4-4-1 प्राक् वहतेःष्ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
प्राक्-वहतेः ठक्
प्राक्-वहतीय-अर्थेषु ठक्-प्रत्ययः औत्सर्गिकरूपेण भवति ।
The ठक् प्रत्यय is used as a default for the प्राग्वहतीय meanings.
<<तद्वहति रथयुगप्रासङ्गम्>> ४.४.७६ इति वक्ष्यति। प्रागेतस्माद् वहतिसंशब्दनाद् यानर्थाननुक्रमिष्यामः, ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — <<तेन दीव्यति खनति जयति जितम्>> ४.४.२ इति। अक्षैर्दीव्यति आक्षिकः॥ ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसंख्यानम्॥ माशब्द इत्याह माशब्दिकः। नैत्यशब्दिकः। कार्यशब्दिकः। वाक्यादेतत् प्रत्ययविधानम्॥ आहौ प्रभूतादिभ्यः॥ प्रभूतमाह प्राभूतिकः। पार्याप्तिकः। क्रियाविशेषणात् प्रत्ययः॥ पृच्छतौ सुस्नातादिभ्यः॥ सुस्नातं पृच्छति सौस्नातिकः सौखरात्रिकः। सौखशायनिकः॥ गच्छतौ परदारादिभ्यः॥ परदारान् गच्छति पारदारिकः गोरुतल्पिकः॥
'तद्वहति' इत्यतः प्राक्ठगधिक्रियते ।<!तदहेति माशब्दादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ मा शब्दं कार्षीः इति यः आह सः 'माशब्दिकः' ॥
तद्वहतीत्यतः प्राक् ठगधिक्रियते ॥
तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः द्वितीयः महोत्सर्गः अस्मात् सूत्रात् आरभ्यते । वर्तमानसूत्रतः <<तद्वहति रथयुगप्रासङ्गम्>> 4.4.76 इति यावत्सु सूत्रेषु आहत्य षट्त्रिंशत् (36) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्वहतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति । अस्य ठक्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । ठक्-प्रत्ययस्य उदाहरणानि एतानि - अ) दध्ना संस्कृतम् = दधि + ठक् → दाधिक । आ) शकटेन चरति = शकट + ठक् → शाकटिक । इ) समाजं रक्षति = समाज + ठक् → सामाजिक । प्रक्रिया इयम् - दधि + ठक् [<<प्राग्वहतेष्ठक्>> 4.4.1 → दधि + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इकारादेशः] → दाधि + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → दाध् + इक [<<यस्येति च>> 6.4.148 इति इकारलोपः] → दाधिक 36 प्राग्वहतीय-अर्थाः एते - 1. <<तेन दीव्यति खनति जयति जितम्>> 4.4.2 2. <<संस्कृतम्>> 4.4.3 3. <<तरति>> 4.4.5 4. <<चरति>> 4.4.8 5. <<वेतनादिभ्यो जीवति>> 4.4.12 6. <<हरत्युत्सङ्गादिभ्यः>> 4.4.15 7.