7-2-99 त्रिचतुरोः स्त्रियां तिसृचतसृ विभक्तौ
त्रिचतुरोः स्त्रियां तिसृचतसृ विभक्तौ
विभक्तिप्रत्यये परे त्रि-शब्दस्य चतुर्-शब्दस्य च स्त्रीत्वं द्योतयितुम् तिसृ तथा चतसृ - एतौ आदेशौ भवतः ।
The words त्रि and चतुर् are respectively converted to तिसृ and चतसृ to indicate the feminine property, when followed by a विभक्ति-प्रत्यय
त्रि चतुर् इत्येतयोःस्त्रियां वर्तमानयोस्तिसृ चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः। तिस्रः। चतस्रः। तिसृभिः। चतसृभिः। स्त्रियामिति किम्? त्रयः। चत्वारः। त्रीणि। चत्वारि। स्त्रियामिति चैतत् त्रिचतुरोरेव विशेषणं नाङ्गस्य। तेन यदा त्रिचतुःशब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदाप्यादेशौ भवत एव। प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मणः, प्रियतिस्रौ, प्रियतिस्रः। प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसृणि। प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः। प्रियचतसृ, प्रियचतसृणी, प्रियचतसृणि। <<नद्यृतश्च>> ५.४.१५३ इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात्। यता तु त्रिचतुःशब्दौ लिङ्गान्तरे, स्त्रियामङ्गम्, तदादेशौ न भवतः। प्रियास्त्रयोऽस्याः, प्रियाणि त्रीणि वा अस्या ब्राह्मण्याः, सा प्रियत्रिः, प्रियत्री, प्रियत्रयः, प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः॥ तिसृभावे संज्ञायां कन्युपसंख्यान कर्तव्यम्॥ तिसृका नाम ग्रामः॥ चतसर्याद्युदात्तनिपातनं कर्तव्यम्॥ चत॑स्रः पश्येत्यत्र <<चतुरः शसि>> ६.१.१६७ इत्येष स्वरो मा भूत्। च॒त॒सृ॒णामित्यत्र तु <<षट्त्रिचतुर्भ्यो हलादिः>> ६.१.१७९ इत्येव स्वरो भवति। हलादिग्रहणसामर्थ्याद् निपातनस्वरो बाध्यते॥
स्त्रीलिङ्गयोरेतयोरेतावादेशौ स्तो विभक्तौ परतः ॥
स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ॥
'त्रि' तथा 'चतुर्' एतौ सङ्ख्यावाचिनौ शब्दौ । स्त्रीत्वस्य विवक्षायाम् विभक्तिप्रत्यये परे एतयोः (क्रमेण) 'तिसृ' तथा 'चतसृ' एतौ आदेशौ भवतः । अग्रे एतयोः रूपाणि ऋकारान्तशब्दवदेव भवन्ति । यथा - 1. त्रि + जस् [प्रथमाबहुवचनस्य प्रत्ययः । <<सुपः>> 1.4.103 इति जस्-प्रत्ययस्य विभक्तिसंज्ञा] → तिसृ + जस् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इति त्रि-शब्दस्य तिसृ-आदेशः] → तिसृ + अस् [इत्संज्ञालोपः] → तिस्रः [<<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते अपवादत्वेन <<अचि र ऋतः>> 7.2.100 इति ऋकारस्य रेफादेशः] 2. चतुर् + शस् [द्वितीयाबहुवचनस्य प्रत्ययः । <<सुपः>> 1.4.103 इति जस्-प्रत्ययस्य विभक्तिसंज्ञा] → चतसृ + जस् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इति चतुर्-शब्दस्य चतसृ-आदेशः] → चतसृ + अस् [इत्संज्ञालोपः] → चतस्रः [<<प्रथमयोः पूर्वसवर्णः>> 6.1.102 इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते अपवादत्वेन <<अचि र ऋतः>> 7.2.100 इति ऋकारस्य रेफादेशः] 3. त्रि + भिस् [तृतीयाबहुवचनस्य प्रत्ययः । <<सुपः>> 1.4.103 इति भिस्-प्रत्ययस्य विभक्तिसंज्ञा] → तिसृ + भिस् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इति त्रि-शब्दस्य तिसृ-आदेशः] → तिसृभिः [विसर्गनिर्माणम्] एतवेम तिसृभ्यः, चतसृभिः, चतसृभ्यः, तिसृषु, चतसृषु - एतानि रूपाणि अपि सिद्ध्यन्ति । 