4-4-38 आक्रन्दात् ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु
'तत् धावति' (इति) आक्रन्दात् ठञ् च
'धावति' अस्मिन् अर्थे द्वितीयासमर्थात् आक्रन्दशब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः ।
आक्रन्दन्त्येतस्मिन्नित्यक्रन्दो देशः। अथवाक्रन्द्यत इत्याक्रन्द आर्तायनमुच्यते। विशेषाभावाद् द्वयोरपि ग्रहणम्। आक्रन्दशब्दात् तदिति द्वितीयासमर्थाद् धावतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकारात् ठक् च। स्वरे विशेषः। आक्रन्दं धावति आक्रन्दिकः। आक्रन्दिकी॥
अस्माट्ठञ् स्याच्चाट्ठक् धावतीत्यर्थे । आक्रन्दं दुःखिनां रोदनस्थानं धावति आक्रन्दिकः ॥
'आक्रन्द' इति कस्यचन देशस्य नाम । यस्मिन् देशे नित्यमाक्रन्दनं श्रूयते, तस्य अभिधानम् 'आक्रन्द'देशः । दुःखिनां रोदनस्थानम् इत्याशयः । अस्मात् शब्दात् 'धावति' अस्मिन् अर्थे ठक्-प्रत्ययः तथा ठञ्-प्रत्ययः - द्वावपि भवतः । आक्रन्दं धावति सः आक्रन्दिकः । ज्ञातव्यम् - ठक् तथा ठञ् - द्वयोः प्रत्यययोः प्रयोगेण 'आक्रन्दिक' एतत् समानमेव रूपं जायते । परन्तु द्वयोः रुपयोः स्वरे भेदः अस्ति । ठञ्-प्रत्ययान्तः 'आक्रन्दिक' शब्दः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्तः भवति, तथा ठक्-प्रत्ययान्तः 'आक्रन्दिक'शब्दः <<कितः>> 6.1.165 इत्यनेन अन्तोदात्तः भवति ।
<<आक्रन्दाट्ठञ्च>> - आक्रन्दाट्ठञ्च । अस्मादिति । आक्रन्दशब्दाद्द्वितीयान्तादित्यर्थः । आकन्दन्ति । अस्मिन्नत्याक्रन्दः । तदाह — रोदनस्थानमिति ।
आक्रन्दो देश इति । दुः खितानां रोदनस्यायनमार्तायनमुच्यते, आर्तैरीयते प्राप्यत इति कृत्वा । आर्तायनमार्तानां त्राता आक्रन्द इत्युच्यते, आक्रन्द्यते आर्तैराहूयत इति कृत्वा ॥