4-4-15 हरति उत्सङ्गादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
'तेन हरति' (इति) उत्सङ्गादिभ्यः समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
'हरति' अस्मिन् अर्थे उत्सङ्गादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः ठक्-प्रत्ययः भवति ।
तेनेत्येव। उत्सङ्गादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। हरतिर्देशान्तरप्रापणे वर्तते। उत्सङ्गेन हरति औत्सङ्गिकः। औडुपिकः॥ उत्सङ्ग। उडुप। उत्पत। पिटक। उत्सङ्गादिः॥
उत्सङ्गेन हरत्यौत्सङ्गिकः ॥
उत्सङ्गादिगणे पाठितेभ्यः शब्देभ्यः तृतीयासमर्थेभ्यः 'हरति (= अन्यत्र नयति, हरणं करोति)' अस्मिन् अर्थे ठक् प्रत्ययः कर्तव्यः । यथा - उत्सङ्गेन हरति सः = उत्सङ्ग + ठक् → उत्सङ्ग + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → औत्सङ्ग + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → औत्सङ्ग् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → औत्सङ्गिक उत्सङ्गादिगः अयम् - 1. उत्सङ्ग - उत्सङ्गेन हरति सः औत्सङ्गिकः । 2. उडुप - उडुपेन हरति सः औडुपिकः । 3. उत्पत - उत्पतेन हरति सः औत्पतिकः । 4. पिटक - पिटकेन हरति सः पैटकिकः ।
<<हरत्युत्सङ्गादिभ्यः>> - हरत्युत्सङ्गादिभ्यः । हरतीत्यर्थे तृतीयान्तेभ्य इत्सङ्गादिभ्यष्ठक् स्यादित्यर्थः ।
हरति उ नयति, उपादते वा ॥