<<निर्वृत्तेऽक्षद्यूतादिभ्यः>> 4.4.19 8. <<संसृष्टे>> 4.4.22 9. <<व्यञ्जनैरुपसिक्ते>> 4.4.26 10. <<ओजस्सहोऽम्भसा वर्तते>> 4.4.27 11. <<प्रयच्छति गर्ह्यम्>> 4.4.30 12. <<उञ्छति>> 4.4.32 13. <<रक्षति>> 4.4.33 14. <<शब्ददर्दुरं करोति>> 4.4.34 15. <<पक्षिमत्स्यमृगान् हन्ति>> 4.4.35 16. <<परिपन्थं च तिष्ठति>> 4.4.36 17. <<माथोत्तरपदपदव्यनुपदं धावति>> 4.4.37 18. <<पदोत्तरपदं गृह्णाति>> 4.4.38 19. <<धर्मं चरति>> 4.4.41 20. <<प्रतिपथमेति ठंश्च>> 4.4.42 21. <<समवायान् समवैति>> 4.4.43 22. <<संज्ञायां ललाटकुक्कुट्यौ पश्यति>> 4.4.46 23. <<तस्य धर्म्यम्>> 4.4.47 24. <<अवक्रयः>> 4.4.50 25. <<तदस्य पण्यम्>> 4.4.51 26. <<शिल्पम्>> 4.4.55 27. <<प्रहरणम्>> 4.4.57 28. <<अस्तिनास्तिदिष्टं मतिः>> 4.4.60 29. <<शीलम्>> 4.4.61 30. <<कर्माध्ययने वृत्तम्>> 4.4.63 31. <<हितं भक्षाः>> 4.4.65 32. <<तदस्मै दीयते नियुक्तम्>> 4.4.66 33. <<तत्र नियुक्तः>> 4.4.69 34. <<अध्यायिन्यदेशकालात्>> 4.4.71 35. <<कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति>> 4.4.72 36. <<निकटे वसति>> 4.4.73 अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <!ठक्-प्रकरणे 'तत् आह' इति 'माशब्द'-आदिभ्यः उपसंख्यानम्!> । इत्युक्ते, अस्मिन् अधिकारे 'तत् आह' अस्मिन् अर्थे 'मा शब्दम्','नित्यं शब्दम् ', तथा 'कार्यं शब्दम् ' एतेभ्यः वाक्येभ्यः अपि ठक्-प्रत्ययः भवति । यथा - मा शब्दं कार्षीः इति यः आह, सः = मा शब्दम् + ठक् → माशब्दिकः । तथैव, नित्यं शब्दं कार्षीः इति यः आह, सः = नैत्यशब्दिकः । कार्यं शब्दं कार्षीः इति यः आह सः = कार्यशब्दिकः । (अत्र ठक्-प्रत्ययः वाक्यस्य विषये क्रियते, न हि शब्दस्य विषये एतत् स्मर्तव्यम् ।) 2. <!आहौ प्रभृतादिभ्यः!> - 'प्रभृत' तथा 'पर्याप्त' एताभ्याम् शब्दाभ्याम् 'आह' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा - प्रभृतमाह सः = प्राभृतिकः । पर्याप्तमाह, सः = पार्याप्तिकः । 3. <!पृच्छतौ सुस्नातादिभ्यः!> - 'पृच्छति' अस्मिन् अर्थे 'सुस्नात', 'सुखरात्रि ', 'सुखशयन' एतेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । यथा - सुस्नातं पृच्छति सः = सौस्नातिकः । सुखरात्रिं पृच्छति सः = सौखरात्रिकः । सुखशयनं पृच्छति सः = सौखशायनिकः । विशेषः - सुखशयन + ठक् इत्यस्य प्रक्रिया इयम् - → सुखशयन + ठक् → सुखशयन + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इक्-आदेशः] → सौखशायन + इक [<<अनुशतिकादीनां च>> 7.3.20 इत्यनेन पूर्वपदस्य तथा उत्तपदस्य प्रथमस्य अच्-वर्णस्य किति परे वृद्धिः] → सौखशायन् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → सौखशायिन 4. <!गच्छतौ परदारादिभ्यः!> - 'गच्छति' इत्यस्मिन् अर्थे 'परदारा' तथा 'गुरुतल्प' एताभ्यां शब्दाभ्याम् ठक्-प्रत्ययः भवति । परदारान् गच्छति सः = पारदारिकः । गुरुतल्पं गच्छति सः = गौरुतल्पिकः ।
