त्रेस्त्रयः

7-1-53 त्रेः त्रयः आमि

Sampurna sutra

Up

त्रेः अङ्गस्य आमि त्रयः

Neelesh Sanskrit Brief

Up

त्रि-शब्दस्य अङ्गस्य आम्-प्रत्यये परे 'त्रय' आदेशः भवति ।

Neelesh English Brief

Up

The word त्रि gets the आदेश 'त्रय' when followed by the प्रत्यय 'आम्'.

Kashika

Up

त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति। त्रयाणाम्। त्रीवामित्यपि छन्दसीष्यते। त्रीणामपि समुद्राणामिति॥

Siddhanta Kaumudi

Up

त्रिशब्दस्य त्रयादेशः स्यादामि । त्रयाणाम् । परमत्रयाणाम् । गौणत्वे तु नेति केचित् । प्रियत्रीणाम् । वस्तुतस्तु प्रियत्रयाणाम् । त्रिषु । द्विशब्दो नित्यं द्विवचनान्तः ॥

Laghu Siddhanta Kaumudi

Up

त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वेऽपि प्रियत्रयाणाम्॥

Neelesh Sanskrit Detailed

Up

'त्रि' इत्यस्य षष्ठीबहुवचनस्य आम्-प्रत्यये परे 'त्रय' इति आदेशः भवति । <<अनेकाल्-शित्-सर्वस्य>> 1.1.55 इत्यनेन अयमादेशः सर्वादेशः विद्यते । यथा - त्रि + आम् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठी-बहुवचनस्य आम्-आदेशः] → त्रय + आम् [<<त्रेस्त्रयः>> 7.1.53 इति त्रि-शब्दस्य त्रय-आदेशः] → त्रय + नुट् आम् [<<ह्रस्वनद्यापो नुट्>> 7.3.54 इति आम्-प्रत्ययस्य नुट्-आगमः] → त्रया + नाम् [<<नामि>> 6.4.3 इति अङ्गस्य दीर्घः] → त्रयाणाम् [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] ज्ञातव्यम् - बहुव्रीहिसमासे यद्यपि त्रि-शब्दः गौणः (अप्रधानः) अस्ति, तथापि वर्तमानसूत्रेण तस्यापि त्रय-आदेशः जायते । यथा, 'प्रियत्रि' शब्दस्य षष्ठीबहुवचनम् 'प्रियत्रयाणाम्' इति भवति ।

Balamanorama

Up

<<त्रेस्त्रयः>> - त्रेस्त्रयः । 'आमि सर्वनाम्नः' इत्यतआमी॑त्यनुवर्तते । तदाह — त्रिशब्दस्येति । अनेकाल्त्वात्सर्वादेशः । नुट् दीर्घश्च । तदाह — त्रयाणामिति । 'त्रेरयङ्' इति तु नोक्तम्, अयङ् अनङित्यादिवन्ङकारात्पूर्वस्याऽकारस्योच्चारणार्थत्वाशङ्काप्रसङ्गात् । अङ्गाधिकारस्थत्वात् । 'पदाङ्गाधिकारे' इति परिभाषयात्रे॑रिति तदन्तग्रहणमित्यभिप्रेत्योदाहरति — परमत्रयाणामिति । परमाश्च ते त्रयश्चेति विग्रहः । प्रियास्त्रयो यस्येति प्रियत्रिशब्दो बहुव्रीहिः । तस्यान्यपदार्थप्रधानत्वादेकद्वि बहुवचनानि सन्ति । अतो हरिवत्तस्य रूपाणि ।तत्र त्रयादेशमाशह्क्याह — गौणत्वे त्विति । त्रिशब्दस्योपसर्जनत्वे 'त्रेस्त्रयः' इति न भवतीति केचिदाहुरित्यर्थः ।गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः॑ इति न्यायादिति भावः । वस्तुतस्त्विति ।प्रियत्रयाणा॑मित्येव रूपं वस्तुत्वेन ज्ञेयमित्यर्थः । प्रामाणिकमिति यावत् । गौणमुख्यन्यायस्त्वत्र न प्रवर्तते, तस्य पदकार्य एव प्रवृत्तेः । अत एवोपसर्जनानां सर्वनामत्वप्रतिषेध आरब्धो वार्तिककृता । अत एव चप्रियतिसे॑त्यादौ त्रिरुआआदयो भाष्ये उदाहृताः सङगच्छन्त इत्यन्यत्र विस्तरः ।अथ द्विशब्दे विशेषमाह — द्विशब्द इति । तस्य द्वित्वनियतत्वादिति भावः ।

Padamanjari

Up

त्रेरिति षष्ठी, न पञ्चमी, णिजां त्रयाणाम् इति निर्देशात् ॥