संस्कृतम्

4-4-3 संस्कृतम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन

Sampurna sutra

Up

'तेन संस्कृतम्' (इति) समर्थानाम् प्रथमात् परः ठक् ।

Neelesh Sanskrit Brief

Up

तृतीयासमर्थात् 'संस्कृतम्' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।

Neelesh English Brief

Up

To express an entity that has been cultured / processed, an appropriate तद्धितप्रत्यय gets attached to the तृतीयासमर्थ word indicating the substance used for culturing / processing.

Kashika

Up

तेनेति तृतीयासमर्थात् संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं दाधिकम्। शार्ङ्गवेरिकम्। मारिचिकम्। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

Up

दध्ना संस्कृतं दाधिकम् । मारीचिकम् ॥

Laghu Siddhanta Kaumudi

Up

दध्ना संस्कृतम् दाधिकम्। मारीचिकम्॥

Neelesh Sanskrit Detailed

Up

संस्कृतम् इत्युक्ते उत्कर्षः । यस्य साहाय्येन उत्कर्षः क्रियते, तस्य तृतीयासमर्थात् नाम्नः ठक्-प्रत्ययं कृत्वा संस्कृतस्य पदार्थस्य निर्देशं कर्तुं वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - 1. दध्ना संस्कृतम् = दधि + ठक् → दाधिक । मूलरूपस्य अपेक्षया दध्ना यस्य उत्कर्षः कृतः अस्ति, तत् दाधिकम् । 2. मरीचैः (black pepper) संस्कृतम् = मरिच + ठक् → मारिचिक । प्रक्रिया - दधि + ठक् → दधि + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → दाधि + इक <<किति च>> 7.2.118 इति आदिवृद्धिः] → दाध् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → दाधिक एवमेव 'मारिचिक' इत्यपि रूपम् सिद्ध्यति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'तेन' इत्यनेन संस्करणस्य यत् साधनम् तस्य ग्रहणं क्रियते । अतः 'देवदत्तेन संस्कृतम्' एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति । 2. <<संस्कृतं भक्षाः>> 4.2.16 इति कश्चन प्राग्दीव्यतीयः अर्थः अस्ति, सः वर्तमानसूत्रात् भिन्नः अस्तीति स्मर्तव्यम् । <<संस्कृतं भक्षाः>> 4.2.16 इत्यनेन सप्तमीसमर्थशब्दात् प्रत्ययविधानम् कृतमस्ति, वर्तमानसूत्रेण तु तृतीयासमर्थात् प्रत्ययविधानं क्रियते ।

Balamanorama

Up

<<संस्कृतम्>> - संस्कृतम् । तेनेत्येव संस्कृतमित्यर्थे तृतीयान्ताट्ठगित्यर्थः । 'सस्कृतं भक्षाः' इत्यत्र तु सप्तम्यन्तादणादि विधिः । मारीचिकमिति । मरीचिभिः संस्कृतमित्यर्थः ।

Padamanjari

Up

योगविभाग उतरार्थ इति । उतरोऽपवादः संस्कृत एव यथा स्यात् ॥