प्रतिपथमेति ठंश्च

4-4-42 प्रतिपथम् एति ठन् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

index: 4.4.42 sutra: प्रतिपथमेति ठंश्च


'तत् प्रतिपथम् एति' (इति) समर्थानाम् प्रथमः ठक् ठन् च प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.42 sutra: प्रतिपथमेति ठंश्च


'एति' अस्मिन् अर्थे द्वितीयासमर्थात् 'प्रतिपथ'शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः ।

Kashika

Up

index: 4.4.42 sutra: प्रतिपथमेति ठंश्च


प्रतिपथशब्दाद् द्वितीयासमर्थादेति इत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट् ठक् च। प्रतिपथम् एति प्रतिपथिकः, प्रातिपथिकः।

Siddhanta Kaumudi

Up

index: 4.4.42 sutra: प्रतिपथमेति ठंश्च


प्रतिपथमेति प्रातिपथिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.42 sutra: प्रतिपथमेति ठंश्च


'प्रतिपथम्' शब्दस्य अर्थद्वयम् भवति - (अ) प्रत्येकः मार्गः । (पन्थानं पन्थानं प्रति प्रतिपथम् ) । (आ) मुख्यं मार्गम् विहाय अन्यः मार्गः । एतयोः द्वयोः अपि विषये यः 'प्रतिपथम् एति' (= गच्छति) तस्य निर्देशं कर्तुम् 'प्रतिपथ' शब्दात् ठक् तथा ठन् प्रत्ययौ भवतः । यथा -

  1. प्रतिपथम् एति सः = प्रतिपथ + ठक् → प्रातिपथिक ।

  2. प्रतिपथम् एति सः = प्रतिपथ + ठन् → प्रतिपथिक ।

Balamanorama

Up

index: 4.4.42 sutra: प्रतिपथमेति ठंश्च


प्रतिपथमेति ठंश्च - प्रतिपथमेति ठंश्च । प्रतिपथमित्यव्ययीभावादेतीत्यर्थे ठन्ठक्च स्यादित्यर्थः । प्रतिपथमिति ।लक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावः । 'ऋक्पूः' इति समासान्तः ।

Padamanjari

Up

index: 4.4.42 sutra: प्रतिपथमेति ठंश्च


प्रतिपथमिति । पूर्ववद्वीप्सायामव्ययीभावः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः ॥