4-4-8 चरति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन चरति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
'चरति' अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति ।
तेनेति तृतीयासमर्थात् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिर्भक्षणे गतौ च वर्तते। दध्ना चरति दाधिकः। हास्तिकः। शाकटिकः॥
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥
'चरति' इति चर्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । 'चरति' इत्यस्य अस्मिन् सूत्रे द्वौ अर्थौ स्वीक्रियेते - भक्षति, तथा गच्छति । द्वयोः अपि अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः वर्तमानसूत्रेण औत्सर्गिकरूपेण ठक्-प्रत्ययः विधीयते । यथा - 1. दध्ना चरति (= भक्षति) सः दाधिकः । दधि + ठक् → दधि + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इकारादेशः] → दाधि + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → दाध् + इक [<<यस्येति च>> 6.4.148 इति इकारलोपः] → दाधिक 2. शकटेन चरति (= गच्छति) सः शाकटिकः । शकट + ठक् → शकट + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इकारादेशः] → शाकट + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → शाकट् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → शाकटिक 3. हस्तिना चरति (= गच्छति) सः हास्तिकः । हस्तिन् + ठक् → हस्तिन् + इक [<<ठस्येकः>> 7.3.50 इति ठकारस्य इकारादेशः] → हास्तिन् + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → हास्त् + इक [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → हास्तिक
<<चरति>> - चरति । गच्छतिभक्षयतीति ।चरगतिभक्षणयो॑रिति चरधातोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके 'नस्तद्धिते' इति टिलोपः