<<प्राग्वहतेष्ठक्>> - प्राग्वहतेष्ठक् । वहतीत्येकदेशेनतद्वहति रथयुगप्रासङ्ग॑मिति सूत्रं परामृश्यते इत्यभिप्रेत्याह — तद्वहतीत्यत आति । तदाहेति । इतिशब्दो व्युत्क्रमेण तच्छब्दानन्तरं द्रष्टव्यः । तदित्याहेत्यर्थे माशब्द — स्वागतैत्यादिशब्देभ्यष्ठक उपसङ्ख्यानमित्यन्वयः ।त॑दित्यनेन वाक्यार्थो विवक्षितः । इतिशब्दस्तस्य वाक्यार्थस्य कर्मत्वं गमयति ।मा शब्दं कार्षी॑रित्याहेत्याद्यर्थे तद्वाक्यावयवात् 'माशब्द' इत्यादिशब्दाट्ठगिति यावत् । माशाब्दिक इति । शब्दं मा कार्षीरित्यन्वयः ।माङि लुङि॑ति लोडर्थे लुङ् । 'न माडओगे' इत्यजागमनिषेधः । शब्दं न कुरु इत्यर्थः । अत्र आहेति ब्राऊञ्धात्वर्थव्यक्तवचनक्रियां प्रतिमा शब्दं कार्षी॑रिति वाक्यार्थः कर्म । तद्वाक्यैकदेशो माशब्देति समुदायः । तस्मान्निर्विभक्तिकादयं प्रत्ययः । न हि माशब्देति समुदायाद्विभक्तिरस्ति । एवंच माशब्देति समुदायाट्ठकि 'माशब्दिक' इति रूपम् ।मा शब्दः कारी॑ति पाठे तु कारीति कर्मणि लुङ । शब्दो न कार्य इत्यर्थः । नच तदाहेत्यर्थे माशब्दादिभ्यष्ठगिति यथाश्रुतमब्युपगम्य माशब्दमाहेत्याद्यर्थे माशब्देत्यादिशब्देभ्यो द्वितीयान्तेभ्यष्ठगित्येव कुतो न व्याख्यायत इति वाच्यम्, एवं सति 'आहौ प्रभूतादिभ्यः' इत्युत्तरवार्तिकारम्भवैयर्थध्यापत्तेरिति भावः ।
तदाहेति ।'वाक्यादेतत्प्रत्ययविधानम्' इति वक्ष्यति, न च वाक्याद् द्वितीया सम्भवति; अप्रातिपदिकत्वात् । तेन तदिति कर्ममात्रं निदिश्यते, न तु द्वितीयासमर्थविभक्तिः । माशब्द इत्याहेति । शब्दो माकारीत्याहेत्यर्थः । संसर्गरूपस्य वाक्यार्थस्येतिकरणेन प्रत्यवमर्शे सति वचनक्रियां प्रति कर्मत्वं सम्भवति, नान्यथेति मत्वैष विग्रहः । वाक्यादेतत्प्रत्ययविधानमिति । एतच्चाहौ प्रभूतादिभ्यः पुनर्वचनाल्लभ्यते, अन्यथा प्रभूतादयो माशब्दादय एव भवन्तु, किं पृथग्वचनेन ! आहाविति । आहेति पदे प्रकृतिभागस्यागन्तुकेनेकारेणेदमोऽनुकरणम् । तत्र शब्दे कार्यस्यासम्भवादर्थप्रत्ययविधिः क्रियाविशेषणादिति । तदन्ताभिधायिन इत्यर्थः । पृच्छताविति । तिङ्न्तानुकरणमेतत् । एवं गच्छताविति । तिङ्न्तार्थे तु प्रत्ययः । सुस्नातं पृच्छतीति । सुस्नातं भवता, सुस्नातो भवानित्येवं वा पृच्छतीत्यर्थः । सौखरात्रिक इति । सुखरात्रिं पृच्छति । एवं यः पृच्छति, सा एवमुच्यते । एतेन सौखशायनिको व्याख्यातः । अनुशतिकादित्वादुभयपदवृद्धिः । गौरुतल्पिक इति । तल्पशब्देन भार्या लक्ष्यते ॥