कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति

4-4-72 कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत्र

Sampurna sutra

Up

index: 4.4.72 sutra: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति


'तत्र कठिनान्त-प्रस्तार-संस्थानेषु व्यवहरति' (इति) समर्थानां प्रथमात् परः ठक्-प्रत्ययः ।

Neelesh Sanskrit Brief

Up

index: 4.4.72 sutra: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति


'व्यवहरति' अस्मिन् अर्थे सप्तमीसमर्थात् कठिनान्तशब्दात्, प्रस्तारशब्दात् तथा संस्थानशब्दात् ठक्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.72 sutra: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति


तत्र इत्येव। कठिनशब्दान्तात् सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठक् प्रत्ययो भवति व्यवहरति इत्येतस्म्न्नर्थे। व्यवहारः क्रियातत्त्वम् यथा लौकिकव्यवहारः इति। वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः। वार्ध्रकठिनिकः। प्रास्तारिकः। सांस्थानिकः।

Siddhanta Kaumudi

Up

index: 4.4.72 sutra: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति


तत्रेत्येव । वंशकठिने व्यवहरति वांशकठिनिकः । वंशा वेणवः कठिना यस्मिन्देशे स वंशकठिनस्तस्मिन्देशे या क्रिया यथानुष्ठेया तां तथैवानुतिष्ठतीत्यर्थः । प्रास्तारिकः । सांस्थानिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.72 sutra: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति


'व्यवहरति' इत्युक्ते 'सम्यक् / यथायोग्यम् व्यवहारम् / आचरणम् करोति' । यस्य शब्दस्य अन्ते 'कठिन' इति पदम् विद्यते, तस्मात् शब्दात्, 'प्रस्तार' (=अवयवः / विभागः ) शब्दात् तथा च 'संस्थान' (=संघटनम् / सन्निवेशः) शब्दात् 'व्यवहरति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति । उदाहरणानि एतानि -

1) यस्मिन् क्षेत्रे कठिनाः वंशाः (वेणवः) सन्ति, सः प्रदेशः 'वंशकठिन' नाम्ना ज्ञायते । अस्मिन् क्षेत्रे यः सम्यक् रूपेण व्यवहारं करोति सः = वंशकठिन + ठक् → वांशकठिनिकः ।

2) यस्मिन् क्षेत्रे कठिनाः वर्ध्राः (चर्माणि) सन्ति, सः प्रदेशः 'वर्ध्रकठिन' नाम्ना ज्ञायते । अत्र यः सम्यक् रूपेण व्यवहारं करोति सः = वर्ध्रकठिन + ठक् → वार्ध्रकठिनिकः ।

3) प्रस्तारे (विभागे) व्यवहरति सः प्रास्तारिकः ।

4) संस्थाने (संघटने) व्यवहरति सः सांस्थानिकः ।

Balamanorama

Up

index: 4.4.72 sutra: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति


कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति - कठिनान्तप्रस्तार । अस्मिन्नर्थे कठिनान्त, प्रस्तार, संस्थान एभ्यः सप्तम्यन्तेभ्यष्ठगित्यर्थः । वंशकठिनशब्दं विवृणोति — वंशा इति । व्यवहरणम्-उचितक्रिया । तदाह — यस्मिन्देशे इति । प्रस्तारसंस्थानशब्दौ अवयवसंनिवेशपर्यायौ ।

Padamanjari

Up

index: 4.4.72 sutra: कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति


व्यवहरति सम्भवति पणिना समानार्थः, आह हि -'व्यवहृपणोः समर्थयोः' इति; अस्ति विवादे - व्यवहारे पराजित इति, अस्ति विक्षेपे - शलाकां व्यहरतीति, अस्ति क्रियातत्वे; तदिह चरमस्य ग्रहणं तद्धितस्वभावादित्याह - व्यवहारः क्रियातत्वमिति । यत्र देशे या क्रिया यथानुष्ठेया तत्र तस्यास्तथानुष्ठानमित्यर्थः । वंशाःउवेणवः कठिना यस्मिन्वंशकठिनो देशः । वर्ध्री उ चर्मविकारः कठिना अस्मिन्वर्ध्रकठिनः, आहिताग्न्यादित्वाद्विशेषणस्य परनिपातः । चक्रयुक्तेन शकटेन चरतीति चक्रचरः, स देशाननुक्रमेण चरन् तत्रानुष्ठेयाविपरीतं चरन्नेवमुच्यते । संस्थानप्रस्तारौ सन्निवेशौ ॥