्छान्दसः । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्र्याख्यौ । शब्दावित्यर्थाल्लभ्यते । 'यू' इतितद्विशेषणं, ततस्तदन्तविधिः ।स्त्रिया॑मित्येव सिद्धेआख्या॑ग्रहणं नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचनं छान्दसम् । तदाह — इदूदन्तावित्यादिना । यू किम् । मात्रे । 'आण्नद्याः' इति न भवति । स्त्रीलिङ्गाविति किम् । वातप्रम्ये । नित्येति किम् । ग्रामण्ये ।ननु प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गत्वात्कथं नदीसंज्ञेत्यत आह — प्रथमलिङ्गग्रहणं चेति । वार्तिकमेतत् । प्रथमस्य=समासादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य, स्त्रीलिङ्गस्य 'यूस्त्र्याख्यौ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः । नन्वेवं सति समासादिवृत्त्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङ्क्य अपिशब्दमध्याह्मत्य व्याचष्टे — पूर्वमित्यादिना । समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाऽभावेऽपी नदीत्वं वक्तव्यमिति वार्तिकार्थ इति भावः । अम्बार्थनद्योह्र्यस्वः ।
##Padamanjari
अत्र ह्रस्वयोरिदुतोर्ग्रहणे यद्यपि सवर्णग्रहणाद्दीर्घयोरपि संज्ञा लभ्यते, ह्रस्वयोरपि तु स्यात्;ततश्च हे शकटे, हे धेनो अत्रापि प्राप्नोति; इह च शकटिबन्धुः-ठ्नदी बन्धुनिऽ इति पूर्वपदान्तोदातत्वं प्रसज्यते; इह च बहुशकटिः बहुधेनुरिति-नद्यःतश्चऽ इति नित्यः कप्स्यात्, नैष दोषः,'ङिति ह्रस्वश्च' इत्येतन्नियमार्थं भविष्यति-ङ्त्येवि ह्रस्वौ नदीसंज्ञौ भवतः, नान्यत्रेति। कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम? नित्या नदीसंज्ञा प्राप्नोति, सा विभाषा विधेया, अतो हुस्वयोरपि स्यादेवेति दोषं द्दष्ट्वा दीर्घयोर्ग्रहणमिति दर्शयति - ई च ऊ च यू इति। समासविधौ सुबधिकारान्नैतद् द्वन्द्वस्य विग्रहवाक्यम्, किं तर्हि? अर्थप्रदर्शनम्। अत्र चानुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । क्वचितु विभक्त्यन्तमेव पठ।ल्ते। ननु दीर्घयोर्ग्रहणे'यू' इति निर्देशो नोपद्यते,'दीर्घाज्जसि च' इति पूर्वसवर्णप्रतिषेधाद्, अत आह-अविभक्तिकोऽयं निर्देश इति।'दीर्घाज्जसिसुलुक्' इति लुप्तत्वाद्'वा च्छन्दसि' इति पूर्वसवर्णेनापहृतत्वाद्वा नास्मिन् विभक्तिः श्रुयते इत्यविभक्तिकः। अन्ये तु नैवायं द्वन्द्वः, किन्तु पृथक् पदे इत्युक्तमित्याहुः। अविभक्तिकत्वं चातुकार्यानुकरणयोरभेदविवक्षया। स्त्रियमाचक्षाते स्त्र्याख्याविति। ननु स्त्र्याख्या इति प्राप्नोति, ठनुपसर्गेऽ इति को विधीयते, यस्तु ठातश्चोपसर्गेऽ इति कः, अयमकर्मोपपदे चरितार्थः, कर्मणि त्वणा बाध्यते, यथा वक्ष्यति - अकारादनुपपदात् कर्मोपपदे विप्रतिषेधेनेति तत्राह - मूलविभुजादिषु दर्शनादिति। एवं च कृत्वा इदमपि सिद्धं भवति - यस्मिन् दशसहस्त्राणि पुत्रे जाते गवां ददौ। ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ॥ इति॥ इह ईदूतोरेवेयं संज्ञा विधीयेत? तदन्तस्य वा? आद्ये पक्षे कृत् स्त्रियां न स्याद् - आध्यै, ब्राह्मण्यै, हे लक्ष्मि, हे यवाग्विति; समुदायो ह्यत्र स्त्र्याख्यः, न त्वीदून्मात्रम्; ङ्यूङेरेव तु स्यात्, स्त्रियां विधानादन्वयव्यतिरेकाभ्यां च स्त्र्याख्यात्वादिति द्वितीयं पक्षमाशित्याह - ईकारान्तमित्यादि। वर्णग्रहणे सर्वत्र तदन्तविधिरिति तदन्तविधिलाभः,'सुप्तिङ्न्तम्' इत्यत्र सुप्तिङेः प्रत्ययत्वादन्यत्रापि प्रत्ययग्रहणेषु तदन्तविधिर्निवारितः। कथं पुनर्ज्ञायतेवर्णयोरेवेदं ग्रहणं न प्रत्ययोरिति, इयणुवङ्स्थानप्रतिषेधात्। यदि तदन्तस्य संज्ञा, कथं वक्ष्यति-शीनद्योः परतः नद्यन्तादङ्गादुतरस्य इति? समुदायस्य नदीत्वातदवयवभूतावीदूतावपि तथोक्तौ। अन्ये त्वाहुः- वर्णयोरेव संज्ञा, समुदायधर्मस्य स्त्रित्वस्यावयव आरोपात्। कृत् स्त्रियामपि भवति, अत्र च लिङ्गम्-इयणुवङ्स्थानप्रतिषेध इति; तेषां गुरुनदीसंज्ञयोः समावेशो न स्याद्, एकविषयत्वात्। यू इति किमिति।'णेóराम्नद्याम्नीभ्यः' इत्यत्र पृथगाब्ग्रहणाद् आपो न भविष्यतीति मन्यते। मात्रे दुहित्रे इति'न्द्यःतश्च' इति ऋकारग्रहणमस्त्र्यर्थ स्याद्। बहुपितृक इत्यत्रेत्यज्ञापकम् ऋकारान्तानां संज्ञाभावस्य। ग्रामणीः खलपूरिति। रूपोदाहरणमेतत्सम्बुद्ध्यन्तं वा द्रष्ट्व्यम्। अथाख्यग्रहणं किमर्थम्, यावता यु स्त्रियामित्येतावता स्त्र्यर्थवृत्तित्वं लभ्यते, तत्राह - आख्याग्रहणमिति। आङ्पूर्वंस्य'ख्या' इत्यस्य धातोर्ग्रहणमित्यर्थः। क्वचितु आख्यग्रहणं किमिति प्रश्नः। शब्दार्थस्त्रीत्व इति आख्याग्रहणसामर्थ्यात्पदान्तरमनपेक्ष्य यौ स्वयमेव स्त्रियमाचक्षाते इत्याश्रीयते। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति'ङिति ह्रस्वश्च' इति नदीसंज्ञा भवत्येव। एवं पटुअरानीयतामित्युक्ते स्त्रियमप्यानीय कृतीभवति। अन्ये त्वाहुः-आख्याग्रहणसामर्थ्यान्नियम आश्रीयते-स्त्रियमेव यावाचक्षाते न तु लिङ्गन्तरयुक्तम् इति। ग्रामणीखलपूशब्दयोस्तु क्रियाशब्दत्वेन त्रिलिङ्गत्वान्न भवति। इष्विशनिप्रभृतीनां तु स्त्रीविषयन्तवाभावेऽपि'ङिति ह्रस्वश्च' इत्यायत्र केवलस्य स्त्रीशब्दस्यैवानुवृत्तिर्नाख्याग्रहणस्येति भवतीति तेषामाङ्पूर्वस्य ध्यायतेः क्विपि सम्प्रसारणे-आध्यै ब्राह्मण्यै इत्यत्रापि न स्यात्। तस्मात्पूर्व एव प्रकार आश्रयणीयः। कथं तर्हि प्रत्युदाहरणम्-ग्रामण्यै स्त्रियै इति, खलप्वै स्त्रियै इति? उच्यते; क्रियाशब्दत्वेऽप्येतयोः पुंसि मुख्या वृत्तिः, पुंसामेव ह्यमुचितो धर्मो यदुत ग्रामनयनं नाम। एवं खलपवनमपि। आध्यानं तु स्त्रिपुंससाधारणमिति विशेषः।'