3. त्रि + आम् [षष्ठीबहुवचनस्य आम्-प्रत्ययः । <<सुपः>> 1.4.103 इति आम् -प्रत्ययस्य विभक्तिसंज्ञा] → तिसृ + आम् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इति त्रि-शब्दस्य तिसृ-आदेशः] → तिसृ + नुट् + आम् [ <<अचि र ऋतः>> 7.2.100 इति ऋकारस्य रेफादेशे प्राप्ते ; तस्मिन्नेव समये <<ह्रस्वनद्यापो नुट्>> 7.1.54 इत्यनेन प्रत्ययस्य नुडागमे अपि प्राप्ते <!नुमचिर्तृज्वद्भावेभ्यो नुट् विप्रतिषेधेन!> इति वार्तिकस्य प्रयोगः क्रियते । अनेन वार्तिकेन नुडागमः एव भवति, <<अचि र ऋतः>> 7.2.100 इति रेफादेशः न ।] → तिसृनाम् [<<नामि>> 6.4.3 इत्यनेन नाम्-प्रत्यये परे अङ्गस्य दीर्घे प्राप्ते <<न तिसृचतसृ>> 6.4.4 इति निषेधः] → तिसृणाम् [<!ऋवर्णान्नस्य णत्वं वाच्यम्!> अनेन वार्तिकेन णत्वम् भवति ] एवमेव चतसृणाम् इत्यपि रूपं सिद्ध्यति । अस्मिन् सूत्रे निर्दिष्टम् 'स्त्रीत्वम्' त्रि-शब्दस्य चतुर्-शब्दस्य अस्ति, अङ्गस्य न । इत्युक्ते, समस्तपदस्य विषये अनेन सूत्रेण निर्दिष्टः आदेशः तदैव भवति यदा त्रि-शब्दस्य चतुर्-शब्दस्य वा स्त्रीत्वम् विवक्षते । यथा - 1. 'प्रियाः तिस्रः ललनाः यस्य सः' इत्यत्र यद्यपि समस्तपदम् पुंलिङ्गे अस्ति, तथापि 'त्रि' शब्दस्य तु स्त्रीत्वमेव विवक्षते । अतः अत्र त्रि-शब्दस्य 'तिसृ' आदेशः भवति । यथा - प्रियत्रि + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः । <<सुपः>> 1.4.103 इति आम्-प्रत्ययस्य विभक्तिसंज्ञा] → प्रियतिसृ + स् [स्त्रीत्वस्य विवक्षायाम् <<त्रिचतुरोः स्त्रियां तिसृचतसृ>> 7.2.99 इति त्रि-शब्दस्य तिसृ-आदेशः] → प्रियतिसन् + स् [<<ऋदुशनस्पुरुदंसोऽनेहसां च>> 7.1.94 इति अनङ्-आदेशः] → प्रियतिसान् स् [<<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 इति नकारान्तस्य अङ्गस्य उपधादीर्घः] → प्रियतिसान् [<<हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्>> 6.1.68 इति सुँलोपः] → प्रियतिसा [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] तथैव प्रियतिसारौ, प्रियतिसारः आदीनि रूपाणि अपि भवन्ति । 2. 'प्रियाः त्रयः यस्याः सा' इत्यत्र यद्यपि समस्तपदम् स्त्रीलिङ्गे अस्ति, तथापि 'त्रि' शब्दस्य तु पुंस्त्वमेव विवक्षते । अतः अत्र त्रि-शब्दस्य 'तिसृ' आदेशः न भवति । यथा - प्रियत्रि + सुँ [प्रथमैजवचनस्य सुँ-प्रत्ययः] → प्रियत्रिः [विसर्गनिर्माणम्] एवमेव प्रथमाद्विवचनस्य 'प्रियत्री', प्रथमाबहुवचनस्य 'प्रियत्रयः' आदीनि रूपाणि अपि सिद्ध्यन्ति । अत्र एकम् वार्तिकम् ज्ञातव्यम् - । इत्युक्ते, <<संज्ञायां कन्>> 8.3.87 अनेन कन्-प्रत्यये कृते त्रि-शब्दस्य स्त्रीत्वस्य विवक्षायाम् तिसृ-आदेशः भवति । यथा - त्रि + कन् [<<संज्ञायां कन्>> 8.3.87 इति कन्-प्रत्ययः] → तिसृ + कन् + टाप् [स्त्रीत्वस्य विवक्षायाम् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः, त्रि-शब्दस्य इति तिसृ-आदेशः] → तिसृका कन्-प्रत्ययस्य चतुर्-शब्दस्य विषये प्रसक्तिः नास्ति ।
