तस्य धर्म्यम्

4-4-47 तस्य धर्म्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक्

Sampurna sutra

Up

'तस्य धर्म्यम्' इति समर्थानां प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् ठक् प्रत्ययः भवति ।

Kashika

Up

तस्येति षष्ठीसमर्थाद् धर्म्यमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। धर्म्यं न्याय्यम्, आचारयुक्तमित्यर्थः। शुल्कशालाया धर्म्यं शौल्कशालिकम्। आकरिकम्। आपणिकम्। गौल्मिकम्॥

Siddhanta Kaumudi

Up

आपणस्य धर्म्यमापणिकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'धर्म्यः' इत्युक्ते 'आचरणयोग्यः' । 'धर्म'शब्दात् <<धर्मपथ्यर्थन्यायादनपेते>> 4.4.92 इत्यनेन यत्-प्रत्ययं कृत्वा 'धर्म्य' इति शब्दः सिद्ध्यति । यत् वर्तनमाचरणयोग्यम्, तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - 1. आपणस्य धर्म्यम् = आपण + ठक् → आपणिकम् । आपणे आचरणयोग्यम् यत् कार्यम्, तत् 'आपणस्य धर्म्यम्' अस्ति इत्युच्यते, अतः तस्य निर्देशः 'आपणिकम्' इत्यनेन क्रियते । 2. शुल्कशालायाः धर्म्यम् = शुल्कशाला + ठक् → शौल्कशालिकम् । शुल्कशालायां आचरणयोग्यः व्यवहारः इत्यर्थः । 3. आकरस्य धर्म्यम् = आकर + ठक् → आकरिक । 'आकर' इत्युक्ते शुक्लशाला इत्येव ।

Balamanorama

Up

<<तस्य धर्म्यम्>> - तस्य धम्र्यम् । धर्मदनपेतं धम्र्यम्, आचरितुं योग्यमित्यर्थः । धम्र्यमित्यर्थे षष्ठन्ताट्ठगित्यर्थः ।

Padamanjari

Up

धर्मः उ अनुवृत आचारः, ततोऽनपेतं धर्म्यम्,'धर्मपथ्यर्थन्यायादनपेते' इति वचनात्। दौवारिकमिति ।'द्वारादीनां च' इति वृद्धिप्रतिषेधः, ऐजागमश्च ॥