4-4-26 व्यञ्जनैः उपसिक्ते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन उपसिक्ते' (इति) व्यञ्जनैः समर्थानां प्रथमात् परः ठक् प्रत्ययः
'उपसिक्तम्' अस्मिन् अर्थे तृतीयासमर्थेभ्यः व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यः ठक्-प्रत्ययः भवति ।
तेनेत्येव। व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यस्तृतीयासमर्थेभ्य उपसिक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। दध्ना उपसिक्तं दाधिकम्। सौपिकम्। खारिकम्। व्यञ्जनैरिति किम् ? उदकेनोपसिक्त ओदनः॥
ठक् । दध्ना उपसिक्तं दाधिकम् ॥
'उपसिक्तम्' इत्युक्ते 'प्रोक्षणं कृतम् / सिञ्चनं कृतम्' । 'उप + सिञ्च्' धातोः इदं क्त-प्रत्ययान्तरूपम् । यस्य साहाय्येन उपसिञ्चनम् क्रियते, तत् व्यञ्जनमस्ति चेत् तस्मात् तृतीयासमर्थात् ठक्-प्रत्ययः भवति । यथा - सूपैः उपसिक्तम् = सूप + ठक् → सौपिकः ओदनः । दध्ना उपसिक्ताः दाधिकाः अपूपाः । ज्ञातव्यम् - 1. किम् नाम व्यञ्जनम्? पदमञ्जरीकारः वदति - 'ओदनादिषु रसो येन व्यज्यत, तत् व्यञ्जनम्' । 'रसवर्धनार्थम् प्रयुक्तम् द्रव्यम्' इत्यर्थः । 2. यदि उपसिञ्चनस्य साधनम् व्यञ्जनम् नास्ति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - 'उदकेन उपसिक्तः' इत्यत्र ठक्-प्रत्ययः न भवति । 3. अस्मिन् सूत्रे 'व्यञ्जनैः' इति बहुवचनस्य रूपम् निर्दिष्टमस्ति । अस्य प्रयोजनम् न्यासकारः वदति - 'बहुवचननिर्देशः स्वरूपविधिनिरासार्थः' । इत्युक्ते, अत्र ठक्-प्रत्ययस्य विधानम् 'व्यञ्जनवाचि'शब्दात् कृतमस्ति, न हि 'व्यञ्जन' इत्यस्मात् शब्दात् । एतत् निर्देशयितुमत्र बहुवचनप्रयोगः क्रियते ।
<<व्यञ्जनैरुपसिक्ते>> - व्यञ्डनैरुपसिक्ते । उपसिक्तमित्यर्थे तृतीयान्तेभ्यो व्यञ्जनवाचिभ्यष्ठगित्यर्थः । सेचनेन मृदूकरणमुपसेकः । संसृष्ट इत्येव सिद्धे नियमार्थं सूत्रम् — ॒व्यञ्जनवाचिभ्य उपसिक्त एवे॑ति । तेनेह न, सूत्रेन संसृष्टा स्थाली ।
ओदनादिषु रसो येन व्यज्यते तद्व्यञ्जनम् । बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । उपसिक्तः उ सेचनेन मृदूकृतः । इह यद्येनोपसिक्तं ततेन संसृष्ट्ंअ भवति, तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम् - व्यञ्जनेभ्य उपसिक्त एव संसृष्टे यथा स्यात्संसृष्टमात्रे मा भूत्, दध्ना संसृष्टा स्थालीति ॥