7-3-113 याट् आपः घेः ङिति
index: 7.3.113 sutra: याडापः
आपः अङात् ङिति सुपि याट्
index: 7.3.113 sutra: याडापः
आबन्तात् अङ्गात् परस्य ङित्-प्रत्ययस्य याट्-आगमः भवति ।
index: 7.3.113 sutra: याडापः
A ङित्-प्रत्यय that comes after an आबन्त word get a याट् आगम.
index: 7.3.113 sutra: याडापः
आबन्ता दङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति। खट्वायै। बहुराजायै। कारीषगन्ध्व्यायै। खट्वायाः। कारीषगन्ध्यायाः। बहुराजायाः। अतिखट्वाय इत्यत्र अकृते दीर्घे ङ्याब्ग्रहणे अदीर्घः इति वचनाद् याडागमो न भवति, कृते तु लाक्षणिकत्वात्।
index: 7.3.113 sutra: याडापः
आपः परस्य ङिद्वचनस्य याडागमः स्यात् । वृद्धिरेचि <{SK72}> । रमायै । सवर्णदीर्घः । रमायाः । रमयोः । रमाणाम् । रमायाम् । रमयोः । रमासु । एवं दुर्गादयः ॥
index: 7.3.113 sutra: याडापः
आपो ङितो याट्। वृद्धिः। रमायै। रमाभ्याम्। रमाभ्यः। रमायाः। रमयोः। रमाणाम्। रमायाम्। रमासु। एवं दुर्गाम्बिकादयः॥
index: 7.3.113 sutra: याडापः
आबन्तात् अङ्गात् परस्य ङे / ङसिँ / ङस् / ङि प्रत्ययानाम् याट्-आगमः भवति । यथा -
माला + ङे
→ माला + याट् + ए [याडापः 7.3.113 इति याट्-आगमः]
→ माला + या + ए [हलन्त्यम् 1.3.3 इति टकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः ।]
→ मालायै [वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]
तथैव मालायाः तथा मालायाम् रूपे सिद्ध्यतः ।
ज्ञातव्यम् -
1) 'आबन्तशब्दाः' इत्यते ते शब्दाः येषामन्ते चाप् / टाप/ डाप् एतेषु कश्चन स्त्रीलिङ्गवाची प्रत्ययः अस्ति । अनेन सर्वे आकारान्तस्त्रीलिङ्गशब्दाः गृह्यन्ते ।
2) अस्मिन् सूत्रे स्थानीनिर्देशकम् षष्ठ्यन्तम् पदम् नास्ति । अस्यामवस्थायाम् अनया परिभाषया पञ्चमी-विभक्त्यन्तशब्दस्य अर्थे परिवर्तनं न भवति, अपितु सप्तमी-विभक्तन्तशब्दस्य अर्थे परिवर्तनं भूत्वा षष्ठीविभक्तिवत् तस्य अर्थः सिद्ध्यति । अतः अस्मिन् सूत्रे 'ङिति' इति सप्तम्यन्तपदस्य अर्थः 'ङित्-प्रत्यये परे' इति न स्वीकृत्य 'ङित्-प्रत्ययस्य' इति स्वीकरणीयः ।
3) आद्यन्तौ टकितौ 1.1.46 इत्यनेन टित्-आगमः स्थानिनः आद्यवयवरूपेण आगच्छति । अतः याट्-आगमः प्रत्ययात् पूर्वमागच्छति ।
index: 7.3.113 sutra: याडापः
याडापः - यडापः । 'आप' इति पञ्चमी ।धेर्ङिती॑त्यतो डितीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — आपः परस्येत्यादिना । टित्त्वादाद्यवयवः । वृद्धिरेचीति । या-ए इति स्थिते आकारस्य एकारस्य च स्थाने ऐकार एकादेश इति भावः । सवर्णेति । ङसिङसोः रमा अस् इति स्थिते याडागमे 'अकः सवर्णे दीर्घः' इति सवर्णदीर्घ इति भावः ।य॑डित्येव सुवचम् । 'अतो गुणे' इति पररूपं तु न, अकारोच्चारणसामर्थ्यात् । रमयोरिति । 'आङि चापः' इत्यात्त्वेऽयादेश इति भावः । रमाणामिति । 'ह्रस्वनद्यापः' इत्यत्राऽऽब्ग्रहणन्नुटि पर्जन्यवल्लक्षणप्रवृत्त्यानामी॑ति दीर्घे 'अट्कुप्वा' ङिति णत्वमिति भावः । रमायामिति । 'रमा-इ' इति स्थितेङेराम्नद्याम्नीभ्यः॑ इत्यामादेशे याडागमे सवर्णदीर्घ इति भावः । 'न विभक्तौ' इति मस्य नेत्त्वम् । सर्वशब्दाट्टापि सर्वाशब्दः । सोऽपि प्राये रमावत् । ङित्सु 'याडापः' इति प्राप्ते- ।
index: 7.3.113 sutra: याडापः
दीर्घोच्चारणं किमर्थम्, न यडेवोच्येत, वृद्धौ कृतायां सवर्णदीर्घत्वे च खट्वायै, खट्वाया इति सिद्धम् ? न सिध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति, अकारोच्चारणसामर्थ्यान्न भविष्यति । अस्त्यन्यदकारोच्चारणस्य प्रयोजनम् - ज्ञाये, ज्ञाया इत्यत्र'सावेकाचः' इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । किञ्च - उच्चारणार्थोऽप्यकारः सम्भाव्येत, इह खट्वामतिक्रान्त इति प्रादिसमासे ह्रस्वत्वे च तस्य स्थानिवद्भावाततः परस्य चतुर्थ्येकवचनस्य'णेóर्यः' इति यादेशं बाधित्वानेन याट् प्राप्नोति, तत्र कृते दीर्घत्वे चातिखट्वायै देवदतायेति प्रसङ्गः, तत्राह - आतखट्वायेत्यत्रेति । अकृते दीर्घत्व इति । यादेशात् प्रागवस्थायामिदमुक्तम् । कृते तहि यादेशे दीर्घत्वे च ङ्च्चासिउ भूतपूर्व इति याट् प्राप्नोति ? अत आह - कृते च लाक्षणिकत्वादिति ॥