<<त्रिचतुरोः स्त्रियां तिसृचतसृ>> - त्रिचतुरोः । एतयोरेताविति । त्रिचतुरोस्तिसृ चतसृ इत्येतावित्यर्थः । विभक्ताविति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । जश्शसोः-तिसृ अस् इति स्थिते ।
त्रिचतुरोरेव विशेषणमिति । श्रुतत्वात् । नाङ्गस्येति । विपर्ययात् । तेन किं सिद्धं भवति इत्याह - तेनेति । प्रियतिसेति । अनङ्सौ, ऋदुशनस्पुरुदंसोऽनेहसाञ्च इत्यनङ् । प्रियतिस्नाविति । ऋतो ङिसर्वनामस्थानोयोः इति गुणं परमपि बाधित्वोतरसूत्रेण रादेशः । प्रियतिसृ इति । इकोऽचि विभक्तौ इत्यज्ग्रहणेन ज्ञापितम् - लुमता लुप्तेऽपि क्वचित्प्रत्ययलक्षणं भवतीति । तेन स्वमोर्नपुंसकात् इति नित्ये लुकि कृतेति तिसृभावः । प्रियतिसृणी इति । रादेशात्पूर्वविप्रतिषेधेन नुमिति क्वचित्पठ।ल्ते । नद्यःतश्चेति कब्न भवतीति । समास्यमानदशायामृकारान्तस्य तत्र ग्रहणमिति भावः । कबभावे हेतुः - विभक्त्याश्रयत्वादित्यादि । एवं तावत् स्त्रियाम् इत्यनेन त्रिचतुरोर्विशेषणादव्याप्तिपरिहारो दर्शितः । अतिव्याप्तिरपि परिहृतेत्याह - यदा चेति । तिसृकेति । स्वार्थे कन्प्रत्ययः अल्पत्वे, कुत्सितत्वे, संज्ञायां वा । तत्र विभक्तेर्लुकि कृते तत्र विधीयमानस्तिसृबावो न स्यादिति वचनम् । तत्र स्वार्थिकप्रत्ययान्तत्वाद्वहुवचनान्तस्तिसृकाशब्दः संज्ञेत्येके । ग्रामस्य कस्यचिदेषा संज्ञा रूढिरिति नास्ति बहुवचनप्रसङ्ग इत्यन्ये । चतसरीति । यथा प्रियतिस्नावित्यत्र सवनामस्थानलत्रणं गुणं बाधित्वा रादेशो भवति, तथा ङवपि प्राप्नोति तथा चोतरसूत्रे प्रियतिस्नीति ङवपि रादेशमुदाहरिष्यति, पूर्वपिप्रतिषेधं च वक्ष्यति । अत्राहुः - अस्मादेव निर्देशादर्थप्रधानयोरेवादेशः । इह तु स्वरूपप्रधानत्वात्त्दभावे गुण इति । चतस्न इति । अत्र स्थानिवद्भावात् चतुरः शसि इत्यन्तोदातत्वे सति उदातयणो हल्पूर्वात् इति शस उदातत्वप्रसङ्गः, स निपातनस्वरेण बाध्यते । यथैव तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा षट्त्रिचतुर्भ्यो हलादिः इत्येतं एविभक्तिस्वरमपि बाधेत तत्राह - चतसृणामित्यत्र त्विति । तत्र कारणमाह - हलादिग्रहणसामर्थ्यादिति । तत्र हलादिग्रहणस्य चतस्नः पश्येत्येतदेव व्यावर्त्यम्, नान्यत्किञ्चित् । एतच्च तत्रैवोपपादितम् । यदि च निपातनस्वरो विभक्तिस्वरस्यापि बाधकः स्यात्, तदान्तरेणापि हल्ग्रहणं विभक्तेः स्वरो न भविष्यति, किं हलादिग्रहणेन तत्क्रियमाणं ज्ञापयति - निपातनस्वरं विभक्तिस्वरो बाधते इति । अन्ये त्वाहुः हलादि - ग्रहणादेव चतस्नः पश्येत्यत्र चतुरः शसि इत्यस्याप्रवृत्तिरवसीयते । यदि स्यात्, ततः उदातयणओ हल्पूर्वात् इति स्यादेव विभक्तेरुदातत्वमिति तव्द्यावृतये हलादिग्रहणमनर्थकं स्यात् । तस्मादाद्यौदातनिपातनमेव न कर्तव्यमिति । तत्राद्यौदातस्य चतुश्शब्दस्यानन्तर्यत आद्यौदात एव चतस्नदेशे सति चतसृणामित्यत्र षट्त्रिचतुर्भ्यो हलादिः इति विभक्तेरुदातत्वं भवति ॥