पथमलिङ्गग्रहणं च प्रयोजनं क्विब्लुप्समासाः,' यः शब्दः प्रथमस्त्रित्वयुक्तद्रव्यमभिधाय पश्चाद्येन केनचित्प्रकारान्तरेण लिङ्गान्तरसंयुक्तं द्रव्यान्तरमाह, तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता संज्ञा विधीयते। क्विप् - कुमारीमिच्छति कुमारीयति, कुमारीयतेः क्विप्, कुमारी ब्राह्मणः, तस्मै कुमार्यै ब्राह्याणाय। लुप् -'लुम्मनुष्ये' इति लुप्, खरकुट्यै ब्राह्मणाय। यद्यप्यत्र यचुक्तवद्भावात् स्त्रीत्वमप्यस्ति, तथापि स्वाश्रस्य पुंस्त्वस्यानिवृतेर्नाऽयं स्त्रियामेव वर्तत इत्याख्याग्रहणादप्राप्तिः । समासः- अतितन्त्र्यै ब्राह्मणाय। अवयवस्त्रीविषयत्वात् सिद्धम्, समासे तावदवयवस्तन्त्रीशब्दः स्त्रियामेव वर्तत इति तदानीमेव संज्ञा, ततश्च वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात् कार्यसिद्धिः; तदन्तपक्षे तु ठङ्गधिकारे तस्य च तदुतरपदस्य चऽ इति वचनाद् अतितन्त्रीबन्धुरित्यत्रापि'नदी बन्धुनि' इति स्वरः सिद्धः; नद्या पूर्वपदस्य विशेषणात्, क्विब्लुपोरपि पूर्व स्त्रियामेव वर्तित्वात्, पश्चादपि तदपरित्यागेनार्थान्तरे वृत्तिः। तत्रार्थान्तरसंसर्गात्प्रागेवान्तरङ्गत्वात्प्रवृता संज्ञा सत्यपि पश्चाल्लिङ्गान्तरयोगे तस्य च बहिरङ्गत्वान्न निवर्तिष्यते। यद्येवम्, इयणुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः; अवयवयोरियणुवङ्स्थानत्वाद्। यथा ह्यवयवस्य स्त्रिविषयत्वात्समुदायस्य संज्ञा भवति, तथावयवस्येयुवस्थानत्वात् समुदायस्य यण्स्थानस्यापि प्रतिषेधप्रसङ्गः, यथा - धियौ, आध्याविति? सिद्धं त्वङ्गरूपग्रहणाद्, यस्याङ्गस्येयुवौ तत्प्रतिषेधादङ्गस्येयणुवङ्विधनासमर्थ्यादङ्गस्याक्षेपः, तेन यस्याङ्गस्येयणुवङै निर्वर्तेतेतस्य नदीसंज्ञा निषेधः। आध्यै इत्यत्र त्ववयवस्याङ्गत्वं नास्ति, अङ्गस्य ठेरनेकाचःऽ इति यण्विधानाद् इयणुवङ्स्थानता नास्तीति निषेधाभावः। एतदर्थमेव तत्र स्थानग्रहणम् - इयणुवङेर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद्, यदा त्वपवादेन बाधस्तदा मा भूदिति। एवं'ङिति ह्रस्वश्च' इत्यत्राप्यङ्गस्याक्षेपात् सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य - शकट्यै, अतिशकटये ब्राह्मणाय; श्रियै, अतिश्रिये ब्राह्मणाय॥