रक्षति

4-4-33 रक्षति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु

Sampurna sutra

Up

'तत् रक्षति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'रक्षति' अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति ।

Kashika

Up

तदिति द्वितीयासमर्थाद् रक्षतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समाजं रक्षति सामाजिकः। सांनिवेशिकः॥

Siddhanta Kaumudi

Up

समाजं रक्षति सामाजिकः ॥

Laghu Siddhanta Kaumudi

Up

समाजं रक्षति सामाजिकः॥

Neelesh Sanskrit Detailed

Up

'रक्षति' इत्युक्ते रक्षणं करोति । 'रक्ष्' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् इदम् । 'यः रक्षति' तस्य निर्देशं कर्तुम् 'यस्य रक्षणं क्रियते' तस्मात् द्वितीयासमर्थात् अनेन सूत्रेण ठक्-प्रत्ययः विधीयते । यथा - 1. समाजं रक्षति सः सामाजिकः । समाज + ठक् → सामाजिक । 2. सन्निवेशं रक्षति सः सान्निवेशिकः । सन्निवेश + ठक् → सान्निवेशिक ।

Balamanorama

Up

Padamanjari

Up

सामाजिक इति । समाजः उ समूहः, समजत्यस्मिन्निति कृत्वा, एवं सन्निवेशः ॥